व्यवहारकाण्डम् तत्र तावत्प्रस्तुतार्थ उच्यते- महर्षिणा सभ्या- कोटनमुक्त्वाऽनन्तरमेव किं तु शब्दं विकल्पवाचक- मादौ प्रयुज्य अयं परीक्षादर श्लोकोऽभिहितः । तेनाय- मर्थः समर्थ्यते – यदि कश्चिद् दुष्टदुर्जनस्वभावतया चिर न्तनस्वकीयामर्षपूरितो राज्ञः कर्णे स्थित्वा निर्दोषाणा- मपि सभासदां दुष्टत्वं कथयति, ततस्तस्यैव राजाऽर्थ- विध्वंसकरणेन स्वार्थैक निष्ठस्याननुकुलशास्त्रचित्तस्य साध्वसाधुता परीक्ष्या | पश्चात्सभ्यानां यतः सभ्याः राजाङ्गभूताः । तेषां यस्य तस्येव वचनात् छायाभङ्गे कृते धर्माधिकरणलाघवात् राज्ञ एव प्रतापलाघवं भवति । न केवलमत्रैव सर्वपरिग्रहस्याप्युपरि राज्ञा श्रुतमात्रग्राहिणा न भवितव्यम् । श्रुतविचारकेण गम्भी- रमतिना च भवितव्यम् । अन्यथा 'बन्धुरपि भवति शत्रुः दुर्जनकृतगूढचक्रिकाभिन्नः । निजचित्तशङ्कया ऽपि च कल्पितया निरपराधोऽपि ॥ इत्यवधार्य न कार्ये कदाचिदविचार्य कार्यसद्भावं बन्धुमुहृद्धृत्यकलत्र पुत्रनिर्धातनं सहसा तेषां शङ्कादोषे संजातेऽपि शुभतः स्ववित्ताद्वा सपरिचरः कर्तव्यः प्रयत्नतस्तत्त्वनिर्वाद इति । अभा. १८-१९ (२) किन्तु कर्तव्यं राज्ञा स्वधर्म न्यायप्रवर्तन मन्याय निवृत्तिं च सम्यक् परिपालयता, साध्वसाधुता साधु परीक्ष्या श्वासाधुश्च साध्वसाधू तयोर्भावः अनेकप्रकारम् । हेतुरुच्यते - मनुष्ये चित्तवैचित्र्यात् । वैचित्र्यं क्षणे क्षणेऽन्यथाभावः । अतो दुर्ज्ञानत्वात् साधुत्वस्य सर्वोपधाशुद्धान् नियुञ्जीतात्मनः प्रत्यवाय परिहारार्थम् । नाभा. १।५९ साक्षिलेख्यविवेकः पुरुषाः सन्ति ये लोभात्प्रब्रूयुः साक्ष्यमन्यथा सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः || अंतः परीक्ष्यमुभयमेतद्राज्ञा विशेषतः । (१) नासं. १९६० ये (ते) प्रब्रूयुः साक्ष्य ( ये नृयुः कार्य); नास्मृ.१।६ ९; अभा.१९; अप. २/७५ प्रब्रू (वित्र) चान्ये (वान्ये) जनाः(नराः); स्मृच. ६५ (पुरुषाः सन्ति ते लोभा- स्कार्यं ये श्रृथुरन्यथा); प्रका.४३ स्मृचवत् ; समु.४५ (पुरुषा: सन्ति लोभाये विब्यु: कार्यमन्यथा ). (२) नासं. १९६१ : नास्ट. ११७०; अभा. १९; अप. . लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ।। (१) इदानीं मनुष्य चित्तवैचित्र्यस्य व्याख्यामाह- पुरुषाः सन्तीति । अनेन श्लोकद्वयेन पुरुषचित्तवैचित्र्यं दर्शयित्वा साक्षिप्रमाणयोरपि परीक्षादरो दर्शितः । यथोक्तम्- 'लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः' इति । तदग्रतो लेख्याचारपरीक्षा साक्ष्याचारपरीक्षा च सविस्तरा भविष्यति । तेनोभयाकारप्रकरणे उभयमध्ये तत्परीक्ष्यमित्युक्तम् । तत्रैव वक्ष्याम इति । अभा. १९ (२) कूटाकूटविवेकधर्म आचारः । अप. २।७५ (३) लेख्याचारेण प्रागुदितशुद्धिहेतुजातेनेत्यर्थः । यत्पुनस्तद्धेतुजातेन न शुद्धिमायाति लेख्यं तदप्रमाण- मेव । स्मृच.६५ (४) परीक्ष्यत्वे कारणमुच्यते पूर्व श्लोकेन । उत्तरः साध्यार्थः । अत इत्युत्तरत्र वचनात् पूर्वी हेतुः । यस्मात् मनुष्याः सन्ति तथाभूताः क्षुद्रा लोभमोहगृहीताः, ये कार्ये व्यवहारमन्यथा ब्रूयुः दृष्टलोमेन धर्म पृष्ठतः कृत्वा । सन्ति चान्ये क्षुद्राः कूटलेख्यं कुर्वन्तीति कूटलेख्य- कृतो जनाः अन्यथोच्यमानमन्यथा लिखन्ति भिन्नाः । अत एतस्मात् कारणात् परीक्ष्यं साधुत्वमसाधुत्वं च । असाधुत्वं निरासार्थ, साधुत्वं नियोगार्थं च । लेख्या- चारेण लिखितं पत्रं कूटलेख्यपरिहारार्थम् । साश्याचारेण साक्षिणः अन्यथानयनपरिहारार्थ वश्यमाणसाक्षिन्याये साक्षिणश्च । नाभा. १९६०-६१ लेख्यमालेख्यवत्केचिल्लिखन्ति कुशला नराः । अतो न लेखसामर्थ्यात्सिद्धिरैकान्तिकी मता ॥ अंसत्याः सत्यसंकाशा: सत्याश्चासत्यसंनिभाः। दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥ २१७५; स्मृच. ६५ (परीक्ष्यमेतदुभयं स्वयं राज्ञा विशेषतः); प्रका.४३ स्मृचवत्; समु. ४५ स्मृचवत्, पू. (१) vulg. नास्मृ. १:७० इत्यस्यानन्तरमयं श्लोकः । (२) नासं. १९६२ संनिभा: (दर्शना:); नास्मृ. ११७१; अभा. १९; मिता. २.२६८; अप. २११ ( असभ्य: सभ्यसंका- शाः सभ्याश्चासभ्यसंनिभा:) परीक्ष (विचार); व्यक. ७ भावा (कारा); पमा. ४३७; सवि. ४५९ सत्यश्वासत्य (तथ्याश्या तथ्य); व्यसौ.५ पूर्वार्ध अपवत्, शेषं व्यकवत् ; ध्यप्र. ३८६; ब्यउ. १२४; विता.७९१.
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७४
दिखावट