पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् अश्वादेर्वयःप्रमाणम् | साध्यप्रमाणसंख्यावत् साध्य- प्रमाणं क्षेत्रादेर्निर्वर्तनादिकम् । संख्या रूपकादीनाम् । आत्मप्रत्यर्थिनामवत् । सष्टम् । क्षमालिङ्गात्मपीडावत् । व्याख्यातानि क्षमालिङ्गानि । आहर्ता प्रतिग्रहादिना अधिगन्ता । दायको दाता | कथितावाहर्तृदायकौ यस्मि- न्वचने तत्त्वीदृक् । अथवा कथिताहर्तृदायकमिति कथितप्रत्यार्थिसंबन्धमिति यावत् । Xसुचो. २।६ साध्यसिद्धेः सुखेन कर्तुमशक्यत्वात् । वर्षादीनि पुन गतो वर्णविशेषः । गृहक्षेत्रादेः संस्थानविशेषश्च । वयः विशेषाणि सर्वाणि न सर्वत्रोपयोगीनि । कतिपयैर्विनाऽपि तत्र तत्र साध्य सिद्धिसंभवात् । अतो यत्र येषामुपयोग स्तत्रैव तेषां निवेशनं कार्यम् । नेतरत्रापि । प्रयोजना भावात् । तत्र वर्षादिकालानां वृद्धि मन द्वैगुण्यादिविवादे प्रतिग्रहक्रयाध्यादीनां पौर्वापर्यविवादे चोपयोगः | देश प्रदेशस्थानानां तथा परात्मपूर्वजानेकराजनामधेयानामा हर्तृदायककथनस्य च स्थावरविवादेषूपयोगः | सांध्या ख्याजात्याकारवयसां चौर्यास्वामिविक्रयादावर्थविवादे- ऽप्युपयोगः प्रमाणसंख्ययोमैयतुलि मगणिमादिद्रव्यविवादे न्चौर्यादिविवादे चोपयोगः । क्षमालिङ्गानामुपेक्षितस्था- नादिविवादेषूपयोगः । आत्मपीडाया ऋणिकलनकवि- वादादात्रुपयोग इत्येषा दिक् । एवं चार्थवत्वादिभिः सह वर्षादीनां यथोपयोगं क्वचित् कचिन्निवेशनमिति

  • स्मृच.३६-३७

(३) मिता. टीका - धर्मो गुणः अल्पाक्षरत्वप्रभूता- र्थत्वादिकः तेन संयुक्तम् । अहः प्रतिपदादिर्दिनं वा । वेला प्रातरादिः | देशो मध्यदेशादिः । प्रदेश क्षेत्रादेः स्थलविशेषः । स्थानं वाराणस्यादि । आवसथो ग्रामादिः, हट्टादिरूपस्थलविशेपो वा साध्याख्या विवादास्पदी भूतवस्तुनाम । जातिर्ब्राह्मणादिः । आकारो गवाश्वादि मन्तव्यम् ।

  • पमा, सवि., व्यउ., व्यम. स्मृचगतम् ।

+व्यप्र.४७ (४) संक्षिप्तं शब्दाडम्बरशून्यम् । (५) धर्मो ग्रहणताडनादिः । निखिल: संपूर्णो न श्लेषध्वन्यादिगम्यार्थो यत्र । +विता.५६ प्रतिज्ञालेखावधिः भाषान्यूनातिरिक्तेषु सम्यक्सूक्तेषु कार्यिमिः । पुनः प्रतिसमाधाय शृणुयादुत्तरं ततः || यस्मात्प्रत्यर्थिनारब्धे उत्तरेऽप्यर्थिभाषितम् । उपयोग्यपि नादेयं तस्यावसरवर्जनात् ।। आरब्धे दत्त इत्यर्थः । दीयमानेऽप्युत्तरे प्रतिसमा- धानस्येष्ठत्वात् । स्मृच.४० X शेषं स्मृचगतन | बाल स्मृतिचन्द्रिकायां, सुबोधिन्यां च गतम् । + शेषं स्मृचगतम् | (१) स्मृच.४०; प्रका. २४; समु. १९ मूक्ते (सूत्रे). (२) स्मृच. ४०; प्रका. २४; समु. १९.