१५६ व्यवहारकाण्डम् आवेदयेद्विवादार्थी सत्यं जल्पविवर्जितम् ॥ अनादेयवादः पंतितादिकृतश्चैव यश्च न प्रकृतिं गतः । •अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ॥ हारीतः प्रतिज्ञालेखविधिः ओसनं शयनं यानं ताम्रं कांस्यमयोमयम् । धान्यमश्ममयं वस्त्रं द्विपदं च चतुष्पदम् || मँणिमुक्ताप्रवालानि हीरकं रूप्यकाञ्चनम् । यदि द्रव्यसमूहः स्यात्संख्या कार्या तथैव च ॥ यस्मिन्देशे च यद्द्रव्यं येन मानेन मीयते । तेन तस्मिंस्तथा संख्या कर्तव्या व्यवहारिभिः ॥ (१) हीरकं वज्रम् । तेन मानेन मीत्वा संख्या कर्त व्येत्यर्थः । एवं च यत्र यदुपयुज्यते तत्र तदभावे साध्यसिद्ध: कर्तुमशक्यत्वादनादेय एत्रोपयोगविहीनः
- स्मृच.३७
पक्षः । (२) मानसंख्याशब्दावत्रान्योन्योपलक्षणम् । अत्रै तावद्विवक्षितम् । यत्र यावदुपयुज्यते तत्र तावन्निवेश्यं भाषापत्रे | अन्यथा साध्यनिर्देशस्यापूर्वत्वात् पक्षाभास तापत्तेरधिक निवेशाददृष्टार्थतापत्तेरिति । व्यप्र. ४८ प्रतिशादोषः प्रक्रान्तसाधनोऽर्थस्तु द्विधा यस्मिन्निवेश्यते । स्वसाध्याद्वा विपन्नो वा सोऽपि पक्षो मृषा भवेत् ॥ प्रक्रान्तसाधनः साधयितुं उपक्रान्तोऽर्थो द्विधा द्विप्र कारेण साध्यतयाऽथवा वेदितात्माध्याद्विधान्तरेण तद्वि रोधितया वा यत्र पक्षे निवेश्यते सोऽपि पक्षाभास इत्यर्थः। स्मृच.३९
- सवि. स्मृचवत् ।
समु.१७ प्रथमार्ध एव. (१) व्यनि तश्चै (तं चै) तन्त्रकृतः (तन्त्रं कृतं); प्रका. ६८; समु. १८. (२) स्मृच. ३७; सवि.८६ ताम्रं कांस्य (कांस्यताम्र); ब्यप्र. ४८ स्यमयो (स्यं मनो) वस्त्रं ( यच्च); प्रका. २२; समु. १७. (३) स्मृच. ३७; सवि.८६ प्रवाला ( फलादी) रू (रौ); व्यप्र.४८ रकं (रका) तथैव च (तदैव तु); प्रका. २२; समु.१७ चनम् (चने). (४) स्मृच. ३ ७ ; सवि.८६ द्रव्यं येन (संख्या मान); व्यप्र. ४८ तथा (तदा); प्रका. २२; समु. १७. (५) स्मृच. ३९; प्रका. २४; समु. १८. व्यास प्रतिज्ञालेखविधिः अर्थार्थी पीडितो वाऽपि प्रमाणबलमास्थितः । निरवद्यं सत्प्रतिज्ञं पूर्वपक्षं प्रकल्पयेत् ॥ स तु पक्षः सभ्यैर्लेखनीयः । व्यमा २९७ फलकादिलेखोत्तरं पत्रलेख: पोण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् । न्यूनाधिकं तु संशोध्य पञ्चात्पत्रे निवेशयेत् || (१) तथा कात्यायनः – पूर्वपक्षं स्वभावोक्तं अकृत्रिमम्' एतच्च स्वरविशेषादिना सुज्ञेयं, अधिकं यद्वा नुगुणवचनविरोधि, विरोधिनोऽभिधानेन भाषायामना- देयत्वेन भग्नस्य वादिनः सभ्यगतदोषाभावनिराकरणा विरोधिलिखनस्य कार्यत्वात् (?) न्यूनं यदुक्तार्थानुप- पत्तिपरिकल्पितं तल्लेखनीयं न तु वादिनाऽनुक्तत्वान्न देयं, तद्विचारस्य तत्वनिर्णयार्थत्वात्, छलस्य च निषेधात् । भूमौ च कठिनीलिखितस्योद्धारारोपयोर्न्यूनाधिकशोधनार्थं सुकरत्वात् प्रथमं पाण्डुलिखनमुक्तं, शोधितं तु पत्रे लेख- नीयं श्रुतोत्तरस्य भाषावादिनो 'नैवं मयोक्तम्' इति विप्र- तिपत्तिनिरासार्थम् । अन्यथालिखने लेखकस्य दण्डमाह कात्यायन:- 'अन्यदुक्तं लिखेदन्यदर्थिप्रत्यर्थिनां वचः । चौरवच्छासयेत् तं तु धार्मिकः पृथिवीपतिः' ॥ तदेवं निरवद्यपूर्वपक्षे वादिना ज्ञापिते ज्ञाततदर्थेन प्रतिवादि- नोत्तरं देयम् । व्यमा. २९७ व्यचि. १५ (२) फलकं काष्ठादिपट्टकम् । भूमौ विलेखयेत्तावत् यावदर्थो न निश्चितः । ऊनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् || एतदुक्तं भवति आवेदनकाले यद्यपि न्यूनाधिकं वा रागादिना आवेदितं तथापि फलकादादाय भाषाकाले कोपायुपशमात्प्रतिवादिसन्निधौ विवक्षितमुपादाय हेयं त्यक्त्वा शुद्धं पत्रे निवेशयेत् । तन्न्यूनस्यान्यथाकरणे व्यवस्था स्यान्नाव्यवस्था, नारदेन व्यवस्थाया उक्तत्वात् । व्यनि. (१)व्यमा. २९७. (२) व्यमा. २९७ भूमौ (भूम्यां); ब्यचि. १५ न्यू (ऊ); व्यत. २०४; वीमे २१६ वा प्रथमं ( च फलके) न्यू (ऊ); व्यप्र.५३ न्यू (ऊ); विव्य ६ प्रथमं (फलके) न्यू (ऊ) निवेश (नियोज). (३) व्यनि.