पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० व्यवहारकाण्डम् प्रतिशालेख विधिः सुनिश्चितबलाधास्त्वर्थी स्वार्थप्रचोदितः । लेख येत्पूर्वपक्षं तु कृतकार्यविनिश्चयः ॥ (१) अर्थी पूर्वपक्षं लेखयेत् । भाषामित्यर्थः । स्वार्थप्रचोदितः न राज्ञा प्रचोदितो न वैरिणा | स्वकी- येनैव अर्थन प्रचोदितः । तथा कृतकार्यविनिश्चयः याव- दिदं प्रारब्धप्रयोजनं मयान्तं न नीतं तावदन्यन्न करो- मीति कृतनिश्चयः। एतदर्थिकर्तव्यमुक्तम् । अभा. २० (२) स्वनिश्चितबलाधानत्वं कृतकार्यनिश्चयत्वं च हेतुगर्भविशेषणम् । व्यमा. २९० वायुक्तं फलकादिपु प्रथमं लेखनीयम् निराकुलावबोधाय धर्मस्थैः सुविचारितम् । तस्मादन्यत्र्यपोह्यं स्याद्वादिनः फलकादिषु || तेषु फलकादिषु यत्किमपि वादिनः सक्तं प्रथममेव लिखितं, तस्माद्यदन्यदभ्यधिकं किमपि तद्धर्मज्ञैः मुवि चारितं व्यपोह्यं अपनेतव्यमित्यर्थः । तच्च किमर्थं राज- कुलावबोधार्थं वादिनश्चेति । अभा.२२ रागादीनां यदेकेन कोपितः करणे वदेत् । तदोमिति लिखेत्सर्व वादिनः फलकादिषु || (१) नास्मृ.२११; Vulg. पक्षं (कार्य) श्चय : (र्णय :); अभा.२० श्वयः (र्णयः); विश्व २५ सु (स्व) पक्षं (पाद); मेधा. ८/५६ ( सुनिश्चितबलाधान: पूर्वपक्षी भवेत्सदा | दशाहं द्वादशाहं वा स्वपक्षं परिशोधयेत् ); व्यमा २९० सु (स्व) पक्षं (वाई); विव्य. ४ थे (त्म) पक्षं (पारं). (२) नास्मृ. २११९ निरा ( राज); अभा. २२; स्मृचि. ३८ सु (तु) (तरमायोज्यमनन्यार्थं वादिनोः प्रतिपादितम्); व्यसौ. २२ चारि (भावि) (तस्मादयोज्य (?) मल्पार्थं वादिनोः प्रतिपादितम्); राकौ. ३८९ (तस्मादमोध्यामन्यार्थवादिनः प्रतिवादिनम् ) उत्त, कात्यायनः. (३) नास्मृ. २११८ रणे (रणं) दोमिति (दादौ तु); अभा. २२ दोमिति (दादौ तु); ब्यक.१९ २० दीनां यदे (दिना यदै) नारदकात्यायनौ; स्मृच. ३२ वादिनः (अर्थिन:); पमा. ५४ व्यकवत् ; सवि.७८ स्मृचवत्, गोभिल:; व्यसौ. १४ दीनां (दिना); व्यप्र. ३८ दीनां यदे (दिना यदै) वादिनः (लेखक:); व्यउ. २४ व्यप्रवत् ; प्रका. २० स्मृचवत्; समु. १५ स्मृचवत्. (१) रागादीनां कामक्रोधलोभानां मध्ये येनैव भावेन कोपेन वादी करणमागत्य वदेत् तदेव, फलकादिध्विति फलकपत्रभूर्जसंपुटिकाकुड्येष्वपि यथासंभव तत्क्षणमेव लेखको लिखेत् झटित्यक्षर निबद्धं कुर्यात् । अभा.२२ (२) करणे राजादिसंनिधावित्यर्थः । स्मृच.३२ (३) करणे धर्माधिकरणे । पमा. ५४ (४) ओमित्यनेन यथावेदितं तथैव लिखेदित्युक्तम्। व्यप्र. ३८ (५) रागादिना कोपितः अधर्मेण धर्षितः कश्चिदि व्यउ.२४ त्यध्याहारः । फलकलिखितं वाद्यनुज्ञातं चाधिकं पुनः लिखेत् वादिभ्यामभ्यनुज्ञातं शेषं च फलके स्थितम् । ससाक्षिकं लिखेयुस्ते प्रतिपत्तिं च वादिनोः ॥ अयं श्लोको वादस्थानक प्रस्थानेन विवरणाय 'वादि- भ्यामभ्यनुज्ञातम्' अयं श्लोको महर्षिणा कृतः स्पष्टा- न्धकं नाम । दुर्घटान्वयः सान्वयः । तत्र तावदुर्घटान्वय उच्यते । अस्मिन् श्लोके वाक्यचतुष्टयम् । तत्र 'वादि- भ्यामभ्यनुज्ञातम्' इत्येकं वाक्यम् | ‘शेषं च फलके स्थितम्' इति द्वितीयम् । 'ससाक्षिकं लिखेयुस्ते' इति तृतीयम् । 'प्रतिपत्तिं च वादिनोः' इति चतुर्थम् । एतत्पादचतुष्टयमपि अर्थतो दुरन्वयम् । वादिभ्यामभ्य नुज्ञातमिति यदुक्तम् । अत्र वादिनोः परस्परं विप्रति- पत्तिबद्धामर्षचित्तयोः खलकप्रविष्टयोरिव न्यायस्थानोप • स्थितयोः, कुत आकाशान्निपत्य स्नेह: समागच्छतु, येन सस्नेहकवाक्यतया ताभ्यां द्वाभ्यां वादिभ्यामभ्यनुज्ञातं व्यते । नाप्युत्तरम् । तदभावे च किमन्यद्वस्तु तादृशं, किञ्चिद्वस्तु भविष्यति, तदवस्थयोर्न तादृशी भाषा संभा- यल्लिखेयुः कारणिकाः । एवं तावदिदं प्रथममेव वाक्य- मिति दुर्घटान्वयम् । ततश्च ' शेषं च फलके स्थित मिति, यदुक्तं तत्राऽपि यत्कस्याऽपि वस्तुनः किञ्चिदुच्च- रितं (न) भवति तच्छेषमुच्यते । अत्र च अनिर्दिष्ट- | स्वरूपवस्तुनः कस्य शेषं उच्चरितं भवतु कीदृशं तावद् (१) नास्मृ. २ | २०; अभा. २२; स्मृचि. ३८; व्यसौ. २२ शेषं च (अशेषं) युस्ते (पत्रे ) त्तिं च ( त्यानु); राकौ. ३८९ शेषं च (अशेष) ( सत्प/क्षिकं लिखेत्पुस्ते प्रतिपत्त्यानु- वादिनोः) कात्यायनः.