पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः कार्यार्थी प्रष्टव्यः काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् । . किं कार्य का च ते पीडा मा भैषीब्रूहि मानव || 2 केन कस्मिन्कदा कस्मात्पृच्छेदेव सभागतम् ॥ (१) केन पुरुषेण कस्मिन्देशे काले वा कस्मात्कार- णादिति प्रणतं पृच्छेत् । अतः प्रणत एव ब्रूयात् ।

  • व्यमा.२८६

(२) कि कार्यमिति देयाप्रदानस्य ज्ञानार्थ प्रश्नः । का च पीडेति हिंसायाः । तथा च तयोः कर्तृदेशकालकारण- परिज्ञानार्थ सभापतिना प्रश्नचतुष्टयं कार्यमित्याह स एव – 'केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभां गतः' । इत्येवं पृष्टः कार्यार्थी ततस्तस्मै वक्तव्यजातं विज्ञापयेत् । + स्मृच. ३१ (३) मिता. टीका - किं कार्य का च पीड़ेति अर्थ कृतो मन्युकृतश्च प्रश्नभेदः । सुबो. २१५ (४) अत्र कार्यार्थिनं स्वयमागतं पृच्छेदित्यनेन राजा स्वयमावेदको वा नोत्पादयेदित्यर्थः । आह्वानविधिः व्यउ.२२ एवं पृष्टः स यद् ब्रूयात्तत्सभ्यैर्ब्राह्मणैः सह । विमृश्य कार्य न्याय्यं चेदाह्रानार्थमतः परम | मुद्रां वा निक्षिपेत्तस्मिन्पुरुषं वा समादिशेत् ||

  • बाल. २।५ व्यमागतं सुवोगतं च । + सवि. स्मृचगनम् ।

(१) शुनी. ४१५५७; मिता. २१५ नं (नः) प्रणतं (गृणन्तं) स्मृत्यन्तरम् ; व्यमा. २८६ प्रणतं (पुरुष) ब्रूहि मानव (याहि मानद); अप. २१५; व्यक. १९ नं ( गते); स्मृच.३१; पमा ५२; व्याने .९; स्मृचि.४; नृप्र. ५; सवि. ७५; व्यसौ. १४; व्यप्र.३५; व्यउ. २२; व्यम. ४; विता. ३८; राक्रौ. ३८५; प्रका. १९; समु. १४. (२) शुन. ४१५५८ पृच्छे... तम् ( पीडितोऽसि दुरात्मना); मिता. २१५ स्मृत्यन्तरम् ; व्यमा. २८६ देवं सभागतम् ( देव सभां गतः); अप. २५ भागतम् ( भां गतः ) ; व्यक. १९ अपवत् ; स्मृच. ३१; पमा ५२ दा ( थं) वं ( नं); स्मृचि.४; नृप्र. ५; सवि. ७५ (केन कस्मि- न्कदा कस्मादेवं पृच्छेत्सभां गतः); व्यसौ. १४ वं (व); व्यप्र. ३५; व्यउ.२२ दा (थं); व्यम.४; विता. ३८; राकौ. ३८५ गतः (गतम्); प्रका. १९; समु. १४ अपवत् ( ३ ) शुनी. ४ १.४।५५८(एवं पृष्टः स्वभावोक्तं तस्य संश्रुणुयाद्वचः); मिता. २१५ तत् (स ) स्मृत्यन्तरम्; अप. २१५ द्रां वा (द्रांच); १२५ (१) तच्च लिखितं जन्मान्तरे मयाऽस्मै धनं दत्तं तदसौ न प्रयच्छतीतिवद्विचारायोग्यं यदि न स्यात्तदा तत्प्रत्यर्थ्यानयनाय मुद्राप्रदानादिकं कुर्यात् । तथा च कात्यायन: - - एवमिति । तस्मिन् आवेदके । पुरुषं साध्यपालम् । न्याय्यं योग्यम् । आह्वानार्थमभियुक्तस्येति शेषः ।

  • स्मृच. ३२

(२) मुद्राग्रहणं लेख्यस्याप्युपलक्षणम् । वाल. २।५ आहानानहर्हाः अंकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्त प्रमत्तार्तभृत्यान्नाह्वानयेन्नृपः ।। (१) अकल्पो व्याधितः । विषमं दुर्ग निगडादि वा । क्रियाकुलो नित्यनैमित्तिककर्मकरणव्यग्रः । कार्या तिपाती यस्य तत्कालमागच्छतो गुरुतरकार्यविनाशः । व्यसनमिष्टवियोगादि । उत्सवः कौमुद्यादि: सार्वजनीनः । विवाहादिर्वा प्रातिस्विकः । Xअप. २१५ (२) विषमस्थ उत्पन्नसंकटः । मत्तो धत्तूरादि मदनीय द्रव्येण स्खलितबुद्धिः | उन्मत्तो ग्रपित्तादिभिः । प्रमत्तः सर्वत्रावधानहीनः । आर्तो विपादिना दुःखितः । भृत्य- ग्रहणमस्वतन्त्रस्त्रीणामप्युपलक्षणार्थम् । +स्मृच.३३ (३) विषमस्थ उत्तमतः । चिता. ४१

  • व्यप्र. स्मृचगतम् ।

X व्यक. अपगतम् । + शेषं अपगतम् । सुबो. (२१५), व्यउ. रमृचगतम् । व्यक. २१ तत् (स) मृश्य (चार्य ) तस्मिन् (तत्र); स्मृच. ३२; पमा. ५५; व्यनि तत् (स) वा निक्षिपेत्तस्मिन् (दद्यात्तथा पत्रम् ); स्मृचि.४ तत् (स); नृप्र. ५ प्रथमार्धम्; व्यसौ १६ सय ( तु य ) विमृश्य कार्य (विचार्यमेव ) तस्मिन् (तत्र) समा (विनिर्); व्यप्र. ३८ व्यकवत् ; व्यउ. २४ व्यकवत् ; व्यम. ५ तत् (स) गृश्य (चार्य); विता. ३८ तत् (स); राकौ. ३८५; प्रका. १९; समु. १५ वा निक्षिपेत्तस्मिन् ( दद्यात्तथा पत्रम्). (१) न. ४/५९९-६००; मिता. २१५ र्त (तन् ) स्मृत्यन्तरम् ; अप. २१'५ (धमांयतानभ्युदये पराधीनशठाकृतीन् । मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाहाययेन्नृपः ॥); व्यक. २३ तिपा (भिपा); व्याने. त्सवा (चता) नाह्वान (नेवाह) स्मृत्यन्तरम् ; स्मृचि. ५; दवि. ३३४ द्वितीयाः; नृप्र. ७ द्वितीयाधं नास्ति; व्यसौ. १८ नये ( यये); व्यप्र. ३९; व्यउ. २४; व्यम. ५ नारद:; विता.४० द्वितीयाधं नास्ति; राकौ. ३८५.