पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा ब्रह्मचारीत्यादयः । (३) लोक सिद्धं व्यावहारिकधर्माविरुद्धमित्यर्थः लोकप्रसिद्धमित्येवंविधार्थस्य प्रतिज्ञादोषनिर्मुक्तमित्यनेनै वार्थादुक्तत्वात् । . Xस्मृच.४. (४) प्रतिज्ञादोषनिर्मुक्तमिति - ये प्रतिज्ञादोषाः प्रति- ज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञान्यासादयस्तैर्मुक्तम् । साध्य मिति -- -न तथात्वेन वैपरीत्येन वा यस्य सिद्धिस्तथा भूतस्यासाध्यत्वात् । सत्कारणान्वितमिति-असिद्धत्वादि दोषरहितहेतुसहितम् । निश्चितमिति – यत्रोत्तराभिधा नात् प्राक् निरूपकानां निश्चितप्रत्यय एव भवति । लोक सिद्धमिति – यत्र श्रवणादेव लोकानां प्रत्ययो न भवति स लोकविरुद्धः । यथा यस्य यत्र संभावनैव नास्ति, स यदि वदति लक्षं ममानेन गृहीतमिति स लोकविरुद्धः । एवं यो न भवति स लोकसिद्धः । अल्पाक्षर इति – यावद्भिरक्षरैः संक्षेपतः पक्षः प्रतिपाद यितुं शक्यते तदधिकाक्षररहितः । निःसंदिग्ध इति - यथा ममायं धारयति न धारयति वा । निराकुल इति- साध्यविपरीतव्याप्तहेतुरहितः । विरोधिकारणैर्मुक्त इति । विरोधिकारणं यथा - यद्यप्यनेन समविभागोचितं संस्थाप्य तस्याधिकधनतया मम विभज्य दत्वा स्थितं तदस्माद्भावितपूर्वविभक्तत्वादेव विरोधिकारणान्तरोपात्त- धने नाधिकारित्वमित्युत्तरानर्हत्वम् | यथैवं न भवति स विरोधिकारणमुक्तः । विरोधिप्रतिषेधक इति - उत्तर वाद्यभिमतार्थविपरीतो न तेन संकीर्णः । *स्मृसा.८६ अप. २१६ । x सवि. स्मृचगतम् ।

  • व्यप्र. पदार्थ: स्मृसावत् व्यचिवञ्च ।

- (५) साध्यं साध्यस्य सिद्धचर्हस्य प्रत्यर्थिप्रत्याय्यधर्म- विशिष्टस्य धर्मिणो वचनं पक्षं विदुरित्यर्थः । सत्कारणा- न्वितं अस्फुरद्दोपलिङ्गसंपन्नं, एवं च, त्वं मह्यं शतस्य धारयः (?) स तु ऋणत्वेन गृहीततावद्धनकत्वादिति भाषा- शरीरमुक्तं भवति । अत्र देहीत्यर्थिताभिव्यञ्जकमात्रं न तु भाषान्तकृतमित्यवसेयम् । लोक सिद्धं लोकव्यवहारा- विरुद्धार्थम् । एवं च, 'तृणकाष्ठेष्टकाकिण्वसूत्रचर्मास्थि वर्मणाम् । हेतिपुष्पफलानां च वृद्धिस्तु न निवर्तते' || इति बृहस्पतिवचन मालम्ब्य लोकविरुद्धानां तु वृद्धि प्रार्थनमपि भाषेत्यपास्तम् । अत एव बृहस्पतिः - 'केवलं १४७ शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते' | युक्तिर्व्यवहारः । भवदेवस्तु यत् श्रुतमात्र एव लोकानां संप्रत्ययस्तल्लोकसिद्धं, तेन निर्धनकृतो लक्षसंख्य स्वधनप्रयोगाक्षेपो बाधित इत्याह । अल्पाक्षरः यावद्भिरक्षरैर्विना विशिष्टहेतुप्रयुक्तसाध्योप- हितं पक्षप्रतिपादनं न भवति तावन्मात्राक्षरकः । प्रभू- तार्थः निरुक्तार्थक एव | निराकुल: पौर्वापर्यविपर्यासादि दोषरहितः तेन सुबोधो भवति । विरोधिकारणैः स्वसाध्यविपरीतव्याप्तैर्हेतुभिः शून्यः । यथा मद्विभक्तोऽ- प्ययं अर्जकत्वादिदानीमर्जितं मयि ददात्वित्यादिकं तद्यतिरिक्तः मत्पक्षः अत्र मद्विभक्तस्य पक्षविशेषणत्वे प्रतिज्ञाविरोधसंभवे प्रतिज्ञादोषनिर्मुक्तमित्यत एवैतल्लाभ इदं च प्रपञ्चनमात्रमिति द्रष्टव्यम् । विरोधप्रतिषेधक इति । यावत्प्रकारकमुत्तरं संभाव्यं तावत्प्रतिषेधको यथा भवति तथा पक्षनिर्देश: कार्य इत्यर्थः । व्यचि. ११-१२ (६) प्रत्यर्थिप्रश्नप्रयोजकाकाङ्क्षाजनकाऽर्थिवाक्यं भाषा सैव प्रतिज्ञा | साध्यमिति न सिद्धं न वा बाधित मित्यर्थः । सत्कारणान्वितं व्याप्तिपक्षधर्मवत्तया शाय- मानम् । निश्चितमिति न साध्यवत्तया आपातत एव संदिह्यमानम् । लोकसिद्धमिति लोकैरनवधारित मिथ्या- त्वम् । चन्द्र.१०८ यंदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना | दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ।। एवमादिगुणान् सम्यगालोच्य च सुनिश्चितः । पक्षः कृतः समादेयः पक्षाभासस्त्वतोऽन्यथा ॥ प्रतिज्ञायाः फलकादी प्रथमलेख:, तदुत्तरं पत्रलेखः पाण्डुलेखेन फलके भूम्यां वा प्रथमं लिखेत् । न्यूनाधिकं तु संशोध्य पश्चात्पत्रे निवेशयेत् ॥ प्रतिज्ञालेखशोधनावधिः न्यूनाधिकं पूर्वपक्षे तावद्वादी विशोधयेत् । ( १ ) व्यक. २५ तदो (नदु ) कात्यायनबृहस्पती; पमा, ६८; व्यचि. ११; व्यनि. (= ) कार्यस्यैवंविधः पक्षः विकल्प्यः पूर्ववादिना | दद्यात्पक्षस्य सबंन्धं प्रतिवादी तथो- त्तरम् ॥ ) व्यत. २०४-२०५ वद्धं (बन्धं) कात्यायनबृहस्पती; व्यसौ. २०; सेतु. १०३,१०५ कात्यायनवृहस्पती; समु. २०. (२) स्मृच.३६; प्रका. २२; समु. १७. (३)व्यमा. २९७; विन्य ६ न्यू (ऊ) वेश (योज). (४) मा २९५ न्यूना