पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ व्यवहारकाण्डम् यतश्चैतदेवं अतश्च भूतमिति । व्यवहारमार्गेणा- न्यथा क्रियते । तथाचोक्तम् 'अचोरचोरतां प्राप्तो माण्डव्यो व्यवहारत' इति । अतश्च प्रयत्नतो निरा कृतच्छलादिः सत्यैकप्रवणो राजा व्यवहारेषु कृती स्यादित्यर्थः । विश्व.२।१९ (२) एतच्च अर्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयते एव । किञ्च छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्वानुसारेण व्यवहारान्नयेदन्तं नृपः । यस्माद्भुत मपि वस्तुतत्वमपि अनुपन्यस्तमनभिहितं हीयते हानि मुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद्भूतानुसरणं कर्तव्यम् । यथा अर्थिप्रत्यर्थिनौ सत्य मेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामा दिभिरुपायैः । तथा सति साक्ष्यादिनैरपेक्ष्येणैव निर्णयो भवति । अथ सर्वथाऽपि भूतानुसरणं न शक्यते कर्तु तथा सति साक्ष्यादिभिर्निर्णयः कार्य इत्यनुकल्पः । यथोक्तम्- -- 'भूतच्छलानुसारित्वाद्विगतिः समुदा हृतः । भूतं तत्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारी त्वनु- कल्पः । साक्षिलेख्यादिभिर्व्यवहार निर्णये कदाचिद्वस्त्व नुसरणं भवति कदाचिन्न भवति । साक्ष्यादीनां व्यभि- चारस्यापि संभवात् ।

  • मिता. २१९,२।१९

(३) वादिना प्रतिवादिना वाऽभिधीयमानं छलं प्रमादं वा परित्यज्य भूतेन तात्विकेनार्थेन विशिष्टान् व्यवहारान्नयेन्निर्णयेत् । यतो भूतमपि वस्तु वादिप्रति वादिभ्यामनुपन्यस्तमनिवेदितं व्यवहारतो व्यवहारेण हीयते त्यज्यते । Xअप. (४) भूतेन तत्वार्थसंवन्धेन सामादिभिरूपायैर्य यार्थवादिना दिनादिरूपेण स्वव्यापारेण परव्यापा रेण वा छलरूपमुक्तं निरस्य नृपो व्यवहारान्नयेत् निर्णयरूपे स्त्रफले प्रापयेत् । क्वचित्तु छलानुसार्यपि व्यवहारो भवतीत्याह । भूतं तत्वार्थसंवन्धमपि साध्या- दिकं जयावधारणात्प्रागनुपन्यस्तं व्यवहारे कर्तव्ये हीयतेऽसाधकं भवति । तत्र च छलानुसार्येव व्यवहारः । भूतमप्यनुपन्यस्तमित्यमेन सर्वे भूतार्थाननुसारित्वेन

  • स्मृच, विता. मितावत् । x शेषं मितावत् ।

शास्त्रलोक सिद्धा: व्यापारा उपलक्ष्यन्ते । तत्र शास्त्र सिद्धव्यापारो यथा- 'क्रियां बलवतीं त्यक्त्वा दुर्बलां यः समाश्रयेत् । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुया क्रियाम् ॥' निर्णीतव्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो भुक्तिः पूर्वमावेदितं न चेत् ॥ यथा पक्केषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णीतव्यवहा राभ्यां प्रमाणमफलं भवेत्' इति । लोकव्यवहारो यथा - 'श्वश्वेदहं न यास्यामि तदा मम पराजयः' इति व्यवस्थादिरिति । वीमि. (५) मिता. टीका --साक्ष्यादिभिरिति । तथा च साक्ष्यादिभिः क्रियमाणेन व्यवहारेण तद्धीयते इत्यर्थः । एतेन भूतमपि वस्तुतत्वमपि साक्ष्यादिभिरनुपन्यस्तं सद्व्यवहारतो हीयते इत्यन्वय इति व्याख्यानमपास्तम् । भ्रममूलकत्वात् । बाल. नारदः धर्म्यनिर्णयफलम् धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः । संभवन्ति गुणाः सप्त सप्त वन्हेरिवार्चिषः || (१) धर्मेण व्यवहारान्पश्यतो राज्ञो, यथा वह्वेः प्रता- पिन: सप्तार्चिषः तथा तस्याऽपि प्रतापाङ्गभूताः सप्तगुणा: संभवन्ति । अभा. ११ व्यचि. २ (२) उद्धरतः सम्यनिर्णयतः । (३) धर्मेण शास्त्रोक्तेन न्यायेन । कृतात्मत्वमनौदासी. न्यम् । सम्यग्व्यवहारदर्शननिमित्तेर्गुणैः तस्य स्तुल्या कर्तव्यतोच्यते । नाभा. १।२६ धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः । प्रजाभ्यो बहुमानं च स्वर्गे स्थानं च शाश्वतम् || (१) अथ के के तदुच्यते । तत्र लोकपक्तिः जना- नुरागः । उपग्रहः आश्रयणीयत्वम् । अन्यत्सर्वं प्रतीतम् । (१) नासं. १।२६; नास्मृ. ११३२; अभा. ११ द्धर (दह); व्यमा. २७९ संभव (संतन्व); अप. २११; स्मृच २६; व्यचि. २; प्रका. १५; समु. ११. (२) नासं. १९२७ र्गे (र्ग); नास्मृ. ११३३; अभा. ११३ व्यमा. २७९; अप. २११ पक्ति (पङ्क्ति) मानं च (मानश्च); स्मृच. २६ क्ति (त्ति) मानं च (मानश्च); व्याचे. २ मानं च (मानश्च ) प्रका १५ स्मृचवत् समु. ११ रमृचवत्.