पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः त्ताचार्यत्वब्राह्मणत्वाद्युत्कर्षमेवादाय तदेकार्थकमेवोचितं न तु तेषामुत्कृष्टाचार्यादिविषयकतया संकोचकम् । 'तपः-- स्वाध्यायजन्मत' इत्यनेनापि ब्राह्मणत्वादिकृतोत्कर्षस्यै वोपलक्षणात् । किञ्चततायिवधे दोषाभावस्य स्वोत्कर्ष- मात्रेणापवादस्तवाभिमतः, गीतास्थितस्य एतत्पदस्य तदुपष्टम्भकत्वमधमवर्णावध्यत्वमुत्तमवर्णाततायिनो वद- तः । तथा च सामान्यतो ब्राह्मणत्वादिपुरस्कारेण तद- पवादकवाक्यानामानर्थक्यमेव स्यात् । अस्योपसंहार विषयत्वात् । यत्र हि, मित्रविन्दावत् द्वयोरर्थवत्त्वं तत्र सामान्यस्य विशेष उपसंहार: स्वीक्रियते । अनुत्कृष्टत द्वधे त्वया दोषाभावस्यैवाभ्युपेतत्वात् । 'गुरुं वा' इत्या- दिबहुवचसां प्रतिप्रसवविधित्वेन त्वयाभ्युपेतानां कात्या यनीयैकवचोऽनुरोधेनोत्कृष्टमात्रेणोपलक्षणत्वमानर्थक्याप पर्याय एव । यद्वा गोत्वब्राह्मणत्वादि निमित्तप्रतिप्रसवे कृते कात्यायनीयमुत्कर्षनिमित्तदोपातिशयप्रतिपादक भविष्य तीति समस्तवचनसामञ्जस्यसंभवे वचनस्वरसभङ्गाङ्गी- करणं भङ्गया अङ्गीकरणमेव । उत्कृष्टवधनिवृत्तौ फला- तिशयोऽप्यस्तु । संयोगपृथक्त्वात् (पूमी. ४ | ३ | ३) । तत्रा प्यश्वमेधपदमन्यानर्थक्यप्रसङ्गादविवक्षितमथवा तत्र श्रुतं ब्रह्महत्यातरणं तजन्यपापक्षयरूपमात्रवधनिवृत्तौ तजन्यपापानुत्पत्तितादात्म्येनोपचर्यते । फलपदं तु पक्षेत्र स्मिन् न समञ्जसं निषिद्धनिवृत्तौ पापानुत्पत्तेः फलवा- भावादिति प्राच्यमेव व्याख्यानं साधीयः । तारतम्येन वाश्वमेधफलमत्रापि भवतीति नान्यानर्थक्यमिति समाधेयम् । किञ्च आततायिब्राह्मणादिवधस्यादोषताप्रति पादकतया तवाभिमतेषु कात्यायनदेवलादिवचनेषु 'अपि वेदान्तगं' 'भ्रूणमपि' इत्यादी नामुत्कर्षप्रतिपादकत्वान कथमुत्कर्षदोपपरं कात्यायनीयं 'आततायिनि चोत्कृष्ट इति वचस्तद्विरोधसमाधानसहं स्यात् । यच्च देवलवचनं भवतोदाहृतं- 'उद्यम्य शस्त्रमायान्तं भ्रूणमप्याततायि नम् । निहत्य भ्रूणहा न स्यादहत्वा भ्रूणहा भवेत्' इति । भ्रणः–उत्तमब्राह्मणविशेषः । दोषप्रदर्शनं नियमार्थमिति व्याख्यातं च । तदत्यसंबद्धम् । न ह्यातताय्यहनने दोषः कस्यापि संमतः । किन्तु तद्धनने दोपाभावमात्रम् । तस्मादन्यथात्मरक्षणासंभवे तदहनने स्वहत्यैव भ्रूणहत्या प्रसज्यत इत्यात्मरक्षणविधिप्राप्तानुवादमात्रमेतदिति ८७ व्याख्येयम् । तस्मात् 'आततायिनि चोत्कृष्ट' इत्यादि. कात्यायनवचनमस्मदुक्तरीत्या सुमन्तुसंवर्तादिवचःसमा- नार्थतयोत्कर्षप्रयुक्त दोपातिशयपरर्तया वा वर्णनीयम् । न तु विरोधे व्यवस्थापकतयेत्यल मतिदूरं गत्वा । मम तु प्रतिभाति । सत्यपि 'गुरुं वा' इत्यादीनां प्रतिप्रसवविधित्वे न तेषामर्थशास्त्रत्वम् । अदृष्टदोषा- भावस्याप्यदृष्टत्वेन दृष्टार्थत्वाभावात् । न चात्मरक्षण- मात्रार्थत्वेन | तथा सति प्रायश्चित्तप्रसङ्गात् । न चेष्टा- पत्ति: । 'न तेन ब्रह्महा भवेत्' । 'आततायिन्यदोषोऽ- न्यत्र गोब्राह्मणात् । गोब्राह्मणं यदा हन्यात् तदा प्राय श्चित्तं कुर्यात्' 'पापमेवाश्रयेदस्मान्' इत्यादिषु पाप- तदभावयोश्च स्पष्टमवगमात् । तस्मात् सर्वमतेऽप्यर्थधर्म- शास्त्रविरोधोदाहरणमिदमित्यसंगत मेवेत्यलं प्रसक्तानु- प्रसक्तविचारप्रपञ्चेन । +व्यप्र. १३ - २१ अर्थनिश्चये तक लेख्यं च उपाय: असाक्षिके हते चिन्हैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिन्हकृताद्भयात् || छलव्यवहारभूतानुसारिव्यवहार विवेकः छैलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ (१) व्यवहारो हि नामानृतप्रभवो व्याजैक निबन्धनः । तथा चोक्तं नारदेन 'धर्मेकतानाः पुरुषा यदासन् मत्यवादिनः । तदा न व्यवहारोऽभून्न द्वेपो नापि मत्सरः || नष्टे धर्म मनुष्येषु व्यवहारः प्रवर्तिनः । द्रष्टा च व्यव हाराणां राजा दण्डधरः कृतः' इति । अधर्मप्राधान्यं व्यवहारेवियर्थः । + व्यउ व्यप्रवेत् । X व्याख्यासंग्रह स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । * व्यवहारप्रकाशव्याख्यानं निर्ण- यपादे द्रष्टव्यम् । (१) यास्मृ. २११९ : अपु. २५३१४७-४८; विश्व. २।१९; मेधा.८।४५ तेन (तेपु); मिता.: २१९. पू.; व्यमा. २८ ९; अप.; व्यक. ७; स्मृच. ११ पू., २५,६८पू. १२० मा ४०; स्मृरा.८८ रान्नयेन्नृपः (र: प्रवर्तते); व्यचि. २३ पृ. ; व्यत. २०५; स्मृचि.६,३८ स्मृसावत् ; सवि. ५९ पृ., १२७१, ८८२ पू.; व्यसौ.५ मेधावत्; बीमि.;व्यप्र.६६ प्.:९८,९९; पिता. २०६७ प्रका. १४: समु. १०.