पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनोपक्रमः (६) मिता. टीका - अन्यथा कुर्वन्निति । अनासेध काले आसेधं कुर्वन्नासेधकर्ता दण्डयो भवेदित्यर्थः । श्रद्धा आसेद्धा आसिद्धं तं लोभादिना मुञ्चन्नित्याद्यर्थः । बाल. २१५ आह्वानासेधानर्हाः ' निष्कामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथाऽन्येन राजकार्योद्यतस्तथा ॥ गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः । शिल्पिनश्चापि तत्काल आयुधीयाञ्च विग्रहे ॥ अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती । विषमस्थाश्च नासेध्या न चैतानाह्वयेन्नृपः || (१) निर्वेष्टुकाम: परिणेतुमुद्यतः । तथा रोगार्तः । यियक्षुः यज्ञार्थमुद्यतः । व्यसनाऽभिभूतश्च यो भवति ।

  • 'निर्वेष्टुकामो रोगार्त' इत्यादिलोकत्रयस्य व्यचि., व्यत.,

सेतु.एषां व्याख्या पूर्वव्याख्यासु गतार्था । (१) नासं. ११४५ निवे (निवे) ; नास्मृ. ११५२; शुनी. ४/६०१-६०२; अभा. १४ नासंवत् ; मिता. २१५; व्यमा. २८६; अप.२।५ नासंवत्; स्मृच. ३१:३३ नासंवत् ;पमा ४९ नासंवत्; व्यचि. ९ कार्यो ( कर्मों); व्यनि. नासंवत् ; स्मृचि.६ नासंवत्; दवि.३३३; व्यत. २०१ व्यचिवत्ः चन्द्र.१०५-१०६ यियक्षु (विबन्धु) राज (कार्या); व्यसौ. १८ नासंवत्; वीमि. २१६ (अभियुक्तस्तु न्यायेन बीजकर्माद्यत स्तथा ) ; व्यप्र. ३९; व्यउ. २४ नासंवत्; विता.४५ नासं- वत्; सेसु. ९८ व्यचिवत्; प्रका. १९ नासंवत्; समु. १४ नासंवत्. काल (२) नासं. १।४६ रम्भे (बन्धे); नास्मृ. ११५३ (कालं); शुनी.४।६०२-६०३ रम्भे (वापे) काल (कालं); अभा. १४ नास्मृवत्; मिता. २।५ रम्भे (वापे) काल (कालं); व्यमा. २८७ सस्थारम्भे (शस्य वृन्दे); अप. २१५ सस्यारम्भे ( सस्यकाले ) ; व्यक. २३; स्मृच. ३१, ३३ नास्मृवत्; पमा. ४९ पाला: (पाल:); व्यचि.९; व्यनि.; स्मृचि. ६ पूर्वार्ध मितावत्; दवि. ३३३ सस्यारम्भे ( शस्यबन्धे ) काल ( कालं); व्यत. २०१ सस्यारम्भे (शस्यबन्धे); चन्द्र. १०६ व्यतवत्; व्यसौ. १८ काल (कालं) शेषं व्यतवत् ; वीमि. २१६ नासंवत् ; व्यप्र. ३९ मितावत् ; व्यउ. २४ मितावत्; विता.४५ ( गवां प्रचारण पाल: सस्यपाल: कृषीवल:) काल (कालं) च वि (स्ववि); सेतु.९८ नासंवत् ; प्रका. १९ नास्मृवत् ; समु. १४ नास्मृवत्. (३) नासं. १९४७ स्था (स्थ) ताना (नाना); नास्मृ. ११५४ ११९ तथाऽन्येन य आक्षिप्तः तथा गोषु गोप्रचारस्थिता गोपालाः । सस्यारम्भकाले कृषीवलाः । शिल्पिनश्च प्रतिष्ठाकाले । आयुधधारिणो विग्रहकाले । अप्राप्तव्यवहारः पोगण्ड: । दूतः राजकार्योद्यतः अन्यत्रेरितकार्यो दूतो वा । दानोन्मुखः पर्वनिमित्तकाले । व्रती निमित्तगृहीतव्रतस्थः । विषमस्थश्च तत्काले राज- दैविकाऽभिभूतः । एते सर्वेऽपि एवंस्थिताः कार्यकत्री बलेनांऽपि नासेधनीयाः । न च राजच्छलपतिता भव- न्तीति । अथवा उक्ता बलेन आवेदिता भवन्ति। तत एवम्भूतान् राजाऽपि ज्ञात्वा नाह्वयेदिति । अभा. १४-१५ (२) अप्राप्तव्यवहारः आपोडशवयस्कः । सुव्यक्त- मपरम् । एते तूर्ण मनुष्यादिना अनासेध्याः न विधा- रणीयाः । निवेदितेऽपि वादिना विवादे नाह्वयितव्याः । तत्तत्कार्यसमाप्तिपर्यन्तं, तत्तत्कार्यविरोधादेव । तदधिक- कार्यविरोधे विवाद निवेदकस्य वा तदा आसेद्धव्या एव राजा चाह्वयितव्या न्यायमूलवाद्वचनानाम् । व्यमा. २८७ (३) निवेटुकाम इत्यादयस्त्रयः श्लोका एकवाक्यार्थाः। निवेष्टुकामो विवाहाभिमुखो नक्षत्राद्यतिपाताद् आत- न्निवृत्तेर्नासेध्यः । रोगार्त आसिद्धो म्रियेत वारितो दौर्बल्यादिना भेषजातिक्रमेण वा । यियक्षुर्यष्टुकामः साधुत्वात् धर्मविरोधाच्च । व्यसने स्थितः स्वजन- वियोगादौ दुःखितत्वात् साहाय्यकालत्वाच्च । अभि युक्तोऽन्येन व्यवहारेण लेखितस्तत्र बद्धवादस्वतन्त्र इति । राजकार्यार्थमुद्यतो राजकार्योद्यतः । बलवता वष्टब्यत्वादस्वतन्त्रत्वाच्च आ तन्निवृत्तेरिति द्रष्टव्यम् । गवां प्रचारे अटव्याम् । प्रचरन्ति यस्मिन्निति प्रचारः । स्था (स्थ) घ्या (ध्यो);झुनी. ४६०३-६०४; अभा. १४;मिता. २१५०; व्यमा.२८७ न चैतानाव्ह (नैतानावाह); अप. २१५ न चैतानाव्ह (नैतानाहाय); व्यक. २३ न्मुखो (धतो); स्मृच. ३१, ३३; पमा. ५०; स्मृसा. ८५; व्यचि. ९; व्यनि. नास- वत्; स्मृचि. ६ चे (वै) शेपं व्यकवत् ; दवि. ३३४ स्था ( स्थ); व्यत. २०१ ताना (तान्ना); (चापि ) या (यो) चे (त्वे); व्यसौ. १८ व्यकवत्; वीमि. २१६ प्रा (वा) मस्थाश्च (यस्थाच्च ) ; व्यप्र. ३९, २६३; व्यउ. २४ दानो (देयो); विता.४५, ५१२; राकौ. ३९७; सेतु. ९८ खो (खी); प्रका. १९; समु. १४ सेतुवत्. चन्द्र. १०६ स्थाश्च