पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः (३) अस्मिनष्यर्थशास्त्रे धर्मशास्त्राविरुद्धो योंऽशः स उपादेयः । इतरस्तु परित्याज्य: । तदाह नारदः - यत्रेति । +पमा.३८ धर्मशास्त्रलोकव्यवहारद्वैधे व्यवस्था धर्मशास्त्रविरोधे तु युक्तियुक्तो विधिः स्मृतः । व्यवहारो हि बलवान् धर्मस्तेनावहीयते ।। ( १ ) यत्र पुनरर्थापत्या विप्रतिपत्तिः स्याद्धर्मशास्त्रो क्तलोकव्यवहारयोः तत्र धर्मशास्त्रोक्तमुत्सृज्य लोक व्यवहारस्थमाचरेत्, यतः स एव बलवान् | तथा च धर्मशास्त्रोक्तम् – 'अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यथा । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋता- वियात् ॥' तथा च 'नष्टे मृते प्रत्रजिते क्लीबे च पतिते पतौ । पञ्चस्खापल्मु नारीणां पतिरन्यो विधीयते ॥ इत्यादिकधर्मशास्त्रोक्तमपि लोकाचारव्यवहारे परि- व्यक्तम् । मातुलसंबन्धस्तु धर्मशास्त्रपरिवृतोऽपि दाक्षि णास्यकृतोऽपि परिहार्य एव, सर्वत्र न वर्तते । स्थान- पानभोजनादिना सर्वलोकेऽप्यादृतः । अतोऽत्र युक्ति- युक्तो विधिः स्मृतः । सर्वथा एवमेव वक्ष्यमाणम् । 'देशे देशे य आचार: पारम्पर्यक्रमागतः । स शास्त्रार्थ- बलान्नैव लङ्घनीयः कदाचन ॥' इति सोऽप्यनुवर्तनीय एवेति । अभा. १२ (२) धर्मशास्त्रयोरेव तु विप्रतिपत्तौ लोकस्य व्यवहार आदरणीयः । तदाह नारदः - धर्मशास्त्रेति । व्यमा. २८२ (३) युक्तियुक्तः प्रमाणोपन्नः, युक्तिं विना व्यव द्दारमात्रेण धर्मो हीयते।ततः प्रमाणमनुसरणीयमित्यर्थः । व्यक.६ व्यन्त्रि. २ (४) व्यवहारो युक्तिः । (५) अवहीयते अवगम्यते । हि गतावित्यस्मा- द्धातोः ।

  • व्यत. १९९

+ शेषं स्मृचवत् |

  • शेषं व्यमावत् ।

(१) नासं. १ १३४ विधि: स्मृ (sपि धर्म) वही (पची); नास्मृ. १९४० : vulg. 'धर्मशास्त्राविरोधेन युक्तियुक्तो विधिर्मतः । ' इति पूर्वार्धपाठः; अभा. १२; व्यमा. २८२ तु (च): २९४ नु (च) हि (इपि); व्यक.६; व्यचि. २; व्यत. १९९; व्यसौ ४ स्तेनाव (शास्त्रेण ); व्यप्र. १३. पू., ८८ पू.; ब्यउ. ८; विता. २३ युक्ति ( न्याय) पू. ९१ (६) धर्मशास्त्रार्थशास्त्रयोर्विरोधे धर्मशास्त्रोक्तमाचरे. दिल्युक्तं, धर्मशास्त्रयोरेध विरोधे उच्यते युक्तियुक्त अपयुक्तिमुक्तं गृह्णीयात् इतरत्र तदनुरोधेन गौणं वा कल्प्यमप्रमाणं वा । यथा कचिदुक्तं हंसो भक्ष्य इति । अन्यत्र अभक्ष्य इत्युक्तम् । तत्रागृह्यमाण कारणत्वात् प्रतिषेधस्य न किञ्चिद् दृष्टं प्रयोजनमस्तीति प्रामाण्यम- स्यावसीयते । इतरथोत्सर्गः । एवं सर्वत्र | तम्माद् युक्तियुक्तस्याश्रयणम् इतरस्याश्रयणे यस्माद् धर्मो हीयते । कुतः व्यवहारो हि बलवान् । अन्यथादृष्टो, युक्तियुक्तापाश्रयणेनाऽचलवत्त्वादधर्ममुत्पादयति । तस्माद् युक्तियुक्ताश्रयणे प्रमाणद्वयसंनिधानान्न हास्यते धर्म इति । नाभा. १ ३४ व्यउ.८ (७) युक्तिः न्यायः । धर्मव्यवहारचरित्रराजशासनानि व्यवहारप्रमाणानि | तेषां तारतम्यं च धर्मश्च व्यवहारश्च चरित्रं राजशासनम् । चतुष्पाद् व्यवहारोऽयमुत्तर: पूर्वबाधकः || (१) एवं चतुष्पादोऽयमभिहितो व्यवहारः । अस्य चैवं निर्दिष्टचतुप्पादस्य चतुर्णामपि पादानां विवरण- श्लोकोऽयमनुगत एव भवति । अभा. ६ व्यवहार- (२) ननु प्रतिज्ञोत्तरप्रमाण निर्णयानां पादत्वं न धर्मादीनामिति किमिदमुक्तम् ? उच्यते । निर्णयपादो धर्माद्यनुसारेण चतुर्विधः । तत्र यदनुसारेण यो निर्णयः स तच्छब्देन निर्दिश्यते । तेन धर्मादिभिरपि चतुष्पात्त्ववर्णनं युक्तमेव । नन्वेवं तह्युत्तरः पूर्वबाधक इति नारदवचनमसंब- अन्धम् । तत्त्वार्थानुगुण्यातिशयेन पूर्वस्यैवोत्तरबाधकत्वात् । ‘छलं’ निरस्य भूतेन व्यवहारान्नयेन्नृपः' (यास्मृ.२।१९) इति याज्ञवल्क्येनोक्तत्वाच्च । उच्यते । सत्यम्, उत्सर्गतः सर्वत्रैवम् | क्वचिद् विपये तूत्तरः पूर्वबाधको भवत्येव । (१) नासं. १९१०; नास्मृ. १।१०; अपु.२५३।३-४ रोडय (राणा) वाध (साध); अभा.६; अप. २११; व्यक. १६ बाघ (साध) : १००; स्मृच. १०; पमा. १०; व्यनि; नृप्र. (=) ३; सवि.४४४ स्मृति:; चन्द्र. १६६ ष्पादू (ध) उत्त.; व्यसौ. १२,०१; व्यप्र. ५,८८ नं (तं); व्यउ. ३; विता. ३५,८०; प्रका. ३; समु. ३.