पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरम् १६७ तथा प्राङ्न्यायेऽपि भाषा दृश्यते, यथा गृहीतधन- प्रार्थने ममानेन सह न्याये वृत्ते जितं मया जयपत्रं चेदम् । अगृहीतनृणं ददात्विति । कारणोत्तरन्तु नैवं- रूपमिति । ततोऽतिभिन्न एवायं प्राङ्न्यायः । । कारणं यदि ग्रहणमात्रं धारणे कारणं, तदा मत्तो गृहीत धनत्वात् इति हेतुर्वाच्यो न पुनरपरिशुद्धधनत्वमपीति । उच्यते। ग्रहणामिधानेन धारणमुत्पन्नं ज्ञाप्यते । उत्पन्नं पुनरिदानीमप्यनुवर्तते इति अपरिशोधनाभिधानेनेति उत्पत्तिमविनाशं च ज्ञापयितुमुभयोः सहितयोः प्रयोगः । अत्रोच्यते – कारणविशेषो हि प्रत्यवस्कन्दनम् । कारणं त्वनभ्युपगम्याऽपीति सामान्यकारणं तृतीयमुत्तरम् । अत एव-‘सत्यानृते कारणं च प्राङ्न्यायश्चोत्तरं पृथक् ' । इति कारणमेव निर्दिशति । अत एव जितेन्द्रियेण प्रपद्येत्युप- लक्षणं इत्युक्तम् । दीक्षितप्रभृतिभिस्तु प्रतिपाद्येति व्याख्या- तम् । तथा व्यासः- 'कारणे स्यादवस्कन्दो मिथ्या स्यात्सा- ध्यनिहुतिः' । बलवत्तरकारणोपन्यासादेवास्य दुर्बल कारणोत्तरत्वमेव । यथा मदीयेयं क्रमागता भूरिति भाषायां मदीयेयं क्रमागतेति तुल्यरूपं कारणोत्तरम् । तथा मदी- याधिकृता भूरिति चिरं चोपभुक्ता देशान्तरोपस्थिततया पञ्चवर्षाणि नोपभुक्तेति भाषायां मया पञ्चमे वर्षे अधिकृता भुक्ता तु पञ्चवर्षाणि इति दुर्बलं कारणम् । 'आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति वचनात् । यत्तु दुर्बलो दाहरणं तार्किकंमन्यस्य योग्लोकस्य मदीयेयं क्रमागता भूरिति भाषायां ‘ मदीयेयं, दशवर्षभुज्यमानत्वात् ' इति श्रीकरोदाहरणस्वीकरणं तदसंगतम् । दशवर्षभोगस्य भूमिगतस्वत्वोत्पत्तौ ज्ञप्तौ तु कारणत्वस्यैवाभावात् कथं दुर्बलकारणोदाहरणता । आधिग्रहणस्य तु कारणत्वे सत्येव दुर्बलत्वम् । पूर्वाधिविरोधेन कार्यशक्तिप्रतिबन्ध तस्मात् सर्व तावद्युक्तम् । सहेतुकसाध्यापहारमात्रेणैव मिथ्योत्तरता पूर्वबायुक्तकारणमपकुत्याभ्युपगमाभियोग निस्ताराय भावरूपकारणाभिधानात् कारणोत्तरता, तद्विशेषस्तु प्रत्यवस्कन्दनम् । सापदेशमिथ्याऽपि कारण- मेव । ननु तर्हि प्राङ्न्यायोऽपि कारणं स्यात् उभयरूप- कारणाभिधानात् । उच्यते । न जयः कारणमपधार्य- माणत्वे किन्तु ग्रहणं परिशोधनं वा । जयस्त्वेतयोरन्य तरधारणं प्रमाणमात्रं, तथा प्राङ्न्याये च पराजये च उत्तरं भवति । तथा स्त्रीसंग्रहणे पूर्वमभियुक्तस्य पुनर भियोगे पूर्वमेवाऽहमनेनाऽस्मिन् विषये अभियुक्तो जितो राजनि निषेद्य दण्डितश्चेत्यत्र दण्डदण्डिकाकबालश्च प्रमाणम् (१) अतः कथं पुनरपि मामभियुङ्क्त इति । व्यमा. ३०१ (२) प्रपद्य कारणं ब्रूयादिति । अर्थिनोक्तमर्थ सत्य- मेतदित्यभ्युपगम्य प्रत्यर्पितमित्यादिकारणाभिधानेन यदि पूर्वपक्षमबस्कन्दति प्रत्यर्थी तदा तदुत्तरं प्रत्यवस्कन्दनं भवतीत्यर्थः । व्यक.२९ (३) अयमर्थः --- अर्थिना स्वसाध्यसिद्धौ यो हेतु- रुक्तः, प्रत्यर्थी तं तथा प्रपद्य प्रतीत्य हेतोः सिद्धत्वम सिद्धत्वं वाऽनादृत्यान्यदेव साध्यविपरीतहेतुरूपं कारणं ब्रूयात्तत्कारणोत्तरं पूर्ववादिनः साध्यस्य प्रत्यवस्कन्दनात् प्रत्यवस्कन्दनं भवति । यत्तु प्रपद्य कारणमिति स्वीकृत्य कारणमिति व्याख्यातं तन्न; सकलकारणव्यापकत्वात् । न हि वक्ष्यमाणतुल्यबलहीनचलयोः कारणोत्तरयोः हेतुस्वीकारोऽस्ति । अतः साध्यविपरीतकारणाभिधानं | कारणोत्तरमित्येव सकलकारणव्यापकलक्षणम् । अत एव सापदेशमिथ्योत्तरेणापि सह कारणोत्तर (स्य) साम्येऽपि भेदो बोद्धव्यः । ननु कतरत्पुनरिदं हेतुदूपणम् ? उच्यते - नैक मिंद दूषणम् । कारणस्वरूपभेदेन दूषण- भेदात् । तथा त्रिविधं कारणं भवति, बलवत्तुल्य- बलं दुर्बलं च । यत्र शतं धारयति गृहीतत्लादित्युक्ते नाहं शतं धारयामि परिशोधितत्वादित्यभिधीयते तत्र बलवत्कारणोत्तरम् । इदं च विशेषणासिद्धिर्नाश हेतुदूपणमपरिशोधितविशेषणस्यानुक्तत्वे ऽप्यर्थलभ्यत्वा द्भवति । तदसिद्धिः धारणस्य च विपरीतकारणं परि- शोधन मेवेति भवति । कारणोत्तरं चेति । अत्र बलवत्कार- णोत्तरवादिन एवं क्रियानिर्देशः । तथा च नारद:- 'आधर्य पूर्वपश्चस्य यस्मिन्नर्थवशाद्भवेत् । विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः' || तुल्यबलं च कारणोत्तरं यत्र मदीयेयं भूमिः क्रमागतत्वादित्युक्ते प्रतिवाद्यपि यदि तथैव वदति मदीयेयं भूमिः क्रमागत- त्वादिति । अत्र विरुद्धव्यभिचारिहेनुद्वयोपनिपाते सति संशयादैकान्तिक निर्णयाभावादनैकान्तिकं नाम हेतु. दूपणम् | यस्य परैः प्रकरणसममित्यभिधानम् । अत्र