पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ व्यवहारकाण्डम् प्रष्यजनस्य स्मृच. ३५ ! जीवत्सु तत्पारतन्त्र्यादनादेयो व्यवहार इति व्याख्येयम् । प्रष्यजनस्य स्वामिपारतन्त्र्यात् स्वार्थव्यवहारेऽपि स्वाभ्यनुज्ञयैव व्यवद्दारो नान्यथेति व्याख्येयम् ।

  • मिता. २/५, २०३२

(२) मिता. टीका —तद्भिन्नसाध्यविषयमिति । भिन्न- साध्यानि पृथक्साध्यानि भिन्नव्यवहारविषये इति यावत् । एतदुक्तं भवति । यदा त्वेकेनैकः पुमानभि युक्तो मह्यमसौ धारयतीति, तदा तस्मिन्व्यवहारे निष्पन्ने अपरेणापरेण च पूर्वमभियुक्तो नाभियोज्य इत्येवमे कस्य बहुभिः सार्धे विवादाभावः । न त्वेवमेते मह्यं धारयन्ति शतमित्येवमेकस्य बहुभिर्विवादाभाव इति । (१) अर्थिवाद: पूर्वपक्षः । (२) तेन प्रत्यभियोगकर्तुरेवाभियोगवादो दातव्यः न पूर्वाभियोक्तः आयय्य (१) प्रत्यवस्कन्दनवच्च तस्या- धर्यमुत्तरं प्रतिज्ञा चेति वक्तव्यम् । उत्तरत्वेन साध्यत्वं प्रतिज्ञातार्थस्यैव साध्यत्वात् । व्यनि. (३) अत्रैव ‘पूर्वपक्षो भवेत्तस्य' इति कात्यायनीये तृतीयपादः । न यः पूर्व निवेदयेदिति तस्योत्तरः पक्ष इति शेषः । स यः पूर्वमिति पाठे यः प्रथमं निवेदयति स पूर्ववादीत्यर्थः । Xव्यत. २०० (४) अधिकं कार्यम् । अग्रे वादप्रतिबन्धिका देशा- न्तरगमनादिव्यावृत्तिः यत्र तत्रार्थिभाषितमप्रयोजकम् । चन्द्र.१०७ अनादेयवादः ऐकस्य बहुभिः सार्ध स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ।। (१) यत्पुनः 'एकस्य' इति नारदवचनं तद्भिन्न- साध्यविषयम् । एकस्यापि - 'गणद्रव्यं हरेद्यस्तु संविदं लघयेच्च यः’ । तथा—‘एकं घ्नन्तं बहूनां च' इत्यादि स्मरणादेकार्बहुभिः सार्धं व्यवहार इष्यत एवेति । भिन्नार्थैर्बहुभिरेकस्य युगपद्व्यवहारो न भवतीति द्रष्ट- व्यम् । स्त्रीणामित्यपि गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्या- ह्यवहारो भवत्येवेति । तदन्यासां कुलस्त्रीणां पतिषु x सेतु. व्यतवत् । वाऽभ्य (चाप्य); व्यनि.वाऽभ्यधिका ( वाप्यधिका); स्मृचि. ६ ० वाऽभ्य (चाप्य) वाऽभ्य (वाऽप्य) वादो (भावो) ; व्यत. २०० वाइभ्य (चाभ्य) वाऽभ्य (वाऽप्य) वादो (भावो); चन्द्र. १०७ स्मृचिवत् ; व्यसौ. १९ स्मृचिवत् ; व्यप्र.४५; विता. ५० र्थि (थ); सेतु.९६ वादो (भावो) शेषं दीकवत्, ‘स यः पूर्वं निवेदयेत्' इत्यपि पाठ:; प्रका. २१; समु. १६. (१) विश्व.२।५ जनस्य च (करैस्तथा) पू.; मिता. २ : ५, २१३२; अप. २१६ स्त्रीणां (स्त्रीभिः) जनस्य च ( करैस्तथा ) उदाहृतः (प्रकीर्तितः); व्यक. २१ पूर्वार्ध अपवत्, बृहस्पति- नारदौ; स्मृसा.८५ पूर्वार्ध अपवत्, धर्मविन्दिरुदाहृतः (विद्व- द्भिः परिकीर्तितः);व्याच.८ स्मृसावत; व्यनि. विश्ववत्; नृप्र. ५; चन्द्र. १०४ पूर्वार्ध अपवत, धर्मविद्भिरुदाहृतः (विद्वद्भिः संप्रकीर्तितः) ; व्यसौ. १६ पूर्वाधं अपवत्; वामि. २१५ स्त्रीणां (स्त्रीभिः) जनस्य च (करै:सह); व्यप्र. ३५; व्यउ. २१; विता. १९; प्रका. २४; समु. १८. 'गणद्रव्यं हरेग्रस्तु संविदं लङ्घयेच्च यः' इति । 'सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्' इत्युत्तरा र्धम् । 'एकं नतां बहूनां च' इत्यादि । 'यथोक्ताद् द्विगुणो दमः' इति वचनशेषः । 'व्यवहार इष्यत एवेति' इति । गणद्रव्यहारिणः सर्वस्वहरणादिविधा- नम् । एकहन्तणां बहूनां च द्विगुणदण्डविधानं च विद्यते । एतदुभयमपि व्यवहारमुखेन तादृशापराधवता- मेव भवतीति व्यवहारोऽस्तीत्यर्थः । एकस्य बहुभिः सार्धमित्यस्य नारदवचनस्याभिप्रायमाह | भिन्नार्थैर्ब्रह भिरिति । पृथक्साव्यवद्भिर्बहुभिः सार्धमेकस्य युगप द्व्यवहारो न सिध्यति । अपि तु क्रमात् सिध्यतीत्यभि प्रायः । उपसंहरति । इति योजनीयमिति । अयं भावः, उन्मत्तादिव्यवहारः सर्वात्मना न सिध्यत्येव गुरु- शिष्यादिकृतव्यवहारस्तु उक्तरीत्या सिध्यत्येवेति । + सुबो. २५, २०३२ (३) प्रतिज़ादोषा अपि वक्ष्यमाणास्तादृग्व्यवहारा- नादेयत्व एव पर्यवस्यन्ति । Xव्यप्र. ३५ गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ । एतेषां समवेतानां व्यवहारो न सिध्यति ||

  • व्यक.,अप., व्यउ., विता. मितागतम् ।

+ बाल. सुबोगतम् । x वाक्यार्थस्तु मितावत् । (१) विश्व. २।५ (गुरुशिष्यपितापुत्रदम्पत्योः स्वामिभृत्ययोः) सिध्यति (विद्यते); मिता. २ | ३२ (गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः । विरोधेऽपि मिथस्तेषां व्यवहारो न सिध्यति ॥) स्मरणम्; अप. २।६ (गुरोः शिष्यैः पितुः पुत्रैर्दम्पस्योः