पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिज्ञा , भवतु यल्लिखेयुः । एवमनिर्दिष्टाङ्कितमूलरहितशेषस्यासं भवे शेषं च फलके स्थितं लिखेयुरिति द्वितीयमपि इदं वाक्यं दुर्घटान्वयमेव । यच्चोक्तं ससाक्षिकं ततस्तस्या र्थस्योत्तरत्राऽव्यभिचारार्थं श्रोतारः साक्षिणो ये तत्र आनेतव्याः ते, किं तावत्कारणिकैरुत वादिना अथवा प्रतिवादिना । एवं च साक्ष्यानयनक (?) स्यापि असंभवे दृश्यमाने ससाक्षिकं लिखेयुरिति तृतीयमपीदं वाक्यं दुर्घटान्वयमेव । यच्च प्रतिपत्तिं च वादिनोर्लिखेयुरिति चतुर्थ वाक्यं तदेतेषां त्रयाणामपि वाक्यानामर्थस्य लेखनक्रियार्थप्रसिद्धम् । तेषु त्रिप्वपि वाक्येषु निरर्थ- केषु गतेषु सत्सु इदमपि चतुर्थ नैव सार्थेन सह याति । तत्प्रतिबद्धत्वात् । तत्प्रतिबद्धं हि यत्तन्निवृत्तौ तस्यापि निवृत्तिरिति । एवमयं चतुष्पाद श्लोकोऽपि दुर्घटान्वयः । किन्तु स्मृतितन्त्रसांकेतिकशब्दार्था मुनिश्लोका दुर्योधा एव भवन्ति । न पुनर्निरर्थकाः । तद्यदि पक्षेण वा मासेन वा सुचिरमपि विचिन्त्यास्य मुनिकृतस्पष्टान्धक- श्लोकस्य सार्थकत्वकरणस्यापि वाञ्छाऽस्ति । ततस्तद्रच नात्पालयामस्तावत् । अथ तदापि वयमेव प्रष्टव्याः, ततोऽभिमानग्रस्ततामुत्सृज्य पृच्छत येन कथयामः । अथवा किमस्माभिरपि अवश्यमेवोद्धतता याजनीया | १ ... किं लिखेयुरिति क्रियाः, के लिखेयु: कारणिकाः । किं लिखेयुः यत्किमपि वादी भाषाप्रथमपादे स्थितो वदति ते फलकस्थितं लिखेथुः । यच्चोक्तं शेपं च लिखे- युरिति तदिह भाषा यावत्फलकेऽभिलिख्यते, यावच्च सोत्तरेणावप्रभ्यते तावत्सर्वोऽपि भाषावादिनामेव स्वकीय पादे स्थितो वादी यदि किमपि विस्मृत्य कुलेखितं प्रसाधयति, मुस्मृतं च सत्यं च लेखयति तत इदं तस्य प्रत्याकलितमुच्यते पादाकलितमित्यर्थः । तच कालप्रदेशधनिकर्णिकवित्तसंख्याफलोपाश्रयाणां पण्णा मपि प्रधान वस्तूनां मध्ये यदभिप्रेतं तमच्छलग्राहिणो भूत्वा कारणिका लिखेयुरिति । तथा च प्रत्याकलितलक्षणम्- ‘वादिभ्यां लिखिताच्छेषं यत्पुनर्वादिना स्मृतम् । तत्प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ॥ तत्र वादिभ्यामिति द्विवचननिर्देशः कृतस्तद्वितीयस्थो त्तरवादिनोऽपि प्रत्याकलितस्यायमेव विधिर्दृष्टः । यच्च ससाक्षिकमुक्तं तच्च साक्षिनिदंशकाले तृतीयपादेऽप्ययमेव १ , १४१ विधिद्रष्टव्यः । यच्चानुज्ञातमित्युक्तं तद् द्वाभ्यामपि वादिभ्यां श्रुतधारिभ्यां योरपि यथासंभवं लिख्यत इति ।

  • अभा. २२-२३

भाषालेखनावधि: भाषाया उत्तरं यावत्प्रत्यर्थी न निवेशयेत् । अर्थी तु लेखयेत्तावद्यावद्वस्तु विवक्षितम् || (१) अर्थी भाषायां स्वकीयं विवक्षितं वस्तु तावदेव लेग्नयेत्, यावत् प्रत्यर्थी उत्तरं न निवेशयत् । उत्तरा कान्तभाषायां तु तस्य विवक्षितवस्तुनोऽन्यस्याऽपि भूयो लेखनाधिकारी नास्ति । अभा.२१ (२) नात्र छलजात्यादीनामवसर इत्यभिप्रायः । विश्व.२/६ (३) केचिन्निविटेऽप्युत्तरे शोधनमिच्छन्ति तदनव- स्थाप्रसङ्गात् पूर्वोकवचन विरोधाच हेयम् । स्मृच.४० भाषाशोधनावधिः शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम् । अवष्टव्धस्योत्तरेण निवृत्तं शोधनं भवेत् || (१) शोधनं च यावदुत्तरदर्शनं कर्तव्यं नातःपरमन- वस्थाप्रसङ्गात् । अत एव नारदेनोक्तम् शोधयेदिति ।

  • अत्र जालिना 'वादिभ्यां लिखिताच्छेपम्' इति श्लोको

लिखिताच्छेपम्' इति लोकोत्तरं लिखितस्तत्र वादिभ्यामित्या- नारदीयत्वेन (नारगृ. २१२१) स्वतन्त्रमुद्भुतः । किन 'वादिभ्यां दिग्रन्थ: एतत् श्लोकव्याख्यात्वेनोद्धृतः जालिमहोदयेन । परन्तु 'वादिभ्यां लिखिताच्छेपमिनि श्लोको नारदीयो न वेति संदेहः तदुत्तरो ग्रन्थसन्दर्भश्च 'वादिभ्यामभ्यनुज्ञात 'मिति पूर्वशोकस्यैव व्याख्यारूपः | (१) नास्मृ. २१७ न (वि); अभा. २१; विश्व.२१६ पाया (पायां ) तु लेख (विशोध); व्यमा. २९५ पाया (पायां) न निवेश (नाभिलेख); अप. २१६ वेश (वेद); व्यक. २६ व्यमा- यत् ; स्मृच.४०; पमा ६६ न निवेश (नाभिलेख); स्मृसा. ८८ पाया (पायां) वेश (वेद); व्यचि. १३ वस्तु विवक्षितम् (नोत्तरदर्शनम् ) शेपं व्यमावत् ; व्यनि.; स्मृचि. ३८ (=) पाया (पायां); व्यसौ. २१ स्मृचिवत् ; वीमि. २१६ व्यचिवत् ; व्यम. ७; प्रका. २४; समु. १९. (२) मिता. २१६; व्यमा. २९५; स्मृच. ४०; पमा.६७ रेण (रणे); स्मृमा.८८ वादं (पक्षं) अव... ण (उत्तरेणावरुद्धस्य) कात्यायन:; व्यचि. १३ शोधनं (लेखनं) शेपं स्मॄसावत्, उत्त,