पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् ।

  • मिता.

(३) स्मृतिशास्त्र शिष्टाचाररहितेन मागणोपायेन परै- राक्षिप्तः सन् राज्ञे यद्यावेदयति अहमनेन विधिनाऽन्या- येन परिभूतोऽस्मीति यत्तन्निवेदनं व्यवहारपदम् । पदं स्थानं निमित्तमिति यावत् । +अप. (४) न चैवं चौर्यपारुप्यादिविवादोन व्यवहार इति शङ्कनीयम् । यत आह याज्ञवल्क्यः स्मृत्याचारेति । व्यवहारकाण्डम् अनेन वादी परकृतमुपद्रवमावेदवेदित्यर्थादुक्तम् । चेच्छब्दोऽत्रावेदक रुच्यैवावेदनं कार्ये, न तु राजाज्ञ- येति ज्ञापनार्थः । परैरिति बहुवचनमुपलक्षणार्थम् । अत एव कात्यायनेनापराधकर्तृप्रश्नः केनेत्येकवचनान्तेन दर्शितः । आधर्पितग्रहणं विवादेऽधिकारिणोऽभिधानार्थं न तु कर्तुः । ÷स्मृच.१,३१ (५) मिता. टीका - प्रत्यार्थिप्रतिकूलतया नृपादिपु कथनं व्यवहारः । 'आवेदयति चेद्राशे' इत्यत्र राज - शब्दः पूग श्रेण्यादीनामुपलक्षणार्थः । शङ्कारूपोऽभियोगो यस्मिन्विषये तत्वरूपोऽभियोगो यस्मिन् विपये इति विग्रहः । इत्याद्यर्थसिद्धमिति-अविनीतस्या- वेदनमेव न घटते । उद्धतत्वेन राशः परिसर- मेव गन्तुमशक्यत्वात् । आवेदनानन्तरं च युक्तत्वे प्रत्यर्थिनोऽनाह्वाने आवेदन मेव निष्प्रयोजन मिति नको - प्यावेदयेत् । तथा च प्रजापरिपालनमेव न सिध्यतीत्या- दिभिर्हेतुभिः पूर्वोक्तानां धर्माणामर्थसिद्धत्वमूह्यम् । सुबो (६) स्मृतिसदाचारबहिर्भूतेन वर्त्मना परैरर्थतः शरी- रतो वा यद्राजानं निवेदयति तद्व्यवहारस्थानम् । दीक. (७) हिशब्देन आवेदितस्याऽवश्यविचार्यत्वमभिप्रैति । xवीमि. वादे प्रातिभाव्यानधिकारिणः भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् | ॥

  • व्यमा., विता. मितागतम् । + मितागतम् ।

÷ सवि. स्मृचवत् । = व्यवहारतत्वं सुबोधिन्यादिग्रन्थेषु गतार्थम् । सेती च व्यवहारतत्वमेवोध्दृतम् । बाल. सुबोगतम् । x शेषं मितागतम् । ! + व्याख्यासंग्रह : स्थलादिनिर्देशश्च ऋणादानप्रकरणे द्रष्टव्यः । वादप्रतिभूविधिः उ॒भयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये । प्रतिभुवस्त्वभावे तु राजा संरक्षिता तयोः ॥ (१) सर्वविवादेषु च यदा न सद्य एवं निर्णयः स्यात्, तत उभयोरपि कार्यिणोः प्रतिभूः कार्यनिर्णय क्षमो ग्राह्यः । विश्व. २।१० (२) अर्थप्रत्यर्थिनोर्विधिमुक्त्वा ससम्यस्य सभापतेः कर्तव्यमाह - उभयोरिति । उभयोः अर्थिप्रत्यर्थिनोः । सर्वेषु विवादेषु निर्णयस्य कार्य कार्यनिर्णयः । आहिता- ग्न्यादिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयस्य कार्य च साधितधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्ये तद्भवतीति प्रतिभूर्ग्राह्यः ससभ्येन सभापतिना | तस्यासंभवेऽर्थिप्रत्यर्थिनो रक्षणे । पुरुषा नियोक्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायन: -'अथ चेत्प्रतिभूर्नास्ति कार्ययोगस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्यान्न त्याय वेतनम्' इति ॥

  • मिता.

(३) न्यायार्थमुपस्थितयोश्च प्रतिसूर्यायः । विनेयत्वा- दर्थिनोऽपि मन्दपक्षस्य पलायनसंभवात् । तदाह याज्ञ- वल्क्यः उभयोरिति । ÷व्यमा. २८८ (४) साधितधनदण्डधनयोरनायासेन प्राप्तिः कार्य- निर्णयः । + स्मृचं. ३५ (५) कार्यनिर्णये कार्यनिर्णयपर्यन्तम् । दीक. (६) कार्यनिर्णये समर्थः दशचन्धदानयोग्यः । व्यनि. (७) निर्णयस्य कार्ये समर्थः । यद्वा कार्ये कर्तव्ये निर्णये प्रतिभूग्रह्यः । पाठिकक्रमेण प्रकृतनिर्णयानन्तरं

  • अप., व्यत., विता. मितागतम् । व्यचि.व्यमागतम् ।

+ शेषं मितागतम् । सत्रि स्मृचगतम् । (१) यास्मृ. २०१० उत्तरार्धस्तु मूलस्मृतौ नोपलभ्यते; अपु. २५३४० पृ.) शुनी. ४१६२३ पू.; विश्व. २२०; मिता.) व्यमा. २८८; अप.; व्यक.२४ पृ. स्मृच.३४ पू., पमा.५७ पू.; व्यचि.१० पू.; व्यनि.पू.; दवि. १३; नृप्र. ७पू.; व्यत. २०२ तु राजा संरक्षिता (च राज्ञा संशपनं); सवि. ८२ पू.; चन्द्र. १०६ पू.; व्यसौ. ८, १८ पू.; वामि.; व्यप्र ४३,२४८ पू.; व्यउ. २७ पू.; व्यम. ९.पू.; विता. ७३,९४ पू.; सेतु. ९७ राजा संरक्षिता (न संशा संज्ञपन); विव्य.४ राजा संरक्षिता (संशा संज्ञपनं); प्रका. २१ पू.; समु. १६ पू..