९२ च नारदवचनम् । तथा हि, यदा केन चिद् विशिष्टेन राजन्यादिना मोहात्कथञ्चिद्वाजदारादेः स्पर्शनादिकं कृतम् । कृत्वा च स प्राणभयान्मिथ्या करोति, साक्षिणश्च सन्ति, ते न्र राशा पृष्टाः सन्तो वधोऽस्य मा भूदिति नायमस्य कर्मणः कर्तेति मिथ्या साक्ष्यं ब्रूयुः, तदा दोपकारिणस्तत्कर्तृत्वाप्राप्ते धर्मो व्यव- हारेण बाध्यते । युक्तं चात्र धर्मबाधनम् । 'वर्णिनां हि वधो यत्रे'ति साक्षिणां मिथ्याभिधानविधानात् । यदा पुनः परदाराभिगमनं कृतमनेन साक्षिणो विद्यन्ते इति कश्चि- दाभीरादिः केनचिदभियुक्तो ब्रूते सत्यमेतत्साक्षिभाषितं तथापि नाहं दण्डयः चरित्रबलान्मयैतत्कृतं निवेशितं त्र पुस्तके राज्ञा तदिति तदा चरित्रेण व्यवहारो बाध्यते । व्यवहारतः प्राप्तस्य दण्डस्य चरित्रतो निवृत्तत्वात् । युक्तं चात्र चरित्रेण बाधनम् । 'ग्रामगोष्ठपुरश्रेणिसार्थसेना- ८ व्यवहारकाण्डम् निवासिनाम् । व्यवहारश्चरित्रेण निर्णतव्यो बृहस्पतिः नामदत्तावकाशस्वरूपत्वेन स्वतो वर्तमानधर्म एवोच्यते । इति वचनात् । चरित्रमपि क्वचिद्राजाज्ञया बाध्यते । यदा कुलगृहाभ्यन्तरे न केनचिद्राजपुरुषेण प्रवेष्टव्य- मिति चरित्रमीदृशं कृतं ततो राज्ञा कश्चिदपराधी गृहं प्रविष्टो ज्ञातः । ततो राज्ञा कश्चित् राजपुरुष आज्ञप्तः, गृहाभ्यन्तरमपि प्रविश्य स दुष्ट आनेतव्य इति । तदा चरित्रमपि राजशासनेन बाध्यते । दुष्टनिग्रहस्या वश्यकत्वेन चरित्रतो राजशासनस्य बलीयस्त्वात् ।
- शेषं (पृ. १६) स्मृचगतम् ।
, स्मृच. १०-११ ( ३ ) चतुर्षु वर्णेषु यः कश्चिद्राजद्रोहं कृत्वा राज्ञा तर्जितः सन् अति भीरुतया स्वापराधमङ्गीचकार तत्र समीपवर्तिनः साक्षिणो वर्णिवधं निवारयितुमिच्छन्तः सत्यमुल्लङ्घ्य ‘ तत्र साक्ष्यनृतं वदेत्' ( मस्मृ. १०१ १३० ) इत्येतादृशं शास्त्रमेवाश्रित्य तदीयमपराधं पर्य- हार्षुः । तत्र व्यवहारेण धर्मो बाध्यते । केरलदेशादौ वेश्यागमने साक्षिभिरापादितेऽपि देशाचारवशान्नायं राज्ञा दण्डयते । तत्र चरित्रेण व्यवहारस्य बाधः । सत्यपि तादृशे देशाचारे त्वयैवं न कर्तव्यमिति राजा चेदनु- शास्ति तदा राजाज्ञया चरित्रस्य बाधः । य एते प्रोक्ता धर्मादयश्चत्वारः पादाः ते चतुर्षु सभ्यादिषु प्रतिष्ठिताः ।
- पमा. १८
(४) निर्णयाख्यचतुर्थव्यवहारपादहेतुत्वेन गौणमेव व्यवहारपादत्वमेषामत्रोक्तम् । व्यवहारपदेन निर्णय एव वा लक्ष्यते । तद्धेतुत्वं तत्पादत्वमिति द्रष्टव्यम् । +व्यप्र.६ (५) वर्णिवधे साक्ष्यनृते वधधर्मे व्यवहारेण शास्त्रेण शोभ्यः | चरित्रेण देशाचारेण साक्षिसिद्धेऽप्या भीरस्त्रीषु व्यभिचारदण्डो बाध्यः । 'विप्रगृहे राजकीयो न गच्छेत्' इत्याचार: 'तद्गतश्चौरो धार्य' इति राजपत्रेण बाध्य इत्यर्थः । व्यवहारस्त निर्णयः । विता. ३५,८१ तंत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु । चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् || (१) तत्र सत्ये स्थितो धर्म इति । यदा धनिकर्णि- कयोरेकान्तव्यवहारेऽपि परस्परं सत्याच्चलनं नास्ति तदासौ सत्यव्यवहार उच्यते । तस्मिन् सत्यसंव्यवहारे साक्षाद्धर्म एव स्थितः । स च व्यवहारचरित्रराजशासना- 'व्यवहारस्तु साक्षिष्विति' यदुक्तं तत्र धनिकर्णिकयोरेकतर- दोषादपि सत्यधर्मचलनशङ्कोत्पत्तौ संजातायां साक्षि- प्रत्ययो यः संव्यवहारः प्रवर्तते स व्यवहार इत्युच्यते । स चोत्तरः पूर्वस्य बाधयोत्पन्नस्तेन पूर्वबाधक इति । यच्च चरित्रं पुस्तकरण इत्युक्तं तच्चरित्रमिति – पत्रक - भूर्जचीरकसंपुटिकादिपु साक्षिस्वहस्तमुनिबद्धं कृत्वा यो व्यवहारः प्रवर्तते, स चरित्रमित्युच्यते । स च पूर्व- वाक्यादुत्तरः पूर्वबाधक इति । यस्तु राज्ञा समावेदितो व्यवहारः स राजशासनायत्तः सर्वेषामप्येतेषामधिकः सर्वोत्तरश्च । यत इत्युक्तम् – 'ग्रामे दृष्टः पुरे याति पुरे दृष्टस्तु राजनि । राज्ञा दृष्टः कुदृष्टो वा नास्ति पौनर्भवो विधिः ॥' तदेवमयं चतुर्विभागरूपत्वाच्च- तुष्पादो व्यवहारः । तथा चात्र लोकसंव्यवहारः संव्य- वहार इत्युच्यते । स च द्विविधः प्रयोजनापेक्षया प्रव + शेषं स्मृचवत् । (१) नासं. ११११; नास्मृ. ११११; अपु. २५३/४-५ पुस्तकरणे (संग्रहे पुंसां) शास (साध); अभा. ७; अप, २०१ सत्ये (सभ्ये); व्यक. १७ स्तु (श्च) : १००; स्मृच. १२; पमा १० पुस्त (तु स्वी); नृप्र. ३; व्यसौ. १२ व्यकवत् ; उयप्र. ५ चण्डेश्वरेण तु 'चरित्रं पुस्तकरणं' इति पठितम् ; व्यउ. ३; प्रका. ३; समु. ३.