पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः तितोऽपि देशकालवशात् । सामभेदोपप्रदानदण्डैः चतु- भिरपि साधनोपायैः यथावसरप्रयुक्तः साध्यते तेन चतुः- साधन उक्तः । एवं चायमस्खलितं प्रवर्तमानो व्यव हारः परमसमृद्धया चतुर्णामपि वर्णानामाश्रमाणां च रक्षणात् परिपालनात् चतुर्हितो भवतीति । अभा.७ (२) सभ्यैकप्रमाणत्वाद्धर्मः सभ्ये स्थित इत्युच्यते । व्यवहारश्च साक्ष्यधीनो निर्णय इति व्यवहारः साक्षिपु स्थित इत्युच्यते । चरित्रं देशकालकुलधर्मः, तत्पुस्त करणे लिखितकरणे स्थितम् । लिखिताः खलु देशादि धर्माः प्रमाणम् । दुष्टनिग्रहः शासनम् । तद्राजाज्ञाधीन- त्वात्तस्यां स्थितमित्युच्यते । एषां च धर्मादीनां परं बलीयः । तद्यथा--वर्णिषु कृतापराधेषु वधरूपे दण्ड धर्मे सत्यात्साक्षिवचनात्प्राप्ते साक्षिभिः 'वर्णानां हि वधो यत्र' इतिवचनानुसारादनृतेऽभिहिते व्यवहारेण वधरूपो दण्डधर्मो निवर्तते । व्यवहारोऽपि चरित्रेण वाध्यते यथा - साक्षिभिः साधितेऽप्याभीरस्त्रियाः पुरु पान्तरोपभोगे तद्दण्डे च व्यवहारतः प्राप्तेऽपि राजकुला- धिगतलिखितान्निवर्तते । एवं हि तत्र लिखितम् - आभी रस्त्रीणां व्यभिचारेऽपि सति दण्डो न ग्राह्य इति । चरित्रमपि राजशासनेन बाध्यते । यथा - ब्राह्मणादिगृहे राजपुरुषेण न प्रवेष्टव्यमिति देशधर्मो लिखितोऽपि ब्राह्मणादिगृहे व्यवस्थितोऽपि चौरादी राजाज्ञया तद् गृहं प्रविश्य राजपुरुषेण नीयते । अप. २।१ (३) साक्षिग्रहणं धर्मशास्त्रस्य दिव्येतरप्रमाणस्य चोपलक्षणार्थम् । पुस्तकरणं लेख्यम् । स्मृच.१२ (४) दोपकारी स्वयमनृताद्भीतोऽप्यपराधोऽस्तीति सत्यं ब्रूते । अतो धर्मस्य सत्येऽवस्थानम् । प्रतिज्ञोत्तरयोः कृतयोः साक्षिणा' यस्य पक्षोऽभ्युपगम्यते तस्य जयः । तेन व्यवहारस्य साक्षिण्यवस्थानम् | कर्नाटकदेशे बलात् मातुलसुताविवाहो न दोषाय | केरलदेशे कन्याया ऋतुमतीत्वं न दोषायेत्येवमादिकस्तद्देशसमयः तत्र तत्र पत्रादिशासनेऽवतिष्ठते । शिष्यत इति शासनम् । राजा नुशासनेन प्रजानां वर्तनं तत्र राजाज्ञायां प्रतिष्ठितम् । पमा १८-१९ (५) चरित्रं पुस्तकरण इति । लेख्येन निर्णीयते, । तच्चरित्रम् । 'चरित्रं संग्रहः पुंसाम्' इति पाठा- ९३ न्तरम् । पारम्पर्याविच्छिन्नस्मृतिदेशाधिष्ठानगणधर्मः सत्पु- रुषैः परिगृहीतः,तस्मिन्स्थित इति संबन्धः । नाभा. १।११ कार्यदर्शने प्रत्यक्षं सहकारि सूक्ष्मो हि भगवान्धर्मः परोक्षो दुर्विचारणः। अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् || (१) सौक्ष्म्यं कथं महतो धर्मस्य ? यस्मात् परोक्षो, दुर्विचारणः कथम् ? यस्मादागमानुमानप्रमाणपरि- च्छेद्यः । तथा बहुधागमपरस्परविरोधात्संदेहः । तेन दुर्विचारणः, यत आगमेनाऽपि परिच्छेत्तुं न शक्यते । अतः प्रत्यक्षमार्गेण तस्य गतिं नयेत् । प्रत्यक्षोऽस्य मार्गः लैङ्गिकमनुमानम् । शुभाशुभात्मकं सुखदुःखमुपभुज्यत इति । समस्तागमसमर्थितमिदम् । अथवा प्रत्यक्षमार्गः विवेकिसाधुविशिष्टपूर्वप्राचां मार्गः । तेन धर्मगतिं नयेदिति । अभा. १३ (२) प्रत्यक्षमार्गेण दृढतरप्रत्यक्षादिप्रमाणद्वारेण । व्यक. ६ (३) सूक्ष्मो दुर्बोधो दुर्विचार: अनुमानादिभिर- शक्यो विचारयितुं यथा च संप्रतिपत्तव्यः । अतीन्द्रियः परोक्षः चक्षुरादिभिरग्राह्यः । तस्मात् प्रत्यक्षमार्गेण प्रत्यक्षपूर्वकं लोप्नादिना व्यवहारं नयेत् । नाभा. १।३५ कार्यदर्शने तर्क उपाय: येथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् । कक्षे शोणितपातेन तथा धर्मपदं नयेत् || कक्षं वनगहनम् । यथा तस्मिन्वनगहने स्थितो मृगः संग्रहं दुरानेयो भवति । एवं परमार्थधर्मोऽपि संग्रहं दुरानेयः | तस्य विद्धस्य व्याधो मृगलुब्धकः, प्रचुरतॄणच्छन्नभूम्यां दुर्लभमपि तन्मार्ग प्रहारनिर्गमस्थानं संततशोणितपातेन पदं तावन्नयेत् यावदग्रतः पतितः

  • शेषं अभागतम् ।

(१) नासं. ११३५ ( सूक्ष्मो हि बलवान् धर्मा दुर्विचारस्त्व- तीन्द्रियः ); नास्ट. १९४१; अभा. १३; व्यक. ६ ; स्मृच. २५ मै: परो ( र्मो दुष्पे ); सवि. ७१ स्मृचवत्; व्यसौ.४; प्रका. १४ स्मृचवत्; समु. १० स्मृचवत्. (२) नासं. ११३२ व्याधो मृग (मृगव्याध:) पाते (लेशे); नास्मृ.११३८ पाते (पादे); अभा. १२; व्यनि. पाते (लेपे); समु. १० पाते (लेशे) कात्यायनः.