पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः व्यप्र.८७ क्रियाभेदात् मानुषदैविकक्रियाभेदात् । संम्यग्विचार्य कार्य तु युक्त्या संपरिकल्पितम् । परीक्षितं च शपथैः स प्रोक्तो धर्मनिर्णयः ॥ प्रतिवादी प्रपद्येत स आद्यो धर्मनिर्णयः । दिव्यैर्विशोधितः सम्यग् द्वितीयः स उदाहृतः ॥ (१) सह तत्वानुसारेण कृतः प्रथमो धर्माख्यनिर्णयः । विना तत्वानुसरणं सत्योत्तरेण वा दिव्यप्रमाणेन वा कृतो द्वितीय इत्यर्थः । स्मृच. ११ ( २ ) प्रतिवादी प्रपद्यतेत्यस्य काकाचिवदुभयत्र संबन्धः । यत्र प्रतिवादी युक्त्या सम्यग् विचार्य संपरि- कल्पितं निर्धारितं पुनः शपथैः पुत्रशिरःस्पर्शादिभिः परीक्षितं कार्ये प्रपद्येत अङ्गीकुर्यात् स आद्यो धर्म- निर्णयः । दिव्यैर्धटादिभिर्विशोधितः प्रतिवादी यत्र कार्ये प्रपद्येत सद्वितीयो धर्माख्यो निर्णय इत्यर्थः । व्यप्र.८७ प्रमाणनिश्चितो यस्तु व्यवहारः स उच्यते । वाक्छलानुत्तरत्वेन द्वितीयः परिकीर्तितः ॥ (१) प्रमाणमत्र मानुषं विवक्षितम् । दिव्य निश्चितस्य धर्मनिर्णयकोटित्वात् । प्रमाण निश्रितो मानुपप्रमाणनिश्चितः । वाक्ललव्यव हारेण निरुत्तरत्वेन वा भनस्यापि वास्तवो व्यवहारो (१) स्मृच. १० ; व्यचि. ९४ तु (च) स प्रोक्तो धर्म (ज्ञेयो धर्मत्रि); व्यसौ.९० सम्यग्विचार्य कार्यं ( हेतुभिः संविचार्य) प्रोक्तो (ज्ञेयो); व्यप्र.८७ च (तु) प्रोक्तो (ज्ञेयो); विता. ८१ च (तु) प्रोक्तो (आद्यो) उत्त.; प्रका. ४ प्रोक्तो (शेयो); समु. ४ प्रकावत्. ( २ ) व्यक. ९९ स आधो धर्म (यत्र धर्मः स ) विं (र्वा ) स उ (समु); स्मृच. ११ स आथो धर्म (यत्र धर्म: स ) विं (वा॑); पमा. १९८ पूर्वाधं स्मृचवत्, द्वितीयः स उ (निर्णयः समु); नृप्र. १६ स आयो धर्म ( यद्धर्मस्य वि) उत्तरार्धं पमावत्; चन्द्र. १६६ पूर्वार्धे स्मृचवत्, द्वितीय: स ( स द्वितीय); व्यसौ. ९०१ व्यप्र.८७ पूर्वार्ध स्मृचवत्; विता. ८१ स उदाहृतः (धर्मनिर्णयः) उत्त.; प्रका४ स्मृचवत् समु. ४ स्मृचवत्. T (३) व्यक.९९ निश्चि (लिखि); स्मृच. ११ श्चितो (श्चयो): ३८ ; पमा. १९८ ; नृप्र. १६ ; चन्द्र. १६६ माण (माणैर् ) कीर्ति (कल्पि); व्यसौ. ९० णनिश्चि (णैलिंखि); व्यप्र.८७ णनिश्चितो (णैर्निश्चयो); विता.८१ (साक्षिभिलिखिते नाथो व्यवहार उदाहृतः) इति पूर्वार्धम्; प्रका. ४; समु.४. ९९ भवत्येव प्रमाणराहित्येन भोक्तुर्जयस्य शिथिलत्वात् । स्मृच. ११,६८ (२) प्रमाणपदेनात्र साक्षिणो लिखितं च | व्यक्त्य- भिप्रायेण च बहुवचनम् । भुक्तेरनुमानत्वाद्दिव्यस्थ धर्मनिर्णयान्तर्भावात् । वाक्छलानुत्तरत्वेन वाक्छलेना- नुत्तरत्वेन च यो निश्चयो द्वितीयो व्यवहारः स इत्यर्थः । व्यप्र.८७ अनुमानेन निर्णीतं चरित्रमिति कथ्यते । देशस्थित्या द्वितीयं तु शास्त्रविद्भिरुदाहृतम् || (१) अनुमानं उल्काहस्तादि लिङ्गम् । स्मृच. ११ (२) अनुमानेन भुक्तियुक्तिस्वरूपेण यो निर्णयस्तदेकं चरित्रम् । देशस्थित्या यो निर्णयस्तद्वितीयं चरित्रमि- यर्थः व्यप्र.८८ प्रमाणरहितो यस्तु राजाज्ञा निर्णयस्तु सः । शास्त्रसभ्यविरोधे च तथान्यः परिकीर्तितः || यँत्रैवं वेत्ति नृपतिर्निर्णयन्तु बताध्वरम् । सोऽस्मिन् लोके यशः प्राप्य याति शकस्य लोकताम् ॥ (१) प्रमाणरहित इत्यस्यार्थो व्यासेन प्रपञ्चितः - 'लिखितं साक्षिण' इत्यादिभिः । स्मृच. १९ (२) प्रमाणसहिता राजाज्ञा आग्रो निर्णय इत्यन्वयः । शास्त्राणां सभ्यानां च विरोधे परस्परं विप्रतिपत्तो या (१) व्यक.९९ तं (तः) यं तु (यस्तु) हृतम् (हृतः); स्मृच. ११ यं तु (यस्तु) हृतम् (हृतः); पमा. १९८-९९९ चरि (चारि) द्वितीयं तु (तृतीयस्तु) हृतम् (हृतः); नृप्र. १६ द्वितीयं (तृतीय:) तम् (त:); चन्द्र. १६६ तं च (तश्च ) मिति कथ्यते (इति कीर्त्यते) यं तु (यस्तु) तम् (त: ) ; व्यसौ. ९ १; व्यप्र ८ ७ कथ्यते (कीर्तितम्); विता. ८१ अनुमानेन (भुवस्या युक्त्या च); प्रका.४ स्मृचवत् समु.४ स्मृचवत्. (२) व्यक. १०० रहितो यस्तु ( सहिताद्यस्तु); स्मृच. ११ सभ्य (मित्य) च (न); पमा. १९९ रहितो यस्तु (समतायां तु) तु सः (स्मृतः) सभ्य (सभ्या) च तथान्यः (न चतुर्थ:); नृप्र. १६ पमावत्; चन्द्र.१६७ रहितो यस्तु ( सहितायस्तु ) तु सः (स्मृतः) च (न); व्यसौ.९१ चन्द्रवत्; व्यप्र. ८८ पूर्वाधं चन्द्रवत्; विता. ८ १ रहितो यस्तु (युक्तस्त्वाग्रस्तु) तु सः (स्मृतः) भ्यविरोधे (भ्याविरोधी); प्रका. ४ तु सः (स्मृतः) शेषं स्मृचवत् समु. ४ स्मृचवत्. (३) व्यक. १००.