पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारदः प्रतिज्ञाप्रशंसा प्रतिज्ञा (६) प्रधानं व्यवहाराणां प्रतिज्ञोक्ता । तद्धानौ हानिरन्यथाभावः । अन्यथोक्तेऽन्यथाभावे पराजीयते । यथोक्तं ' प्रतिज्ञां निर्वहन् जयति, तस्मात् सुपरीक्ष्य प्रतिज्ञा कर्तव्या, तन्मूलत्वात् सर्वस्ये 'ति । नाभा १।६ सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥ (१) अत्र सर्वेषामपि व्यवहाराणां सारभूता प्रतिज्ञा समुदाहृता । सा च प्रतिज्ञा विचार्या | पण एव ताव- प्रतिज्ञा न भवति तस्य श्लोकद्वयेन निलचितत्वात् । पुनरुक्तदोषसंभवाच्च । ततः प्रतिज्ञां केचिच्छरीरनिग्रहो- पन्यासं वदन्ति । यस्य किल धनपणो न संभवति स व्यवहारे रोषान्धत्वादेवमपि वदति, यथा – यद्यहं हार- यामि, तदा मम हस्तोऽपगच्छति पादो वा, मम प्रतिज्ञे- यम् । तदिदमपि वचनं प्रतिज्ञा । यतोऽत्र श्लोके एत- दुक्तम् –'तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत्' । तयदि हस्तखण्डनं न करोति हस्तखण्डनं प्रतिज्ञामु द्दिश्य न करोति न खण्डयति, तत्किम् ? तत्प्रतिज्ञातं हानौ हीयते वादी लभ्यद्रव्यं न लभते, किंवा हस्त खण्डने कृते तरंस्तामुत्तरो भवेदिति । अस्मादर्थात् प्रमाणक्रियाभिः अधरीकृतमपि द्रव्यमसौ लभते । यत एतदुभयथाप्यनर्थकम् । तत एवेयमपि प्रतिज्ञा न भवति । प्रतिज्ञा चाऽत्रेयम् । यद्धनिकस्य क्वचिदनागत मेव द्रव्यप्रार्थनां कुर्वतः ऋणिकेन स्वल्पद्रव्यभुक्तिरपि प्रतिज्ञेति गम्यते । हेतोश्च पक्षभूताऽधमर्णादिनिष्ठत्वं कृता । अथवा, कस्मिंश्चित्प्रदेशे स्थितेन वाचैव क्वचितदनङ्गीकृतं क्रियापादेन सिध्यतीति ध्येयम् । तथा दीदशं प्रतिपन्नमासीत् यथा प्रयच्छामि तच्च द्रव्य- महं यदि पालयित्वा गृह्णामि, इत्यादिद्रव्यसंप्रतिपत्यं चलं दर्शयित्वाऽपि यदा खरं गृहीतेन धर्माधिकरणाग्रे मिथ्या कृता भवति, धनिकोऽपि तदेव प्रदेशोद्देशपूर्वकं संप्रतिपत्यं चलं गव्यसिद्धेः प्रतिज्ञाय दिव्येनाऽधिष्ठितो भवति, तदा सैव संप्रतिपत्यचलत्वसद्धिप्रतिज्ञा, दिव्ये- नावान्तरसाध्यमानवादिनो मूलिकलभ्यद्रव्यस्य साधका भवन्तीति । इयमीदृशोदाहरणा प्रतिज्ञा सर्वव्यवहारा- (७) उत्तरः उत्कृष्टो विजयीति यावत् । यद्यपि न्यायाख्यपञ्चावयववाक्यान्तर्गत प्रतिज्ञास्वरूपं साध्य धर्मविशिष्टधर्मिवचनमात्रं, तथाप्यत्र ' सत्कारणान्त्रि- तम्' इत्युक्तत्वात् सहेतुकसाध्यधर्मविशिष्टधर्मिवचनं पर्यव सति स्थापनानुमानप्रयोग एवं प्रतिज्ञा । प्रतिस्थापनानु- मानप्रयोग एव चोत्तरमत्र पर्यवस्यति । अत एव स्मृत्युक्ता उभयाभासा यथायथमर्थान्तरमप्यनुयोज्यानु- योगासिद्धयादिनिग्रहस्थान हेत्वाभासादिष्वेव स्यन्ति । ततश्च त्वं शतं मह्यं धारयसि ऋणत्वेन मत्तो गृहीततावद्धनत्वादिति भाषाशरीरम् । न धारयामि अगृहीतत्वात् प्रतिदत्तत्वाद्वत्याद्युत्तरशरीरम् । अत्र च न तदनभिज्ञानामप्यर्थिप्रत्यर्थित्वदर्श- साधुशब्दनियमः नात् । बोधकैस्तु येषां ये शब्दाः प्रसिद्धास्तैरेव भाषादि लेखनीयम् । प्रतिवादिसभ्यादीनां तदनभिज्ञत्वे भाषा- द्वयाद्यभिज्ञैस्ते बोधनीया इत्याग्रह्यम् । अत एव विष्णुधर्मेऽध्यापनेऽपि साधुशब्दनियमानादर उक्तः । ‘ संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः । देशभाषा- युपायैश्च बोधयेत्स गुरुः स्मृतः' इति ॥ व्यप्र. ५४ (१) नासं.१।६; नास्ट.११६; अभा. ५; विश्व. २१८; व्यमा. २९२; अप. २१८; व्यक. ३८; स्मृसा.८५-८६; १३९ णामपि सारभूता भवतीति । 'तद्धानौ हीयते वादी तरं- स्तामुत्तरो भवेदि'त्यादिषु सार्विकमिदमिति । तथा चोक्तम् --- 'यत्र वादी क्रियाकाले सर्वसिद्धिमुदीरयेत् । दिव्येन तां खरीकुर्वन् सा प्रतिशा प्रकीर्तिता' ॥ अभा. ५ ६ व्यचि. १२; व्यनि.; स्मृचि. ४२; व्यत. २०४; चन्द्र. १०७; व्यसौ.३६; ब्यप्र.५४,८ ६; सेतु. १०३; प्रका. २४ दानौ (द्धीनो); समु. १९ प्रकावत् ; विव्य. ५ तरंस्तामुत्तरो भवेत् (तस्यामेवोत्तरं वदेत् ). (२) अत एव च यत्तार्किकैः प्रतिशावचनस्यानङ्ग त्वमुक्तं तदपि प्रत्युक्तम् । विश्व.२१८ अप. २१८ (३) प्रतिज्ञामुत्तीर्णो भवेदित्यर्थः । (४) तरन् निर्वाहयन्, उत्तरो विजयवान् । व्यक. ३८ (५) प्रतिज्ञा तावत् ‘त्वं मह्यं शतं धारयसि ' इत्येवंरूपा, तस्या हानौ अपरिपूरणे हीयते भज्यते तां तरन् परिपूरयन् उत्तरः श्रेष्ठो भवतीत्यर्थः । व्यचि. १२