पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशनविधिः भूतमेव प्रपद्येत धर्ममूला यतः श्रियः ॥ (१) यत्र पुनर्धनी साक्ष्योपन्यासकाले स्वकीयं साक्षिणं नवकम्बलं प्रावृतं दृष्ट्वा राजाधिष्ठितकरणस्याये वदति । यथा अयं नवकम्बलो देवदत्तो मम तस्मि- न्काले कार्ये च साक्षी । एतत् श्रुत्वा शठः प्रतिवादी यदि चाकुलं गृहीत्वा एवं वदति यथा कुतोऽस्य नव कम्बलाः । यदि नवकम्बला अस्य विद्यन्ते ततो वदतु साक्ष्यमन्यथा न प्रमाणं मम इत्यादिकं छलग्राहिणं प्रति तत्रेति । अत्र मुनिमतमिदम् । शिष्टो विशिष्टः । तस्य छलग्राहिणा प्रतिवादिना चाकुलमारोप्यते, तद्राजा मर्ष येत् न गृण्हीयादित्यर्थः । तथा यावद्व्यवहारस्य निर्णयो न भवति, तावत् यदि वादी स्वकीयं प्रमादाभिहितं वचनं ज्ञात्वा वटपद्रकग्रामं च सम्यक् स्मृत्वा तमेव वटपद्रक- ग्रामस्थितसंव्यवहारं कीर्तयति । तदा वादिना तत्स्व - कीयं प्रमादार्भिहितं छलं शिष्टं कथितमित्यर्थः । तं वादिशिष्टच्छदं राजा मर्षयेद्धर्मसाधनः । क्षमयेदित्यर्थः उत्तराक्रान्तभापाछलेन भूतार्थनाशं न कुर्यात् । धर्मन्याय मेव प्रतिपद्येत । यतः कारणात् एवं व्यवहरतो राज्ञो धर्ममूलाश्च श्रियः । अभा. ११ , (२) शिष्टं हितम् । शिष्टं छलं वाक्छलं राजा मर्ष येद् धर्मसाधनः । ‘कृत्यल्युटो बहुलम्' इति ल्युट् । बहुलवचनात् कर्मणि ल्युट् । धर्मः साधनो यस्य राज्ञः स राजा धर्मसाधनः । स वाकूछलं मर्षयेद् भूतमेव प्रपद्येत्त न प्रमादाभिहितं परिगृहयात् । धर्ममूलाः यतः श्रियः यस्माद् श्रियो धर्ममूलाः | बहुवचननिर्देशो धनराष्ट्रसाधनदृष्टादृष्टनिमित्तोपसंग्रहणार्थ: । नाभा. ११२५ अंभूतमप्यभिहितं प्राप्तकालं परीक्षयेत् । यत्तु प्रमादान्नोच्येत तदूतमपि हीयते ॥ प्राप्तावसरं यदुपन्यस्तं भवति, तत्प्रदुष्टसाक्षिक नत्र शि ( न तु वु ) धर्म (भूत); स्मृच. २५ तत्र ( ननु); स्टसा. ८८ तत्र ( ननु ) धर्म (भूत) याशवल्क्य: ; व्यसौ. ५ शिष्टं (दृष्ट) साध (शास) श्रियः (स्थिति:); प्रका. १४ तत्र (न तु); समु. १० प्रकावत्. (१) नासं. ११५५ क्षयेत् (क्ष्यते); नास्मृ. ११६४; अभा. १७; व्यकं. ७ यत्तु प्रमादान्नोच्येत ( प्रमादान्नोच्यते यत्तु ) ; दीक. ३३ व्यकवत्, उत्त. परीक्ष्य परिहरेत् । यत्पुनरतिक्रान्तस्वकीयावसरं तद्भू- तमप्युपन्यस्तं वादिप्रमादात्तस्य ग्रन्थिछुटितद्रव्यमिव तदेवापुण्यैरेव तद्भुतं प्रणष्टमिति । अतो वितर्क्यते । ननु प्रथममुक्तं तत्र शिष्टं छलं राजा मर्षयेत् । यथाभूतमे वार्थ प्रतिपद्येत इत्यादिकमुक्त्वा सांप्रतमेतदुक्तम् । अति- क्रान्तकालोपन्यासच्छलाद्भुतमपि हीयते तदयं स्ववचन- विरोधः कथम् ? अत्रोच्यते । प्रवृत्तव्यवहारमध्ये वादि- प्रतिवादिनोः स्वकीयस्वकीयावसरेषु वदतोर्यानि वा आकु- लानि भवन्ति, तानि राज्ञा ग्रहीतव्यानि । तेष्वेव 'छलं निरस्य भूतेन व्यवहारान्नयेत्तु यः । यत्पुनर्निर्णिक्त- व्यवहाराणां प्रमाणं तद्यदि गृह्यते यथा निष्पन्नप्रासाद- स्यांदिसूत्रस्थितएकपक्षेष्ववकाशात् सर्वध्वंसं कृत्वा मूला- दारभ्य पुनः प्रारम्भो दुष्करो भवति । तथा व्यवहार स्यापि तेन, यत्तु प्रमादादवसरप्राप्तं नोच्यते । तस्यैव ग्रन्थिछुटितमिव नष्टं नात्र धर्माधिकरणस्य स दोपः । अत एवैतद्वक्ष्यति । सुनिश्चितचलाधानेन भवितव्यम् । अर्थिना साधनेनेत्यर्थः । , अभा. १७ किन्तु राज्ञा विशेषेण स्वधर्ममनुरक्षता । मनुष्यचित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ॥ (१) अस्मिन् श्लोके महर्षिणा महती मतिः संपदः संपत् शुभाशुभनिमित्तभूता सर्वसाधारणत्वेन विशेषेण चोपन्यस्ता । यतः कारणात् सर्वोऽपि लोको दुर्जन- कथितमात्र श्रुतग्राही अविचारकश्च । निर्दोपानपि साधु- बन्धुकलत्रपुत्रमित्रान् दुर्जन भिन्नचित्तः सहसा परित्यजन् संपदा शुभेन च परित्यज्यते । असंपदाऽशुभेन च परिगृह्यते । यः पुनः प्रजापालो बहुपरिवार एव सृष्टः प्रजापालो बहुपरिग्रहपरिवार एव सृष्टः प्रजापतिना तेन स्वपरिग्रहपालनधर्ममनुरक्षता विशेषेण साध्वसाधुता परीक्ष्या, इयमेव साध्वसाधुपरीक्षा सम्यगनुष्ठिता तस्य महतोः श्रीशुभयोर्हेतुभूता भवति । सा च मनुष्यचित्तवै चित्र्यात्परीक्ष्या । अथवा परीक्ष्यमप्येतदेव यन्मनुष्यचित्त- वैचित्र्यं चित्रविचित्रतावैचित्र्यमनेकप्रपञ्चरूपतेत्यर्थः । (१), नासं. ११५९, रक्ष (तिष्ठ) प्य (ध्ये); नास्मृ. ११६८; अभा. १८; अप. २११ मनुर (मभिर); व्यक. ७ अपवत् ; दीक. ३३ रक्ष (तिष्ठ); व्यत. २०५ क्ष्या (क्षा) धुता (धु बा) 3 व्यसौ.५ अपवत्.