दर्शनोपक्रमः अर्थेति । अप. २१६ (४) अर्थः प्रयोजनं यस्य तस्यार्थित्वम्, अनर्थाल्लाभो यस्य तस्य प्रत्यर्थित्वम् । मात्राधिको नात्रेति बुध्वा (१) धार्मिकस्य कार्य प्रथमं द्रष्टव्यम् । अधर्मो धार्माभाव मात्रम् । केवलौ असंकीर्णो वर्णक्रमेणेति च ब्राह्मणस्य त्यादि, एतदभावे धार्मिकत्वेन मवि व्यवस्था, तस्याप्यभावेऽऽर्थत्वेन । (५) प्रजारक्षणोच्छेदाद्यात्मकावैहिकावर्थानर्थौ बुध्वा । ममु. (६) ब्राह्मणादीनां युगपद्धर्माधिकरणं प्राप्तानां वर्णा- नुक्रमेण ब्राह्मणस्यादौ ततः क्षत्रियस्येत्येवमादिक्रमेण चतुष्पाद्व्यवहारः प्रवर्तनीयो राज्ञा । पीडाधिक्यकार्यगौरवे चेदर्थिप्रत्यर्थिनोरन्यतरस्य तदा न पूर्वावेदनक्रमो नाऽपि वर्णक्रमः । यदा तु सर्वे सवर्णास्तदा आवेदनक्रमः | युगपदावेदने समानवर्णत्वे समानपीडत्वे च ससभ्य- सभापतीच्छयेति निर्गलितोऽर्थः । +व्यप्र. २५-२६ (७) वर्णक्रमेण प्रथमं ब्राह्मणानां कार्य पश्येत् । तेष्व प्यर्थानर्थौ प्रथमं सौम्ये (?) धर्माधर्मो केवलौ कृत्स्नौ । ब्राह्मणकार्यदर्शनानन्तरं क्षत्रियादीनां कार्याणि क्रमेण पश्येत् । (८) केवलौ अर्थादिहीनौ नन्द भाच. । याज्ञवल्क्यः स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ (१) अथ किं राज्ञा स्वपुरुषैर्वान्विष्य कार्यिणो व्यवहारयितव्याः । न । प्रतिषेधात् । यथा मनुः -'नोत्पा ऋशेषं गोरागतम् । मच. ममुगतम् | + व्यउ. व्यप्रवत् । Xअत्रत्यं व्यवहारप्रकाशव्याख्यानं व्यवहारलक्षणे (पृ. ७)द्रष्टव्यम्। (१) यास्मृ. २१५; अपु. २५३१३४-३५ चे (य); शुनी. ४/५६३-५६४; विश्व.२।५; मिता.) व्यमा. २८५ शे (शि); अप.; व्यक.१९; स्मृच. १ : ३१; पमा. ५२; सुबो. २।४१; स्मृसा.८३ चेद्रा (यद्रा) ; व्यचि. ८ स्मृसावत; व्यनि. ; स्मृचि. २; नृप्र. ३, ५१ व्यत. १९७व्यमावत्, चेदित्यत्र यदिति मैथिलाः; सवि. ७५; व्यसौ. १३; वीमि यदिति पाठस्तु मिश्रादिसंभतः; ब्यप्र. ३, ३५, २२४; व्यउ.१ स्नुसावत्; ब्यम.१; विता. ३१; राकौ. ३८४ व्यपे ( ध्यये); सेतु. ९३ न्यमावत; प्रका.२; समु. ३,१४. १११ दयेत्स्वयं काय राजा नाध्यस्य पूरुषः' इति । कथं तर्हि व्यवहारप्रवृत्तिः ? उच्यते स्मॄत्याचारेति । तदेव हि व्यवहारपदं यत् स्मृत्याचारव्यपेतेन बाह्येन मागणासंबद्धैः खलीकृत्य इत्येवं कश्चित् कथयेत् । न तु स्वयं कार्यारम्भक इत्यभिप्रायः । तथा च नारदः 'स्वनिश्चितबलाधान- ! स्त्वर्थी स्वार्थप्रचोदितः । लेखयेत् पूर्ववादं तु कृतकार्यवि निश्चयः' इति ॥ स्मृत्युक्तः आचारः स्मृत्याचारः। कुलधर्मा- द्यभिप्रायं वैतत् । परैरिति गुरुशिष्यवादनिवृत्यर्थम् । तथा च नारदः – गुरुशिष्यपितापुत्रदम्पत्योः स्वामिभृत्ययोः । एतेषां समवेतानां व्यवहारो न विद्यते ॥ एकस्य बहुभिः साध स्त्रीणां प्रेष्यकरैस्तथा' इत्यादि । कात्यायनश्च- 'यश्च राष्ट्रविरुद्धश्च यश्च राज्ञा विवर्जितः । अनेकपद- संकीर्ण: पूर्वपक्षो न सिध्यति' इत्यादि || व्यवहारः पदनीयो निरूपणीयतयेत्यर्थः । विश्व. २।५ (२) धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैराध- र्पितोऽभिभूतो यद्राज्ञे प्राचिवाकाय वा आवेदयति विज्ञा- पयति चेद्यदि, तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशय- हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारः तस्य पदं विषयस्तस्य चेदं सामान्यलक्षणम् । स च द्विविधः शङ्काभियोगस्तत्वाभियोगश्चेति । स पुनश्श्राष्टादशधा भिद्यते । यह मनुः (८१४७) 'तेपामाद्यमुणादानम्' इत्यादि श्लोकचतुष्टयेन । एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि | यथाह नारद: - 'एपामेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रिया- भेदान्मनुष्याणां शतशाखो निगद्यते' इति ॥ 'आवे दयति चेद्राज्ञे' इत्यनेन स्वयमेवागत्यावेदयति, न राज- प्रेरितस्तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः- 'नोत्पादयेत्स्वयं कार्य राजा वाऽप्यस्य पूरुषः । न च प्रापितमन्येन ग्रसेतार्थ कथञ्चन' इति ॥ परैरिति परेण पराभ्यां परैरित्येकस्य एकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति । यत्पुन: - 'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनावेयो भवेद्वादो धर्मविद्भि- रुदाहृतः ॥ इति नारदवचनं तद्भिन्नसाध्यद्वयविषयम् । ‘आवेदयति चेद्राज्ञे' इत्यनेनैव राज्ञा पृष्टो विनीत वेप आवेदयेत् । आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्या- ह्वानमकल्यादीनां चानाह्वानमित्याद्यर्थसिद्धमिति नोक्तम् ।
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८९
दिखावट