१०० ॥ राजाज्ञा, स द्वितीयो राजाज्ञारूपो निर्णय इत्यर्थः । ननु शास्त्राणां सभ्यानां च विरोध एवासंभवी स्मृत्यपेताधि- कारिणां सभ्यानां दण्ड्यत्वात् । न च शास्त्राणां पर- स्परविरोधे सभ्यानां चेत्यर्थ इति वाच्यम् । सभ्यविरोधो पन्यासानर्थक्यात् । शास्त्रविरोधे न्यायोपलब्धशास्त्रा- नुसारेण निर्णयः कार्य इत्यस्यार्थस्य–'स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः ॥ केवलं शास्त्रमाश्रित्य न कर्तव्यो हि निर्णयः | युक्तिहीनविचारे हि धर्महानिः प्रजायते' ॥ ‘न्यायाधिगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथा- स्थानं गमयेत्' इत्यादियोगीश्वरनारदबृहस्पतिगौतमादि- यचोभिर्निर्धारितत्वात् । तादृशि विषये राजाज्ञाऽनवस- रात् । अनीदृशराजाज्ञाया निपिद्धत्वाचेति चेत् उच्यते । यत्र शास्त्रविरोधे बलवान् न्यायोऽन्यतरार्थविनिगमकः ससभ्यप्राडूविवाकस्य सभापतेर्न हृदयमारोहति चिरतरं मीमांसितोऽपि तादृशशास्त्रविरोधे तन्मूलके चासमाधेये सभ्यविरोधे राजकृतव्यवस्था वादिप्रतिवादिभ्यां मन्तव्ये- त्येतदर्थकमिदं वचनम् । अतः पितामहवचनं प्रालि खितम् – 'निश्चेतुं ये न शक्याः स्युः' इत्यादि । व्यप्र.८८ केवलं शास्त्रमाश्रित्य क्रियते यत्र निर्णयः | व्यवहारः स विज्ञेयो धर्मस्तेनावहीयते ॥ (१) धर्मो धर्माख्यो निर्णयः । तेन व्यवहाराख्येन निर्णयेनावहीयते, तेन व्यवहाराख्येन वाध्यते इत्यर्थः । व्यचि.९५ व्यवहारकाण्डम् (२) शास्त्रशब्देन शास्त्रोक्तं साक्ष्यादिप्रमाणम् | तेन यो निर्णयः क्रियते स व्यवहारः । तेन धर्मः शपथादि- कृतो निर्णयोऽवहीयते बाध्यते । मानुपप्रमाणे सति दिव्यानवसरात् । व्यप्र.८८ देशस्थित्यानुमानेन नैगमानुमतेन च । (१) व्यक. १०० केवलं शास्त्र (शास्त्र केवल); स्मृच. ११ केवलं शास्त्र (शास्त्रं केवल) नाव (नाप) : १२१ नाव (नापि); पमा. १८ केवलं शास्त्र (शास्त्रं केवल ) वहीय (पि वर्ध) : २०३ नाव (नापि); व्यचि. ९५ उत्त; नृप्र. ३ स्मृचवत् : १७ नाव (नाप); चन्द्र.१६६ व्यकवत्; व्यसौ. ९१ व्यकवत्; व्यप्र.८८ व्यकवत्; विता.८ १ केवलं शास्त्र (साक्ष्यं लिखित) स्तेनावहीयते ( जस्तेन वाध्यते); प्रका. ४ नाव ( नापि ); समु.४ प्रकावत्. (२) व्यक. १००; स्मृच. १२; पमा. १८; व्यचि.९५; क्रियते निर्णयस्तत्र व्यवहारस्तु बाध्यते || (१) नैगमाः पौरवणिजः, नैगमानुमतेनानुमानेमेति संबन्धः । अनेन चरित्राख्येन निर्णयेन सामान्यशास्त्रा नुसारी व्यवहाराख्यो निर्णयो बाध्यत इत्यर्थः । व्यचि. ९५ (२) वाशब्दो देशस्थित्यपेक्षः । *व्यप्र.८९ विहाय चरिताचारं यत्र कुर्यात्पुनर्नृपः । निर्णयं सा तु राजाज्ञा चरित्रं बाध्यते तया ॥ चरिताचारं पूर्वपूर्वाचरितमाचारम् । यद्यपि, 'तं धर्मे न विचालयेत्' इत्युक्तं अत्र तु 'विहाय चरि- ताचारं' इत्युच्यते, तेन विरोधः प्रतिभाति । तथापि, यदि तद्विचालने पुरराष्ट्रादिक्षोभो न भवति तदा स्मृत्यादिविरुद्धत्वात्तं दूरीकृत्य स्मृत्याग्र विरुद्धो राजा- जया निर्णयः कार्य इति तात्पर्यम् । अत एव पुरराष्ट्र- विरुद्धस्य विवादस्यानादेयत्वमुक्तं पुरराष्ट्रक्षोभापादक- तया, तदनापादकतया तु स्मृत्याद्यनुरोध एव कार्यों राज्ञेति । व्यप्र. ८९ कीनाशाः कारुकाः शिल्पिकुसीदिश्रेणिनर्तकाः। लिङ्गिन: तस्कराः कुर्युः स्वेन धर्मेण निर्णयम् || (१) येषां तु समयादेव बहुशो व्यवस्था तेषां समयसै- रेव व्यवहारस्य निर्णयः कर्तव्यः । यथा बृहस्पतिः- कीनाशा इति । कीनाशाः कृषीवलाः । कारुकः शिल्पी, उपलक्षणमेतत् अन्योऽपि तद्व्यवहारज्ञो निर्णेता । तदभिज्ञत्वस्य हेतोरविशेषात् । व्यमा. २८१ (२) शिल्पिनः चित्रकाराद्याः । व्यक. १३ (३) स्वसमयसिद्धेन धर्मेण हेतुनेत्यर्थः । व्यनि. (४) कारुकाः वर्धक्यादयः । कुसीदिनो वार्धुषिकाः ।
- शेषं व्यचिवत् ।
व्यसौ. ९१; व्यप्र. ८९ च (वा); विता.८१ त्यानु (त्यनु ) स्तत्र (स्तन); प्रका. ४; समु. ४. (१) व्यक. १००; स्मृच. १२ र्णयं (र्गुणं); पमा. १८; स्मृचि. ५८; चन्द्र. १६७ रित्रं (रितं); व्यसौ. ९१; व्यप्र. ८९; विता. ८२ सा (स) ; प्रका.४; समु.४. (२) शुनी ४/५१९ ; व्यमा. २८१ शिल्पिकुसीदि (मला: कुसीद) कुर्युः (चैव) यम् (यः); व्यक. १३ ; व्यनि. (कीनाशः कारुकः शिल्पी कुसीदश्रेणिनर्तका: ) ; व्यसौ. ९; ग्यप्र. २३; व्यउ. १४ सीदि (सीद); विता. २५; प्रका. १० कीनाशा: कारुका : शिल्पि (कीनाश: कारुक: शिल्पी); समु. ११ प्रकावत्.