पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः स्वयमन्वेषयेद्राजा विना चैव विवादिना || यस्य दृश्येत संपत्तिर्न दृश्येतागमः कचित् । स्वयमन्वेषयेद्राजा विना चैव विवादिना || संभाभङ्गं तरुच्छेदं सस्यव्याघातमेव च । स्वयमन्वेषयेद्राजा विना चैव विवादिना कैन्यापहारकं पापं विप्रं च पतितं तथा । परार्थवादसंयुक्तं स्वयं राजा विचारयेत् || षड्भागकरशुल्कार्थे मार्गभेदकमेव च । स्वराष्ट्रचौर्यभीतिं च परदाराभिमर्शनम् ।। गोब्राह्मणनिहन्तारं सस्यानां चैव घातकम् | दशैतानपराधांश्च स्वयं राजा विचारयेत् || एतानासेधादीन् दशापराधान् स्वयं राजा विचारये दित्यर्थः । अत्र पथि भङ्गग्रहणं छलानां प्रदर्शनार्थम् । दशापराधान्तर्गतानां केषाञ्चिद् ग्रहणं तेषां प्रदर्शनार्थम् । सस्यघातक ग्रहणं तु पदानां प्रदर्शनार्थम् । स्मृच. २८ मरीचिः कन्या अनाह्वयनीया सर्ववर्णोत्तमा कन्या सा जातिप्रभुका स्मृता । अनाव्हयनीयापवादः तद्धीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतितास्तासामाव्हानमिष्यते || • स्वजातिप्रभुका तु मरीचिना निरुक्ता सर्वेति । पमा. ५१ स्मृत्यन्तरम् अनेक कार्ययोगपद्ये वादक्रमः यद्यद्गुरुतरं कार्य तत्तत्पूर्व विशोधयेत् । वर्णक्रमेण वा पश्येद्गुणयोगेन वा पुनः ।। कालातिपाते वादो न ग्राह्यः यंत्र कार्ये भवेद्येन कृतोपेक्षा दशाब्दिकी । (१) स्मृच. २८ श्येत (इयस्य); प्रका. १७ स्मृचवत् : समु. १२ स्मृचवत्. (२) स्मृच. २८; प्रका. १७; समु.१२. (३) स्मृच. २८; पमा. ४४; प्रका. १७; समु. १२. (४) स्मृच. २८; मा.४४ करशुल्का (कालं शुल्का) ष्ट्र (ष्टे ): प्रका. १७; समु. १२. (५) स्मृच. २८; पमा.४५; प्रका. १७; समु. १२. .१२. (६) पमा. ५१. (७) व्यनि.; प्रका. २१; समु. १६. (८) मेधा. ८।१५४. १३५ विवादस्तत्र नैव स्यात् साहसेषु विशेषतः ॥ त्रैराज्यसूत्रम् आव्हानातिक्रमे दण्ड: त्रिरात्रानागमने चतुरः पणान् दण्ड्यः । पला- यने चैवं, पराजये चतुरः कार्षापणान् । शुक्रनीति: अर्थी कार्य निवेद्रयेत् धर्मासनगतं दृष्ट्वा राजानं मन्त्रिभिः सह । गच्छेन्निवेद्यमानं यत्प्रतिरुद्धमधर्मतः ।। यथासत्यं चिन्तयित्वा लिखित्वा वा समाहितः । नत्वा वा प्राञ्जलिः प्रव्हो ह्यर्थी कार्य निवेदयेत् || सूचकस्तोभकाभ्यां वा श्रुत्वा चैतानि तत्वतः ।। अविनीतवादी दण्ड्यः उद्धतः क्रूरवाग्वेषो गर्वितश्चण्ड एव हि । सहासनश्चातिमानी वादी दण्डमवाप्नुयात् || आसेधविधिः ग्रााग्राह्यविवादं तु सुविमृश्य समाश्रयन् || संजातपूर्वपक्षं तु वादिनं संनिरोधयेत् । राजाज्ञया सत्पुरुषैः सत्यवाग्भिर्मनोहरैः ।। निरालसेङ्गितमैच दृढशस्त्रास्त्रधारिभिः ॥ प्रत्यर्थिनं तु शपथैराज्ञया वा नृपस्य च ॥ वादे प्रतिनिधिदेयः व्यवहारानभिज्ञेन ह्यन्यकार्याकुलेन च ॥ प्रत्यर्थिनाऽर्थिना तज्ञः कार्यः प्रतिनिधिस्तदा ॥ नियोगितस्यापि भृतिं विवादात्पोडशांशिकीम् ॥ अन्यथाभृतिगृह्णन्तं दण्डयेच नियोगिनम् । कार्यो नित्यो नियोगी न नृपेण स्वमनीपया ॥ लोभेन त्वन्यथा कुर्वन नियोगी दण्डमर्हति ॥ प्रवर्तयित्वा वादं तु वादिनौ तु मृतौ यदि || तत्पुत्रो विवदेत ज्ञो ह्यन्यथा तु निवर्तयेत् || वादे प्रातिभाव्यविधिः 'देतेनाव्हानितं प्राप्ताधर्षकं प्रतिवादिनम् || (१) समु. १५. (२) शुनी. ४/५५४-५५५. (३) शुनी. ४१५६७. (४) शुनी. ४५८५५८६. (५) शुनी. ४५९० ५९२. (६) शुनी. ४५९३. (७) शुनी. ४६०७.३०८. (८) शुनी. ४ / ६११-६१३. (९) सुनी. ४६१५-६१६. (१०) शुनी. ४/६१९ - ६२२.