पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः तैलवद् दृश्यते व्योम खद्योतो हव्यवाडिव । न तलं विद्यते व्योन्नि न खद्योते हुताशनः || तैस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम् । परीक्ष्य ज्ञापयन्नर्थान्न धर्मात्परिहीयते ।। (१) अत्र यथा आकाशो भूतलवद् दृश्यते । परं दृश्यमानोऽपि तत्र भूतलं नास्ति । यथा च खद्योते वह्निस्फुलिङ्गसदृशेऽपि दृश्यमाने तत्र वह्निर्नास्ति । तथा क्वचित्पुरुषवचनेऽपि सत्याभासे दृश्यमानेऽपि सत्यं न भवति । तस्मात्प्रत्यक्षदृष्टोऽप्यर्थस्तात्पर्यतः परीक्षितुं युक्तः, यत एव दृश्यन्ते विविधा भावास्तत एव परीक्ष्य ज्ञापयत्न- र्थान् धर्मात् न परिहीयते । अभा. १९ (२) दुष्परीक्षत्वान्न्यायस्थ पुनः परीक्षणे हेतु- रुच्यते । तस्मादित्यन्ते निगमनात् पूर्वी हेतुरिति गम्यते । असत्याः पापाः । सत्यसंकाशा: प्रच्छन्नपापाः साधुवद् दृश्यन्ते । अनेकप्रकारा भावाः । भवन्तीति भावाः प्राणिनः । प्रकरणे भवतेरुपसंख्यानात् कर्तरि णः। तस्माद् युक्त परीक्षणमर्थत एव । अथवा असत्याः सत्यसंकाशाः, यथा हि माण्डव्यस्य | सत्याश्चासल्य तुल्याः, यथा तस्यैव चोरत्वं दृश्यते । तेनानेकप्रकारा दृश्यन्तेऽर्थाः । तस्मात् परीक्षणं कर्तव्यमिति । +नाभा. १९६२ कार्यदर्शनफलम् एवं पश्यन्सदा राजा व्यवहारान्समाहितः । + शेषं अभावत् । (१) नासं.१।६ ३; नास्मृ.११७२; अभा. १९; व्यक. ७ (न तले विद्यते व्योम खद्योते न दुताशन:); स्मृच. २४,९५ द्योते (योतो); व्यसौ.५ म्नि (म) द्योते (योतो) ; प्रका. १४ स्मृचवत् ; समु. १० विद्य (दृश्य ). (२) नासं. १९६४; नास्ट. ११७३; अभा. १९; व्यक. ७ ष्टो (टे) मर्थः (मर्थ); स्मृच. २५, ९५ टो (टे ) मर्थ: (मर्थान् ) ; व्यसौ. ५ क्तम (क्तो ह्य); प्रका. १४ स्मृचवत्; समु. १० स्मृचवत्. (३) नासं. १९६५ प्रेत्याप्नोति त्रि (बध्नस्याप्नोति); नास्मृ. १।७४; अभा. १९; अप. २ | १ सदा (स्वयं) प्रेत्याप्नोति त्रि- विष्टपम् (शक्रस्यैति सलोकताम् ); स्मृच. १२३ उत्तरार्ध अप- वत्; ब्यप्र. ९३ पश्यन् (पश्येत् ) दीप्तं (लोके); प्रका.७७ स्मृचवत् ; समु. ६७ स्मृचवत्. म. का. १३ वितत्येह यशो दीप्तं प्रेत्याप्नोति त्रिविष्टपम् || एवमनेन प्रोक्तक्रमेण सह नित्यमेव यथार्थाधिकर णेन तात्पर्यतोऽथीन्, तथा धर्माधिकरणे अधिकतर तात्पर्यतः एकचित्तो राजा व्यवहारान्पश्येत् । इह लोके यशो दीप्तमिति भुवनप्रकाशं वितत्य विस्तार्य । अनेन महता पुण्यसंचयेनोपार्जितं परलोक त्रिविष्टप स्वर्गे स्थानं शाश्वतं प्राप्नोति । अभा. १९ बृहस्पतिः पुराणधर्मशास्त्राण्यालोच्यानि पूर्वाह्ने तामधिष्ठाय वृद्धामात्यानुजी विभिः । पश्येत्पुराणधर्मार्थशास्त्राणि शृणुयात्तथा ॥ (१) तां उक्तलक्षणां सभामित्यर्थः । पूर्वाण्हेऽपि आद्यघटिकाचतुष्टयादूर्ध्वमेव, तस्याग्निहोत्राद्यर्थत्वात् । (२) अर्थशास्त्र नीतिशास्त्रम् । दर्शनविधिः स्मृच.२७ व्यम. ४ राजा कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्यायामासीनः स्थित एव वा ।। सभ्यैस्त्रिभिरेव वृतो न त्वेक्रेन द्वाभ्यां वा वृत इत्यर्थः । अतो न प्रामुक्तसभ्य संख्याविरोधः । अतो राजसूय इव व्यवहारदर्शने राज्ञ एवाधिकार इति सिद्धम् । राजशब्देन चात्र क्षत्रजातीयो वाऽन्यजातीयोऽभि पिक्तो नाभिषिक्तो वा प्रजापरिपालनादिराज्यकर्ता गौण- वृत्त्या प्रतिपाद्यते । न पुनः राज्ञः कर्म राज्यमिति शाब्दस्मृतेः, बाहुजजातौ राजशब्दो मुख्य इत्यवेष्ठिन्या याद्राजा राजसूयेनेतिवत् क्षत्रिय एव । आर्याणां मन्त्रा दीनां राजशब्दप्रयोगो राज्यकर्तरि गौण इत्यवेष्टयधि- करण एवोक्तत्वात् । अत एव बृहस्पतिना नृपति- मात्रस्य सभाप्रवेशो विहितः । 'प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः । गुरून् ज्योतिर्विदो वैद्यान् देवा- विप्रान्पुरोहितान् ॥ यथार्हमेतान् संपूज्य सुपुष्याभर (१) व्यक. १८; स्मृच. २६ भि: (न:); स्मृचि. ३३ व्यसौ. १३ स्मृचवत् ; व्यम. ४; विता. २१ णधर्मार्थं (णं धर्मार्थ); प्रका. १५; समु. ११ स्मृचवत्. (२) स्मृच.१५ : २७ राजा (राज्य) पू.) प्रका. १५; समु.११ पू.