पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् न्तरे धर्मनिर्णयानन्तरं फलगतमपि स्वत्वमाकर्षयति । आसेधस्त्वासेघसमय एवं फलमप्युवरुणद्धीति । अत्राहुः -- वलवता आसेध एव कर्तव्यो नाक्रोश इति भारु च्यादयः । अत्राक्रोशकर्तुः निरूपणं स्फुटत्वान्न कृतं अतश्वासेधसद्भावे तु तदभावविशिष्टत्वरूपधर्मापमर्दन- द्वारा विशिष्टं कृत्स्नं प्रमाणमुपभृगात्याक्रोश इति । स्थलेऽप्युपाधिनिवृत्तौ स्वत्वस्य दृढत्वात् । तथा हि- क्षेत्रादेतस्मादे तावद्धनमस्मभ्यं दीयतां अवशिष्टं गृह्यताम् । यद्वा एतावद्रव्यं गृहीत्वा तद्दणं संशोध्यताम्, अवशिष्टं गृह्यतां इति परिभाषायामवशिष्टद्रव्ये स्वत्वनिवृत्तिः पर- स्वत्वापत्तिपर्यन्ता भवत्येवेति दृश्यते । अथवा भारुचि- मतावलम्बनेन कुत्ताकारकारितापरिभाषावष्टम्भितमान- सिकदानान्ततया स्वत्वापादकत्वं परिभाषायाः समस्ति । ननु संकल्पमात्रात् स्वत्वं नोपद्यते किन्तु संकल्पात् स्वत्वमपैति । स्वत्वोत्पत्तिस्त्वार्जना देवेति धनार्जननय सिद्धत्वात्तयाकोपो मानसिकदानान्ततया परिभाषायाः | स्वत्वहेतुत्वोक्तावितिचेत्, मैवं, यदि धनार्जन नयः कुत्ताकागकारितपरिभापितार्थस्यापरिगणनादा गमप्रकार निरूपणाशक्तौ कुत्तालेखस्य तदारुढसाक्षिणां च दौत्यं प्राप्तम् । ननु लिखितादीनां प्रामाण्यमागमनिरूपणद्वारा, आ- गमाभावे तत्प्रामाण्यं प्रशिथिलमूलतया दृढं न भवति आगमास्तु केपाञ्चिन्मते सप्त । तथा च स्मृतिः -- 'सप्त वित्तागमा धर्म्याः' इति । गौतमादीनां मते तु 'रिक्थ- क्रमसंविभागपरिग्रहाधिगमप्रतिग्रह निर्देशादयोऽय वित्ता गमा' इति । भारद्वाजमते तु परिवृत्तेरपि वित्तागमरूप- स्वत्वापायहेतुमान सिक क्रियैवेति स्यात्तदाऽयं दोषः प्रादुः- तया निगदितत्वात्तया सार्धं नव वित्तागमाः । एतेषां | यात्, न च तथा स्वत्वापायहेतुः क्वचित्संकल्पः मध्ये कचिन्महापातकादिरित्युक्तम् । अतश्च तस्याप्यधिकर णस्य लौकिकव्यवहारानुरोधितया स्वत्वस्यापि लौकिक- लाच्च । यथा लोके दृष्टं तथा स्वीकर्तव्यम् । कुत्तादि- व्यवहारे मानसिकी क्रियेच स्वत्वहेतुरिति संमतं लौकि- कानाम् । तथा च दृश्यते बहुशो बहवः कायस्थाः क्षेत्रादिकं देशग्रामादिकं वा कुत्ताकारेण गृहन्तः पाक्षि कापचयभारसहिष्णवो दृश्यन्ते । तत्र ग्रामादिक्षेत्रादिदेशा युपचितपारिभाषिकद्रव्ये तेषां व्यवहाराणां स्वाम्यं विद्यत एव । स चागम साधीयानेव | ननु कुत्ताकारेण गृही तद्रव्ये उपचयो विद्यते चेत्तमुपचयं कुत्ताप्रदातार उत्तम पदाभिलप्याः स्वीकुर्वन्ति परिदृश्यन्ते च, मैवं, यदि कौत्तिकस्त्वपचयभारसहिष्णुर्न भवेत्तदाऽप्युत्तमस्याप्यु पचयापायसहिष्णुत्वं न स्यात् । कौत्तिकत्वप्रसिद्धि- र्याम ( दुग्ध) बरुद्धभोगप्रदानान्यथाकरणमूला । अत एवोक्तं विष्णुना -- 'कौत्तिकोऽपचयभारसहिष्णुरुत्तमस्तूपचया- i ‘अनागमेन यो भुङ्क्ते बहून्यब्दशतान्यपि । चोर दण्डेन तं पापं दण्डयेत्पृथिवीपतिः' इति स्मृतेः । आगमशून्याया भुक्तः प्रमाणकोटिनिवेशाभावः प्रती- यते । यत्तु भोगागमयोः साम्यं बृहस्पतिवचनात्प्रतीयते: तत्तु केवलभुक्तः दौर्बल्यज्ञापनपरतया न विरुद्धम् | लथा च बृहस्पतिः ‘भुक्त्या केवलया नैव भूमिसिद्धि मत्राप्नुयात् । आगमेनापि शुद्धेन द्वाभ्यां सिद्धिमवाप्नु यात्' || तथा च व्यास: - 'सागमो दीर्घकालश्राऽविच्छे दोऽपरवोज्झितः । प्रत्यर्थिसन्निधानं च पञ्चाङ्गो भोग इष्यते' इति । अत्र 'पञ्चाङ्गो भोग इष्यते' इति वदन्ने काङ्गवैकल्येऽप्यप्रामाण्यं भोगस्येति दर्शयतीत्युक्तं प्राकू, अतश्रागमनिरूपणे तदभावप्रतीतेः मूलशुद्धयभावात् तद्गमकप्रमाणदाढर्याभाव इति । अत्रोच्यते कचिप- रिभाषाऽपि वित्तागम एव, यथा- 'आधिः प्रणश्येद्विगुणे धने यदि न मोक्ष्यते' । इत्यत्र धनद्वैगुण्य निबन्धन- परिभाषा वित्तागममध्येऽपरिगणिताऽपि सोपाधिकं स्वत्वमवगमयतीति विज्ञानेश्वरः । चन्द्रिकाकारस्तु -- धनद्वैगुण्यपरिभाषा परिवृत्तिरूपेण तिलव्रीहिविनिमयवत स्वत्वापादिकेत्याह । विज्ञानेश्वरमतावलम्बनेन परिभाषाया वाचिकदानान्तर्गततया स्वत्वापादकत्वमस्ति । औपाधिक 1 (१) सत्रि. १६५. पायसहिष्णुः । इति । अत्र भारुचिः -- कुत्तोपजीवी कौत्तिकः । कुत्ता प्रदातोत्तमः | कुत्तानाम गृहक्षेत्रारामग्रामदेशादिपदार्थ- समृद्धफलप्राप्त्यर्थ यस्मै कस्मैचिद् व्यवहारिणे तद्गृहा- दिपदार्थजातसन्दानमिति | सन्दानं नाम- सम्यग्दानं न भवति, औपाधिकदानरूपत्वात् कुत्तायाः । अपि तु