पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् तत्र गवां प्रमादभयात् गोपालो नासेध्य आग्रामप्रवे शात् । सस्याबन्धे कृषीवला: | सस्यस्याबन्ध: संग्रहः । आरम्भसंग्रहयोः आ फलप्रदानादित्यर्थः । तत्रासेधे सस्यनाशात् कुटुम्बनाशः राजार्थ शनिश्च | तस्मात् तत्र कृषीवला नासेध्याः । शिल्पिनस्तक्षायस्कारतन्तु वायादयः । शिल्पकाले आजीवनहानिः | आयुधीया श्रोपस्थिते युद्धे परचक्रतः प्राणभयात् साधारणप्रयो जनोपस्थानाच्च । अप्रातव्यवहार आ पोडशात् वर्षाद ज्ञानादनासेभ्यः । धनिने च तद्धनं राज्ञा दाप्य: अन्यथा धनिनो धनहानिः स्यात् (?) अव्यवहार्यो दूतः राज कार्यगरीयस्त्वात् । दानोन्मुखः श्राद्धब्राह्मणभोजनाद्य- भिमुखः, निमन्त्रितेषु ब्राह्मणेषु धर्मलोपात् । व्रती नियमस्थ आरब्धपारायणचान्द्रायणादिकसाधनः । तत्र संभाषणादिप्रतिषेधात् । विषमस्थश्च राजकुलचोरादिना आहतसर्वस्वः दातुमशक्यत्वात्, दापयितुमपि निर्धन त्वात्, कर्मणा समीकरणेऽपि कुटुम्बविनाशात् । न चैनानाह्वयेद् राजा, एतेषां बलवदवष्टब्धत्वात् । उत्तर- काल आसेधाह्वाने कर्तव्ये । नाभा १९४५-४७ (४) एते च कालान्तर आह्वातव्याः । यदा तु तत्कालाह्वानमावश्यकं तदा पुत्रादयस्तत्प्रतिनिधयः । व्यप्र. ३९ आह्वाननिषेधप्रतिप्रसवः 'देशं कालं च विज्ञाय कार्याणां च बलाबलम् । अकल्पादीनपि शनैर्यानैराह्वानयेन्नृपः ।। (१) यानैः शिबिकादिभिः । अप. २।५ (२) यदा त्वकल्पादिप्रहितप्रतिनिधिना न कार्यनि- ष्पत्तिः, तदा अकल्पादीनामप्याह्वानं कार्यम् । स्मृच.३३ (३) देवब्राह्मणराजद्रोहादकल्पबालस्थविरादीनां स्व- रूपेणाव्हान मित्यर्थः । व्यनि. (१) मिता. २१५ देशं कालं (कालं देशं) बलम् (बले) स्मृत्यन्तरम् ; अप. २।५ ह्वान (नाय); स्मृच. ३३ नये (पये) हारीत; पमा. ५०; व्यनि. नये (यये) क्रमेण बृहस्पतिः; स्मृचि. ५ ६ ह्वान (कार) कात्यायनः; नृप्र. ७ कालं (बल) नये (यथे); व्यप्र.४० देशं कालं (कालं देशं) क्रमण बृहस्पतिः; व्यउ. २५ क्रमेण बृहस्पतिः; व्यम. ५ पूर्वाधं व्यप्रवत्, यानै ( शनै); प्रका. १९ व्यनिवत् ; समु. १५ व्यनिवत्. कार्योत्तरमासेधनिषेधः 'संभूतेऽर्थे य आसिद्धः प्रत्यासेधयते स तम्। शास्यो भवेत्तदा दण्ड्यो ह्यसंभूते स एव तु || बृहस्पतिः परनिवेदित एव वादो ग्राह्यः अष्टादशपदो वादो विचार्यो विनिवेदितः । राज्ञा स्वयं ग्राह्यवादस्थानानि सन्त्यन्यानि पढ़ान्यत्र तानि राजा विशेत्स्वयम् || पैड्भागकरशुल्कं च समयातिक्रमो निधिः । वधः संग्रहणं स्तेयमासेधाज्ञाव्यतिक्रमः || (१) एतानि पदानि राजैव विशेत् । राज्ञैव स्वयम- नुसरणीयमिति । अष्टादशविवादास्त्वार्थनिवेदिता एवा- नुसरणीयाः । 'स्वयं नोत्पादयेत्कार्य राजा वा नाऽस्य पूरुषः' इत्यादिकमपि एतद्विषयम् । व्यमा. २९६ (२) अन्यानि करशुल्कादीनि, विशेत् अवेक्षेत । व्यक. १९ 'पीडितः स्वयमायातः शालीनोऽर्थी यदा भवेत् । प्राविवाकस्तु तं पृच्छेत्पुरुषो वा शनैः शनैः ॥ (१) शालीनो निर्णयशालायां लीन: उपस्थित इत्य- र्थः । पुरुषो राजवर्जितः । व्यमा. २८६ व्यक. १९ (२) शालीनः प्रगल्भः । आत्मकृतप्राड्विवाक निवेदितवादो न द्रष्टव्यः किं तु पर- निवेदितवादो द्रष्टव्य एव आगतानां विवदतामसकृद्वादिनां नृपः । वादान् पश्येन्नात्मकृतान् न चाध्यक्ष निवेदितान् || 'अर्थिनश्च वचः कार्य वचः प्रत्यर्थिनस्तथा । परीक्ष्य पद्मादद्यादन्यथा नरकं व्रजेत् || (१) व्यक. २२ कात्यायनः; व्यसौ. १७. (२) ब्यमा. व्यक. १९ तानि (यानि); व्यसौ. १४ व्यकवत्. (३) व्यमा.२९६ करशुल्कं च ( हरणं शुध्दं) संग्रह (संहर); व्यक. १९; व्यसौ. १४ निधि: (निधः). २९६; (४) व्यमा. २८६ नोऽर्थी (नोऽथ) तं पृच्छेत् (पृच्छेत); व्यक. १९; पमा ५२ शालीनो (शस्त्रेणा); व्यसौ. १४; प्रका. १९ शालीनो (शास्त्रेण); समु. १४ प्रकावत्. (५) व्यमा २८६ ; व्यक. १९ तानां (मानां); पमा ५२; व्यसौ. १४ व्यकवत् ; प्रका. १९ न्ना (दा); समु. १४ नात्मक (दात्मग), (६) व्यक, | २०; व्यसौ. १५.