व्यवहारकाण्डम् देशसमाख्याया पुरुषमात्रेणैतत्कर्तव्यमित्यापतति । नियतनिमित्तत्वाभावेन अनियामकत्वात् । अथैवं वाक्य- मनुमीयेत, उदीच्यां जातेन तद्देशवासिना वा । तदपि व्यभिचारि, तज्जातोऽपि नान्यत्र करोति, तन्निवास्य- प्यन्यत्र जातो न करोत्येव । अथोदग्देशाभिजनस्त निवासी चेति अनित्यत्वादभिजननिवासयोस्तदपि न युक्तमेव । न हि जातिगुणगोत्राणीवाभिजन निवासौ नित्यौ । तस्मान्नित्यस्य चै कस्यचिदनुष्ठातॄणामवच्छेद- कस्यानुपपत्तेः सर्वविषया धर्माः । न देशधर्मा नाम केचन सन्ति । अनेनैव न्यायेन कुलधर्मा अपि । कथं तर्हि ‘देशधर्माः कुलधर्मा' इति च स्मृतिकारैर्भेदेन व्यपदिश्यन्ते । उक्तं, दृष्टार्था नियता व्यवस्था तत्र धर्मस्तस्य च नियम उपपद्यते इति उक्तम् । कुलं च गोत्रैकदेशः । यस्तु कृत्स्नगोत्रधर्मो यथा न वासिष्ठा वैश्वामित्रमवधीरिति, स नित्यत्वाद्गोत्रव्यपदेशस्य नान्य- स्येति विरम्यते(?) ।
- मेधा.
(२) विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिः यच्छास्त्राविरुद्ध- मासेवितं तद्देशकुलजातीनामनुरूपं कल्पयेत् । इह च सद्भिराचरितमित्युपादानादिदं सदाचारविषयम् । जाति- जानपदाद्येतत्पुनः सदाचारव्यतिरिक्तधर्मविप्रयम् । Xगोरा. (३) सद्भिर्दोषरहितैर्देवादिभिः । तद्वस्तु प्रकल्पयेत् प्रकृष्टं व्यवहारेषु कल्पयेत्, यदि देशाद्यविरोधि । विरोधे तु तद्देशादिधर्म एव तद्देशजानाम् । एवं सामान्यतो राज धर्मा व्यवहाराऽनुगुणा उक्ताः । मवि. (४) विद्वद्भिर्धर्मप्रधानैर्द्विजातिभिर्यद् दृश्यमान शास्त्रमनुष्ठितं तद्देशकुलजात्यविरुद्धमादाय व्यवहार निर्णयं प्रकल्पयेत् । ममु. (५) आचरितं शास्त्रदृष्टमण्यनुष्ठितम् । सद्भिरिति द्विजातीनां विशेषणं शूद्रव्यावृत्यर्थम् । धार्मिकैः प्रतिषि- वर्जनपुरःसरं धर्मानुष्ठातृभिः । तद्देशकुलजातीनाम- विरुद्धमेव प्रकल्पयेत् प्रमाणं कुर्यात् कुलधर्माचेत्यत्रो तत्वात् । मच.
- व्यक. मेधावत् । X अत्रत्यो गोराग्रन्थः त्रुटितस्तथा
लोकान्तरीयपङ्क्तिसंकरयुक्तः प्रकाशऋदोपात् । १ भांव. २ चारितवतोऽपि. ३ न. (६) तदनुरूपनिर्णयोपायपरिग्रहार्थमशास्त्रीयमपि सद्भिराचरितं धर्ममनुपालयेदित्याह–सद्भिराचरितं यत्स्यादिति । स्वधर्मनिरता अध्यात्मविदः सन्तः । अवि- रुद्धं विरुद्धं न चेत् । प्रकल्पयेदनुपालयेत् । नन्द. (७) अविरुद्धं दण्डं प्रकल्पयेत् । भाच. क्रुद्धवादिप्रतिवादिकृताधिक्षेपो राशा क्षन्तव्यः क्षेन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ (१) कार्यिणोऽर्थिप्रत्यर्थिज्ञातिसुहृदः । कस्मिंश्चिद्धन्य- माने यदि तत्पिता तन्माता वा राजानं क्षिपेत्कुत्सयेत् अभिशपेद् वा तदा क्षमा कार्या । बालादीनां कार्यि- णाम् । एवमात्मने हितं कृतं भवति क्षन्तव्यमित्येतद्विधेः फलमेवात्महितम् । मेधा. (२) कार्यवतां क्षिपतां स्तेनहतबान्धवादीनां संतापेन आक्रोशतां बालवृद्धव्याधितानां च आक्रोशतां आत्मने वक्ष्यमाणमुपकारमिच्छता पार्थिवेन सर्वदा क्षमणीयम् । गोरा. (३) प्रभुणा शक्तेनापि । कार्यिणां कार्यासिद्धेः क्षिपतामप्रियं वदतां बालादीनामकार्यिणामपि । मवि. (४) राज्ञः स्वतन्त्रस्यापि कार्यविशेषे अस्वातन्त्र्यं सार्थवादमाह- क्षन्तव्यमिति द्वाभ्याम् । मच. (५)स्तेनापहृतद्रव्यैस्तद्द्रव्यप्रत्यानयनकालात्ययादिव तेर्जनैर्यत्पारुप्यमुच्यते तद्राज्ञा क्षन्तव्यमित्यभिप्रायेणाह- क्षन्तव्यं प्रभुणेति । प्रभुणा क्षिपतां तेषां निग्रहाय प्रभु- गापि | नन्द. यः क्षिप्तो मर्पयत्यार्तैस्तेन स्वर्गे महीयते । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ (१) आर्तेर्दण्डयमानतत्संबन्धिभिः अधिक्षिप्त
- ममु. गोरावत् ।
(१) मस्मृ. ८/३१२; गोरा. वंता (वंतां) त्मनः (त्मने) ; व्यक. १९ र्वता (वेतां); स्मृच. २९ क्षिप (क्षिय); स्मृचि. ५ व्यकवत् ; दवि ३८ व्यकवत् ; व्यसौ. १४ व्यकवत् ; नारदः; समु. १३. प्रका. १८ (२) मस्मृ. ८।३१३; गोरा. यः (यव); स्मृच. २९ यः (यत्) त्यार्ते (त्पाते) यस्त्वै (यत्त्वै); ५ यस्त्वै (यदै); व्यसौ. १४; प्रका. १८ नारदः; समु. १३. व्यक. १९; स्मृचि.