पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ तदसंबद्धम् | गृहीतत्वस्य धर्मस्य प्रतिवादिधर्मत्वाभा- वात् अपक्षधर्मत्वापत्तेः । त्वया गृहीतत्वादिति कर्मणि क्तप्रत्ययापत्तेः, कर्तरि क्तोत्पत्तौ त्वयेति न स्यादभिहिते कर्तरि प्रथमाविधानात्, अनभिहिते च तृतीयास्मर- णात् । किञ्चाऽपरिशुद्धत्वे सतीति एतावतैव सिद्धे प्रति- दानादिनिबन्धनेत्यादिबहुतरानर्थपदप्रयोगेऽपि निग्रहः । किञ्च परिशोधनप्रकारासंभवे सति गृहीतत्वस्य हेतुत्वा- भिधानात् परिशोधनाभावाद् ग्रहणस्य परभावोऽंवग भ्यते । न च तथा सति हि ग्रहणे शोधनमशोधनं वा ? न चाsपरिशोधनसामर्थ्यादेव ग्रहणभावावगमो वाच्यः । तद्विपरीतपौर्वापर्याभिधानेनापि वादिनिग्रहात् तस्माद- स्मदुक्तमेव युक्तम् । धारयतीत्यर्थे च सिद्धे तन्मम ददा- त्विति स्वकीयार्थिताव्यञ्जनाय वक्तव्यम् । शास्त्रकारैश्च साध्यहेतोरभिधानमुक्तं न दृष्टान्तस्य । तत्राऽयमभिप्राय:- व्यातिदर्शनार्थ हि तदभिधानं, निरूपकाश्च शास्त्रादेव हेतोः साध्यनियतत्वमवगतवन्तः इति वृथा तदभिधा- नम् । अनियतन्त्वभिहितमनर्थकम् । ऋणग्रहणं न वद न्तीति हेतुज्ञापनं कार्यम् । न च वादिना दृष्टान्तान्तर- स्यानुपन्यस्तत्वात् तस्य भङ्गो वाच्यः, पुरुषशक्तिनिरू- पणार्थत्वाभावात्, व्यवहारस्य भूतानुसरणार्थत्वात्, छलस्य च निरस्यत्वात् तस्माद् दृष्टान्ताभिधानमनर्थ कम् । किञ्च कीनाशनर्तकादीनां शास्त्रमविदुषां शास्त्र- विरुद्धभाषिकव्यवहारिणां तद्व्यवहारज्ञैरेव व्यवहारस्य दृष्टत्वात् दृष्टान्तवचनमपार्थकं व्यवहारानभिज्ञोऽपि न्याय- दर्शी सामान्येनैतज्ज्ञानात्येव, यो येषां यादृशो व्यवहारः स तेषां साध्यसाधनमिति न प्रथममेव दृष्टान्ताद्यभिधा- नम् । किञ्च मह्यमयं धनं दातुमर्हति किम् ? वादिरूप - तया दायोचितव्यवहारानियमाश्रयत्वे सति अदत्तधन- त्वादिभाषायां तादृग्व्यवहारापहृतेनोत्तरे दत्ते किया व्यवहारनियमो ज्ञाप्यः । यत्राऽपि शरीरादिपीडया भाषा- दानं तत्राऽध्ययं दण्डाहर्होऽनपराद्धे सति कृतपीडत्वा- दिति हेतुः । स च सद्रूपो निश्चयरूपो वक्तव्यो न सन्दि ग्धरूपः सन्दिग्धत्वेन साध्यसिद्धेरभावात् तदिदमुक्तं 'सत्कारणान्वितं' हेत्वाभासनिराकरणार्थ सदिति तार्किकं भन्ययोग्लोकमतं तन्नादरणीयम् | आभासस्याकार पत्वात् कारणपदेनैव निरस्तत्वात् । निश्चितपदं च व्यवहारकाण्डम् साध्यविशेषणम् । अतस्तनिश्चितमेव वाच्यं न तु 'धारयति न वा' इति । तथा सति हेतुप्रयोगानुपपत्तेः लोकसिद्धं च तद्वाक्यम् । न तु -'तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्म- णाम् । हेतिपुष्पफलानां च वृद्धिश्च न निवर्तते' ॥ इति बृहस्पतिवचनमवलम्ब्यालोकसिद्धा वृद्धिश्च साध्यतया निर्देश्या, अत एव बृहस्पतिः- 'केवलं शास्त्रमाश्रित्य न कर्त- व्यो विनिश्चयः । युक्तिहीनविचारे तु धर्महानिः प्रजायते ॥ युक्तिर्लोकव्यवहारः । नारदोऽप्याह - 'धर्मशास्त्रविरोधे च युक्तियुक्तो विधिः स्मृतः । व्यवहारोऽपि बलवान्धर्मस्तेना- वहीयते' ॥ तथान्यदप्येवं विजातीयमलोकसिद्धं साध्यम निर्देश्यं यथा पौर्णमासीषु दक्षिणाद्वैगुण्यमित्यादिकम् । अल्पाक्षरवत्वं च यावद्भिरक्षरैर्द्धर्मिसाध्यहेतूनां तदनु- गुणानां च देशकालानामुपलम्भो भवति तावन्मात्रस्य प्रयोगः । एतावानेव च प्रभूतोऽर्थ इति प्रभूतार्थत्वमुक्तम् । सर्व चेदमनाकुलं वाच्यम् । आकुलवादे हानिं हृदयगतं भग्नत्वं प्रतिसंदधतां सभ्यानां मतिरपि | तथैव चरतीति विरोधिप्रतिषेधक इत्युक्तम् । तथा हि न मया गृहीतमृणमित्यग्रहणाभिधानेन प्रतिषिध्यति, परि | शुद्धमिति च परिशुद्धत्वाभिधानेन याच्यमानोऽपि धनं न ददाति न च मया सह न्यायं करोति महता प्रति- यत्नेन इदानीं न्यायार्थमुपस्थित इति वृत्तत्वेऽपि वा न्यायस्य, तत्वतो न तन्निरूपितमिति सर्वमिदं वचनं प्राङ्- न्यायोत्तरप्रतिषेधकं भवति । अथवा- 'आठ्यस्य निकट- स्थस्य यच्छक्तेन न याचितम् । शुद्धं तु शङ्कया तत्र पत्र ● दुर्बलतामियात्' ॥ इति वचनबलादुत्तरवचनस्य संभाव्य- मानस्य प्रतिरोधकं यथा भवति तथा वक्तव्यम् । यन्मया चिरं देशान्तरस्थितत्वान्न प्रार्थितं, बहुजनाध्यक्ष वा निरन्तरं प्रार्थितम् मया तत्, पित्रा वा यदृणं दत्तं, एतावत्कालपर्यन्तं ज्ञातुः पुत्रस्य व्यवस्थानवज्ञानात् मया न याचितम् इदानीं तु पुत्रादिना ज्ञातं यहणं, तेनायमर्थो भवति सर्वथा यावत्प्रकारमुत्तरं भवति तन्नि- पेधपक्षो निर्देश्य इति विरोधिप्रतिषेधक इत्युक्तम् । व्यमा. २९१ २९४ (२) प्रतिज्ञादोपो यथा, प्रत्यक्षादिप्रमाण विरोधो यथा अनुष्णोऽग्निः । लोकविरोधो यथा अशशी चन्द्रः । स्ववचनविरोधो यथा माता मे वन्ध्याः । पिता में बाल-