पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् १३८ प्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते । 'आधौ प्रतिग्रहे क्रीते पूर्वा तु वलवत्तरा' इति वचनात् ( यास्मृ. २|२३ ) | अर्थव्यवहारेऽपि एकस्मिन्संवत्सरे यत्संख्याकं यद्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन वत्सरे तद्रव्यं तत्संख्याकं ततस्तेन गृहीतं याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासा- द्यपि योज्यम् । देशस्थानादयः पुनः स्थावरेष्वेवोपयु- ज्यन्ते । एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्ष- वदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक् पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुक्तम् । (४) यथावेदितमिति यत्साध्यमावेदितं तदेव लेख्य न साध्यान्तरमिति प्रतिपादनार्थम् । न पुनर्यावदावेदितं तावदेव लेख्यमिति । यतो नावेदितस्यापि वत्सरादि- विशेषस्थेदानीं लेखनं कार्यमिति स एवाह - 'समामास- तदर्धाहर्नामजात्यादिचिन्हितम्' इति । समा संवत्सरः । सच धनप्रयोगादिकालीयो लेखनीयः । मासादिरपि । तत्कालीन एव । स्मृच. ३६ (५) मिता. टीका-क्षमालिङ्गादीनीति । प्रत्यर्थि विषये आसेधाद्यकरणं क्षमा सहिष्णुता । तत्र लिङ्गानि कारणानि बाल्यजडत्वादीनि । सुत्रो. अर्थिग्रहणात्पुत्रपौत्रादिग्रहणं तेषामेकार्थत्वात् । नियुक्तस्याऽपि नियोगेनैव तदेकार्थत्वाक्षेपात् । 'अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विव दते तयोर्जयपराजयौ' ॥ इति स्मरणात् । नियुक्त जयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् । शोधनं च यावदुत्तरदर्शनं कर्तव्यं नातः परम् । अनवस्थाप्रसङ्गात् । पूर्वपक्षमशोधयित्वा एव यदोत्तरं दापयन्ति सभ्यास्तदा रागालोभादित्युक्त दण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति । ऋमिता. (३) अर्थिनाऽग्रवादिना धर्माधिकारे येन येन प्रकारेण कार्यमावेदितं तत्तेनैव प्रकारेण वर्षादिचिन्हितं प्रत्यार्थिनः पुरतो राज्ञा लेखयितव्यम् । तत्र आवेदनप्रकारो यथा - मदीयं सुवर्णमेतावदमुकवत्सरेऽमुकमासेऽमुकपक्षे अमु कतिथावमुकेनामुकजातीयेनाधमर्णेन गृहीतमिति । अथ वा विवादास्पदधनस्त्र नामजात्यादिचिन्हितम् । आदिशब्देन खण्डत्वमुण्डत्वसंख्यापरिमाणादि गृह्यते । अन्यथा संख्यादिरहितद्रव्यविषय विवादस्यानादेयता स्यात् । येषां मध्ये यानि साधकबाधक प्रमाणोपन्यासो- पयोगीनि यत्र भवन्ति तत्र तान्येव लेख्यानि । न सर्वाणि । प्रयोजनाभावात् । तत्र समामासादीनां वृद्धि विवादे पूर्वोत्तरकालविवादे चास्त्युपयोगः । चौर्यादि- विवादे नामजात्यादेः । एवमन्येष्वप्यूहनीयम् | +अप.

  • व्यनि. मितागतम् । + शेषं मितागतम् ।

, (६) यदावेदितमिति कृत्वा चन्द्रिकाकारेण यत्साध्य मिति व्याख्यातम् । विज्ञानयोगिना तु यथावेदित- मिति पठित्वा यथा- येन प्रकारेण पूर्वमावेदनकाल एवावेदितं तथा न पुनरन्यथा, अन्यथावादित्वे तु भङ्गप्रसङ्गात् । 'अन्यवादी क्रियाद्वेपी नोपस्थाता निरुत्तरः । आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः इति । आवेदनकाले अर्थिवचनस्य लिखितत्वात्पुन र्लेखनमनर्थक मित्यत आह – समामासेत्यादि । यथेति थाल्प्रत्ययान्तं प्रकारवचनं कृत्वा व्याचक्षाणस्य विज्ञाने श्वरस्य आवेदनसमये यावल्लिखितं तावल्लेखनीयं, किन्तु साध्यमेव लेखनीयमित्याशयः । अन्यवादिवचनोदाहर- णात् । अन्यवादित्वं नाम स्वसाध्यं विहाय साध्यान्तर- स्वीकार इति । अतो विज्ञानयोगीन्द्रचन्द्रिकाकारयोर्व्या ख्यानप्रकारभेद एव नार्थभेदः । यथारुचि स्वीकार्यम् । सवि.८४-८५ (७) एते भाषाधिकरणे कालनामजातयः प्रति +वीमि. वादिनः स्वस्य च । (८) लेख्यं लेखनीयं ससभ्येन सभापतिना ।

  • व्यप्र. ४६

(९) अत्र विज्ञानेश्वरः । अर्थ्यत इत्यर्थः | साध्यां- शोऽस्येत्यर्थी तत्प्रतिपक्षः प्रत्यर्थीत्याह । तन्न । भिथ्यो त्तराद्यधीनायाः साध्यसिद्धेर्भाषाकाले पूर्वमज्ञानात् । कारणोत्तराद्यधीनं हि साध्यं कथं पूर्व ज्ञायेत । तेनात्र प्रतिवादिमात्रं प्रत्यर्थीत्यपरार्कः । तस्याऽग्रे सभ्यैरर्थिना लेखनीयम् । अशक्तौ पुत्राद्यैः । विता. ५२ + शेषं मिताक्षरापरार्कादिषु गतार्थम् । * शेषं मितागतम् ।