पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौतमः आसेघविचार: दर्शनोपक्रमः भज फैलासेधः कौत्तिकवत् * । विष्णु: ओसिद्धमनासिद्धमेव । अयमभिसन्धिः - अत्राक्रोशाभावविशिष्टा एव लिखि तादयः प्रमाणपदवीमवगाहन्ते, नान्यथा अत एवाह विष्णुः - आसिद्धमिति । एतद्व्याचष्टे भारुचिः - आसिद्धं सर्व लिखितभुक्तिप्रभृति, अनासिद्धं आसमन्तात्सिद्धं न भवति, कदापि न भवतीत्यर्थः । यत्तु नारदेनोक्तम्- 'वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम्' इति ॥ एतद्याख्यात कण-संदिग्धार्थनिर्णय उदासीनं तन्निर्णयाय प्रवर्तितव्यमित्यादि चार्थिनो वचन- मवमन्यमानं प्रत्यर्थिनं स्वयं चार्थी आसेधयेत् । राजाज्ञया व्यवहारदर्शनपर्यन्तं निरोधयेत् इति स्वरूपा सेधनमुक्तम् । तत्तु प्रत्यर्थिगृहीत प्रत्यर्पणीयद्रव्यद्वारा स एवासेध्यत इति स्वरूपासेधमात्रपरं वेदितव्यम् । भारु चिस्तु - 'वक्तव्येऽर्थे न तिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी वादी तत्प्रतिवादिनम्' || सिपाधयि पितार्थविषये आसेधयेत् - तद्गृहीतं स्वं सिपाधयिपि तार्थ राजाज्ञयाऽवरोधयेत् । तदभावे तद्ग्रहीतारं तन्ना- शकं वाऽवरोधयेत् । इति मुख्यवृत्त्या द्रव्यासेधपरमिदं वचन मित्याह ।' अतो भारुचिव्याख्यानमेव सम्यक् । विष्णुवचनानुरोधित्वात् । नन्वेवमयुक्तं विष्णुवचनानु रोधाभावात् । तथा च विष्णुः- आसेद्धुः फलमेवासेध्यः । इति । मैवम्, भवता वैष्णववचनतात्पर्याऽपरिज्ञानात् । तत्तात्पर्य तु लिखितासेधात्फलासेधनं बलवत् । सर्वेषां

  • व्याख्यानं अनुपदंभव विष्णुव्याख्याने द्रष्टव्यम् ।

(१) सवि.१६१. गौतमधर्मसूत्रे नोपलभ्यते. (२) सवि. १६०. (३) सवि. १६१. फलार्थमेव प्रवृत्तेः । फलासेधाकरणे तस्पूर्षकृताः लिखि- ताद्यासेधाः अप्रयोजका: एवेति तत्प्रावस्यज्ञापनार्थत्वा- तद्वचनस्य इति । तथा च गौतमसूत्रम् – 'फलासेधः कौत्तिंकवत्' इति । तस्यार्थी विवृतो निबन्धकारेण - अत्र द्वितीयार्थे वतिः, कौत्तिकः कुत्ताजीविकः, यथा आसेधविषयः । एवं सर्वत्र फलमेवासेधविषय इति । यथा कौत्तिकः कुत्ताकारेण गृहीतपारिभाषिकार्थातिरि क्तोपचितद्रव्यस्वीकारदशायामासेध्यः । एवं सर्वेषु व्यवहारेषु फलस्वीकारदशायामासेधः कर्तव्य इति । फलस्वीकारदशायां फलमेवासेध्यं न स्वरूपमिति तात्पर्यम् | कौत्तिकग्रहणं तु कुत्ताविपये इतरव्यवहार- वत् पूर्वकालासेधाः न सन्ति, किन्तु कुत्तायां फलमेवा- सेधविषय इति तावन्मात्रविशेषशापनार्थमित्यवगन्तव्यम् । नन्वासेधो नाम फलस्यावरोधः । मध्यस्थजनगोचरे विवादास्पदीभूतद्रव्यनिधापन मिति यावत् । फलानुत्पत्तौ तत्स्वीकारोद्योगोपरोधः । फलनाशकरणोद्योगे स्वरूपा सेधो राजाज्ञया निरोधनम् आसेधः । आक्रोशस्तु तादृशो न भवति । किन्तु फलं न भोक्तव्यम् । पत्रं न लेखनीयम् । साक्षिभिर्न भवितव्यम् । मया सार्धं न्याय- निर्णयायागन्तव्यम् । अन्यथा राजाज्ञामुलङ्घितवानि- त्याद्याकारकवाग्व्यापाररूपो न कायिकव्यवहाररूपः । अतश्वासेवादाक्रोशो दुर्बल एव । तत आसेध एव व्यवहारबीजं नाक्रोश इति चेत्, मैवम्, आक्रोशा सेधयोः विषयभेदो न स्वरूपभेदः । दुर्बलेनार्थिना कृतो- परोध आक्रोशपदाभिलप्यः । बलवता तु कृत आसेध- पदाभिधेय इति । तथा च विष्णुः-- दुर्बल प्रबलकृतावाक्रोशासेधौ । इति । अयमर्थ:-- 'दुर्बलस्य बलं राजा' इति राजपुरु- पैर्दुर्बलेनापि कारित आसेध आक्रोशमूलोऽपि प्रबलकृत- त्वादासेध एवेति । दुर्बलेनैवाक्रोश इति लक्षणं सुषु, परन्तु आसेधादाक्रोशस्येयान्विशेषः -- आक्रोशः काला- (१) सवि. १६२.