पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १६४ (१) तत्र मिथ्या अर्थिलिखितभाषार्थस्यापह्नवः । इयं च मिथ्याऽपि चतुर्विधा दृष्टा - 'मिथ्यैतन्नाऽभि- जानामि तदा तत्र न संनिधिः । अजातश्चास्मिं तत्काले एवं मिथ्या चतुर्विधा' || संप्रतिपत्तिस्तु भाषार्थस्य कल्पसमर्थना । प्रत्यवस्कन्दनं वादिन एव सकारणं प्रत्यभियोगवादिनः । प्राङ्न्यायविधिसिद्धिः ममायं पूर्व मेवाऽस्मिन्नर्थेऽमुकामुक कुलजस्याये पराजित इति प्रति- वादिवचनम् । एवं चतुर्विधोत्तरलक्षणं दर्शित मिति । अभा. २० (२) इत्थंभूतलक्षणे चेयं तृतीया । स्मृच.४३ 'मिथ्या च विपरीतं च पुनः शब्दसमागतम् । पूर्वपक्षार्थसंबन्धमुत्तरं स्याञ्चतुर्विधम् || अथ परकीय श्लोकोऽत्रैव मूलग्रन्थे लिखितो दृष्टः । सोऽपि चतुर्विधोत्तरवादी, कष्टव्याख्यानश्च भविष्यति भावः । तथाऽपि लिख्यत इति । तत्र मिथ्या सूक्ता कृतैव । विपरीतमिति मिथ्याया विपरीतं संप्रतिपत्त्युत्तरं भवति । पुनरिति पुनरपि विपरीतं वादिन एव प्रत्य वस्कन्दनोत्तरमित्यर्थः। चतुर्थं चोत्तरं शब्दसमागम- मुक्तम् । तत्र वलिताभिप्रायेणासोपदेशः शब्दसमागम उक्तः । तेन पुनराप्तोपदेश: शब्दसमागमः प्राङ्न्या- योत्तरमुक्तम्। एतेषां चतुर्णां यदि पूर्वपक्षार्थसंबद्धं भवति तत्तदुत्तरं प्रतिवादिना दातव्यमिति । अभा. २० २१ चतुर्विधं मिथ्योत्तरम् “मिथ्यैतन्नाभिजानामि मम तत्र न संनिधिः । अजातश्चास्मि तत्काल एवं मिथ्या चतुर्विधम् ।। (१) मिथ्यैतदिति शब्दत इत्यस्योदाहरणम् । शिष्टं अर्थत इत्यस्य | ज्ञानसमर्थ एवाहं तत्काले न जानामि, तथा तत्काले तद्देशे स्थित एव न, कुतस्तद्देशे ग्रहणं, तथा तत्काले अहं न जातः, दूरं ग्रहणमिति । अर्थात् ग्रहणाभावप्रतिपादनं प्रकारत्रयेण । अत्र चतुर्विधस्यापि (१) नास्मृ. २१४ गतम् ( गमम् ); अभा. २०. (२) नास्ट. २१५; अभा. २० मम ( तदा ) धम् (धा); स्मृस।.९२ धम् (धा); स्मृचि.३९ जात (ज्ञात) धम् (धा); व्यत. २०७ ल एवं (ले इति) व्यासनारदौ; सेतु. १०६ धम् (धा) शेषं व्यतवत्, व्यासनारदौ. मिथ्यात्वे पूर्ववादिन एव क्रियानिर्देशः । तदुक्तं - मिथ्यो- त्तरे पूर्ववादिनः । तथा हि-असंनिधानजन्माभावौ अभावरूपौ, ग्रहणं च भावरूपं, भावाऽभावयोरभावस्थ सुकरप्रतिपादनत्वात् । किं च असंनिधानजम्माभावाभ्यां व्यापकनिवृत्या व्याप्यग्रहणनिवृत्तिः । पूर्ववादिना च साक्षादेव ग्रहणं प्रतिपाद्यं अतस्तदेव युक्तम् । किं च यद्युत्तरवादिना असंनिधानजन्माभावौ प्रतिपादयितुं न शक्येते तथापि संदेहः । न हि तत्काले स्थितो जातो वा अवश्यं गृह्णाति । धर्मव्यवहारे छलं निरसनीय मिति पूर्ववादिन एव क्रियादानम् । स्मृसा, ९२-९३ (२) मिथ्यैतदिति शब्दतो, नाभिजानामीत्यादिकमर्थ- तोऽपन्हवः । तथा च कात्यायनः – ' श्रुत्वा भाषार्थम- न्यस्तु यदि तं प्रतिषेधति । अर्थतः शब्दतो वाऽपि मिथ्या तज्ज्ञेयमुत्तरम्' || त्वं मह्यं धारयसीति प्रतिज्ञायां न गृहीतमिति शब्दतः । कालविशेषगर्भायां तस्यां सत्यां 'तदा नाहं जात' इति अर्थतः । देशकालविशेषगर्भायां 'तदा तत्र नाहमासम्' इत्यप्यर्थतः । देशादिमत्यां ! तच्छून्यायां वा न जानामीत्यर्थत एव, योग्यास्मरणे नार्थतस्तदग्रहणप्रतिपादनात् । अत्र चरमत्रयं ग्रहणा वस्कन्दनमुखेन ग्रहणाभावप्रतिपादकं सापदेशमिथ्योत्तर मात्रम् | आद्यं मिथ्योत्तरमात्रम् ।

  • व्यत. २०७

प्रत्यवस्कन्दनलक्षणम् अर्थिना लिखितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम् ॥ येथार्थमुत्तरं दद्यादददद् दापयेन्नृपः । सामभेदादिभिर्मार्गैर्यावत्सोऽर्थः समुद्धृतःX 11

  • सेतौ व्यवहारतत्वमेवोद्घृतम् ।

X व्याख्यासंग्रहः बृहस्पतौ द्रष्टव्यः । (१) शुनी. ४१६४५ योs (घ) स्मृतम् ( हि तत्); मिता. २।७; अप. २।७; व्यक. २८ लि (ले) तं (तत्); स्मृच.४३; स्मृसा.९३ लिखि (भिहि); व्याचे. २९ लिखि (भिहि) प्रत्य- वस्कन्दनं स्मृतम् (आधर्य भृगुरब्रवीत् ); व्यनि स्मृतम् (हि गदितं); ब्यप्र.५८ लि (ले); ब्यउ.३९; ब्यम.८; प्रका. तत् ) मनुः; स्मृचि.४०; सवि. ९३ त्यर्थी यदि तं (प्रत्यर्थि २७. (२) स्मृच.४६; सवि. ९८ दददद् ( दथ तद् ) पू. स्मृति:; प्रका. २९; समु. २२.