पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० कार्य राजा साक्षादुपलभ्याप्येपकारिणं न स्वयं किञ्चिद् ब्रूयात् येस्यापराधी तेन यावयवहारेण नाकृष्टः । येन व्यवहारदर्शनमेव पराजितस्य निग्रहाय भवति न राजा । एतच्च ॠगादानादिष्वेव द्रष्टव्यम् | ये तु स्तेनसाह सिकादयः कण्टकस्थानीयास्तान् राजा स्वयमेवावगम्य गृह्णीयात् । शेषं समानम् । नाप्यस्य पुरुष इति । अस्य राशः, पुरुषोऽधिकारी मनुष्यः । मेधा. व्यवहारकाण्डम् (३) एवं धनप्रसङ्गेन प्रसक्तानुप्रसक्तिकयाभिधायांधुना प्रकृतमाह-नोत्पादयेदिति । यद्यपि पश्येत्कार्याणि कार्यि- णामित्युक्तं भवति, तथापि तदाक्षेपान्तरेण ऋणादाना- दिषु राजकर्तव्य साहसाधिरक्षणवर्जितेषु राजा स्वयमुप जापेन व्यवहारान्नोत्पादयेत् । नापि राजाधिकृतः स्वय मुत्पादयेत् तथा प्रत्यर्थिनामपि तदा वेदितव्यं कार्यार्थं केनापि प्रकारेण रागद्वेषादिना नोपेक्षेत | *गोरा. (४) कार्य व्यवहारो विवाद इति यावत् । व्यव- हारकाले च प्रापितं प्रामाणिकमर्थ न ग्रसेत नापलाप येत् । अप. २१५ (५) नोत्पादयेदिति । एतच्च ऋणादानादौ न तु साहसादावपि तत्र स्वयमप्यन्वेष्यत्वात् । प्रापितमन्येनेति स्वयमृणादि दत्तं ऋणिनाउदीयमानं राज्ञे यदा निवेद्येत तदा न ग्रसेन्नोपेक्षेत । न वा प्रापितमित्यपरः पाठः । अन्येनान्यतरेण अप्रापितं न ग्रसेत् ग्रासयेदन्यतरस्मै दापयेत् । मवि. (६) अविवादिनां नराणामिति शेषः । तथा च नारद:- :– 'न तु राजा वशित्वेन धनलोभेन वा पुनः । उत्पादयेत्तु कार्याणि नराणामविवादिनाम्' ॥ कार्याणि विवादानित्यर्थः । तथा च प्रजाभ्य एवोत्पन्नमपि कार्य कार्यिणा तत्संबन्धिना वा अनिवेदितं कथञ्चिदवगम्य न ग्राह्यमित्याह मनुः - न चाप्रापितमिति । अप्रापितं अनावेदितम् । कथञ्चन रागादिनेत्यर्थः । स्मृच.२७ (७) मिता. टीका— न च प्रापितमन्येनेति । अन्याये नान्येन प्रापितं न गृह्णीयात् । अथवा, अन्येन प्रापितं निवेदितं कार्यं न ग्रसेत् नोपेक्षेत । 'न वा प्रापित मन्येन' इत्यपि पाठः । तत्रायमर्थः - अन्येन विवदमानेन -

  • ममु., नन्द, भाच. गोरागतम् ।

१ स्य कार्यकारिणं. २ तस्य पराधीनेन. ३ करणदा. तत्संबन्धिना वा अप्रापितमनिवेदितं कथञ्चिदवगम्य रागादिना न ग्रसेत् न ग्राहयेदिति ।

  • सुबो.२।५

(८)अन्येनोत्कोचादिना स्वयं वा ग्रसेत् प्राप्तं दत्तं वा गृह्णीयात् । अर्थ ग्रसित्वा कार्यार्थिनां कार्य नोपे- क्षेतेति । व्यवहारादन्येन प्रापितं वा न गृह्णीयात् राज्ञो यत्नात्प्राप्तनिध्यादेर्व्यवस्थोक्तेः । मच. (९) अन्येन असंबद्धेन । अर्थ कार्यम् | ग्रसेत् स्ववशं कुर्यात् । व्यप्र. ३६ अनेककार्ययोगपचे कार्यदर्शनक्रमः अर्थाऽनर्थावुभौ बुध्वा धर्माऽधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ (१) धर्माधर्मावेव फेवलावर्थानथ न गोहिरण्यादि- लाभोऽर्थस्तद्विपर्ययो वाऽनर्थः । किं तर्हि धर्म एवार्थोऽ नर्थश्चाधर्म इति बुद्ध्वा हृदि निश्चित्य कार्याणि पश्येत् । अथवाऽर्थानर्थावपि बोद्धव्यौ धर्माधर्मावपि । धर्मस्य सारता बोद्धव्याऽर्थस्य फल्गुता । अथवा यत्र महाननर्थ: स्वल्पश्चाधर्मस्तत्रानर्थ परिहरेत् । शक्यो हि महताs- धंनेषदधर्मो दानप्रायश्चित्तादिना निराकर्तुम् । संनिपाते च व्यवहारिणां बहूनां वर्णक्रम आश्रयितव्यः । एष च दर्शने क्रमो वर्णानां यदाऽर्थे तुल्यपीडा भवति । यदा त्ववरवर्णस्याप्यात्ययिकं कार्य महद्वा तदा 'यस्य चात्य- यिका पीडा' इत्यनेन न्यायेन तदेव प्रथमं पश्येत् क्रममाद्रियेत । राजस्थित्यर्थो हि व्यवहारनिर्णय इत्युक्त- मतो न यथाश्रुतमाश्रयणीयम् । मेधा. (२) प्रकृतिसंप्रसादकोपात्मकान् तथाविधान् लोक- गतानालोच्य, परलोकार्थं च धर्माधर्मावेव केवलमालोक्य यथा धर्महानिः अधर्मानर्थोत्पादश्च न भवति तथा सर्वान् व्यवहारान्पश्येत् । संनिपाते च वर्णानां ब्राह्मणा- दिक्रमेण पश्येत् । गोरा. (३) यत्रानेकानि वादिप्रतिवादियुग्मानि युगपदुप- स्थितानि स्युस्तत्र व्यवहारदर्शने क्रमनियममाह -

  • बाल. (२।५) सुबोगतम् ।

(१) मस्मृ. ८ | २४; व्यमा. २९०; अप. २।६; व्यक. २४; स्मृच. ३५; पमा.६०; व्यनि.; स्मृचि. २; सवि. .८४ वर्ण- क्रमेण (वर्णाश्रमौ च); व्यसौ. १९; ब्यप्र. ४५; व्यउ. ३२; प्रका. २१; समु. १६; विग्य.४ उत्त