पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्दिष्टकर्तृकवचनम् प्रतिज्ञापक्षपदयोरर्थ: वेचनस्य प्रतिज्ञात्वं तदर्थस्य हि पक्षता । असङ्करेण वक्तव्ये व्यवहारेषु वादिभिः ॥ शुक्रनीति: प्रतिज्ञालेख विधिः प्रसिद्धलिपि भाषाभिस्तदुक्तं लेखको लिखेत् ॥ 3 लिखितं तादृशं सभ्या न विब्रूयुः कदाचन ॥ बलाद् गृह्णन्ति लिखितं दण्डयेत्तांस्तु चौरवत् । प्राडूविवाको नृपाभावे पृच्छेदेव सभागतम् || वादिनौ पृच्छति प्राड् वा विवाको विविनक्त्यतः । विचारयति सभ्यैर्वा धर्माऽधर्मो विवक्ति वा ॥ सभायां ये हिता योग्याः सभ्यास्ते चापि साधवः ।। आवेदनप्रतिज्ञयोर्भेद: प्रतिज्ञा अर्थिना कथितं राज्ञे तदावेदनसंज्ञकम् || कथितं प्राड्विवाकादौ सा भाषाऽखिलबोधिनी । प्रतिझालेखादौ ऊहापोहौ स पूर्वपक्षः सभ्यादिस्तं विमृश्य यथार्थतः || अर्थितः पूरयेद्धीनं तत्साक्ष्यमधिकं यजेत् । वादिनश्चिह्नितं साक्ष्यं कृत्वा राजादि मुद्रयेत् ।। प्रतिशादोषाः अहं मूकेन संशप्तो वन्ध्यापुत्रेण ताडितः । अधीते सुवरं गाति स्वगेहे विहरत्ययम् || धत्ते मार्गमुखद्वारं मम गेहसमीपतः ।। इति ज्ञेयं निराबाधं निष्प्रयोजनमेव तत् । सदा मद्दत्तकन्यायां जामाता विहरत्ययम् ॥ गर्भ धत्ते न वन्ध्येयं मृतोऽयं न प्रभाषते । किमर्थमिति तज्ज्ञेयमसाध्यं च विरुद्धकम् || मद्दत्तदुःखसुखतो लोको दूपति नन्दति । निरर्थमिति वा ज्ञेयं निष्प्रयोजनमेव वा || (१) व्यमा २९१; व्यत. २०४ हि (च). (२) शुनी. ४/५५९. (३) शुनी. ४/५६०-५६३. (४) शुनी. ४/५८६ - ५८८. (५) शुनी. ४।६२८- ६३०. (६) शुनी. ४/६३१-६३२. संग्रहकार: सत्प्रतिशास्वरूपम् साध्य १५७ अर्थवद्धर्मसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनक्षमम् । संक्षिप्तं निखिलार्थ च देशकालाविरोधि च || वर्षर्तुमासपक्षाहर्वेलादेशप्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ।। प्रमाणसंख्यावदात्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गात्मपीडावत्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाषेत्यभिधीयते ॥ (१) भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । मिता. २६ (२) अर्थवत् प्रयोजनवत् । धर्मसंयुक्तमल्पाक्षरत्व- प्रभूतार्थत्वादिगुणान्वितम् । परिपूर्णमध्याहारानपे- क्षम् । अनाकुलमसंदिग्धाक्षरकम् । साध्यवत्सिपा- धयिपितार्थाहीनम् । वाचकपदं गौणलाक्षणिकरहितम् । प्रकृतार्थानुवन्धि प्रागावेदितार्थाऽविरोधि । प्रसिद्धं लोक- प्रसिद्धवस्तुविषयम् । अविरुद्ध पुरराष्ट्रप्राविवाकपा- द्यविरुद्धम्। तथा पूर्वापराविरुद्धं प्रत्यक्षादिप्रमाणाविरुद्धं व्यावहारिकधर्माविरुद्धं च । निश्चितमर्थान्तरशङ्कारहि- तम् । साधनक्षमं साधनार्हम् | संक्षितमनतिविस्तृतम् । निखिलार्थमनवशेपितवक्तव्यम् । देशकालाविरोधि मध्य- देशीयं क्रमुकक्षेत्रं, शरत्कालीन माम्रफलसहस्रमपहृतमि- येवमादिरहितम् । 'परात्मपूर्वजानेकराजनामभिरकि तम्' । परः प्रतिवादी आत्मा वादी पूर्वजास्तयोः पित्रा- दयः । अनेके राजानो भुक्तिकालीनाः तेषां नामानि परात्मपूर्वजानेकराजनामानि | तैश्चिन्हितम् । शिष्टमु- तार्थम् । अर्थवत्वादीनि देशकालाविरोधित्वान्तान्यर्थि- प्रत्यर्थिनामसहितानि सर्वव्यवहारभापोपयोगीनि, तेन तैः सर्वत्र भाषायामवश्यं भवितव्यम् । तैर्विना कचिदपि (१) मिता.२।६ धन (धने) हर् (हो); स्मृच.३६; पमा. ६ ३ हर् (हो) प्रमाण (प्रमाप्य); स्मृचि. ३८ कात्यायनः; सवि. ८५ (=) क्षमम् (क्रमम् ) निखिलाथं (अन्वितार्थ); व्यप्र.४७; व्यउ. ३३ हर् (हो); व्यम. ६ व्यउवत्, स्मृत्यन्तरम्; विता.५५ प्तं नि (तनि) हर (हो) जात्या (शात्या); प्रका. २२; समु. १७,