पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविघ्रिः मस्मिन्नहनि विक्रेयं इदं चानयैव श्रेण्या विक्रेयमित्येव मादयः । अस्मिन् कुले पञ्चमेऽह्नि पञ्चमे वाऽब्दे कर्णवेधः कर्तव्य इत्यादयः कुलधर्माः । प्रतिपादयेद् बोधयेत् । अंकुर्वतश्चानापदि बलात्कारेण कारयेत् । स्मृच.२९ (५) जातिधर्मान् ब्राह्मणादिजातिनियतान्याजनादीन् जानपदांश्च नियतदेशव्यवस्थितान् आम्नायाविरुद्धान्, । ‘देशजातिकुलधर्माश्चाम्नायैरप्रतिषिद्धाः प्रमाणमि'ति ( गौध. ११।२२ ) गौतमस्मरणात् । श्रेणीधर्माश्च वणि गादिधर्मान् प्रतिनियतकुलव्यवस्थितान् ज्ञात्वा तद विरुद्धान् राजा व्यवहारेषु तत्तद्धर्मान् व्यवस्थापयेत् । ममु. (६) कुलं वंशः ब्राह्मणादिर्मूर्धाभिषिक्तादिरिति वा । एतेषामेतदेव स्वधर्म इति वीक्ष्य परिपालयेद् राजा इति ।

    • मच.

(७) स्वधर्मे राजप्रवर्तितं धर्मम् । मदनरत्ने तु स्वधर्म दुष्टदण्डनरूपमिति व्याख्यातम् । तदनुवादमात्रत्वापत्ते हेयम् । व्यप्र. २१ (८) देशधर्मः यथा दाक्षिणात्यानां मातुलसुतापरि गयनम् । कुलधर्मः पूर्वशिखापर शिखादिनियमः । नन्द स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः | प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिता: X|| (१) पूर्वोक्तस्य जानपदादेर्धर्मस्य दृष्टाऽदृष्टताऽनेन प्रदर्श्यते । स्वानि कर्माणि कुलस्थित्यनुरूपाणि ये कुर्वन्ति ते दूरस्था अपि प्रिया भवन्ति । सर्वस्यान्यो निकटवर्ती संसर्गातिशयात्प्रियो भवति । स्वकर्मकारी तु दूरस्थ एव प्रियः । स्वे स्वे कर्मण्यवस्थिता इत्यनेन परकर्माऽननु ठानमा । ये न परकर्माणि कुर्वन्ति ते सर्वस्य प्रिया भवन्तीति श्लोकार्थः । मेधा. (२) दूरे देशे देशान्तरे । अतो लोकाविरुद्धत्वा त्स्वस्वजात्यादिधर्म एव ग्राह्यस्तेपामित्यर्थः । स्वे स्वे धर्म इति प्रियत्वे हेतुतया पुनरुक्तम् । । मवि. (३) यस्मात्, स्वानीत्यादि । जातिदेशकुलधर्मादी X गोरा., मच. व्याख्यानं मण्डलि

  • शेषं गोरावत् ।

कमुद्रितग्रन्थस्याशुद्धिसंदेहान्नोद्धृतम् । (१) मस्मृ.८।४२; व्यक.८; स्मृचि. ६; व्यसौ. ६; समु. १३ कर्मण्य (धर्मे व्य). न्यात्मीयकर्माण्यनुतिष्ठन्तः स्वे स्वे च नित्यनैमित्तिकादौ कर्मणि वर्तमानाः, दूरेऽपि सन्तः सान्निध्य निबन्धनस्नेहा- Sभावेऽपि लोकस्य प्रिया भवन्ति । ममु. द्विजातिशिष्टाचारः प्रमाणम् संद्भिराचरितं यत्स्याद्धार्मिकैच द्विजातिभिः | तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ (१) सन्तः प्रतिषिद्धवर्जका: । धार्मिका विहितानु ठायिनः । यद्यप्येक एव शब्द उभयमर्थ प्रतिपादयितुं शक्नोति, तथापि भेदोपादानाद्विषयविभागेनैवं व्याख्या- यते । तैर्यदाचरितमनुपलभ्यमानश्रुतिस्मृतिवाक्यं तद्देश- कुलजातीनां प्रकल्पयेदनुष्ठापयेत् । अविरुद्धं श्रुति- स्मृतिमिरुपलभ्यमानाभिः । यदुक्तं 'जातिजानपदान् धर्मान्' इत्यत्र (मस्मृ. ८/४१) श्लोके देशकुलाद्या- चारस्य प्रामाण्यं, तस्यानेन विशेषः कथ्यते । आम्ना- येनाविरोधेन तत् प्रमाणं न विरोधे तत्प्रमाणम् । तेन दृष्टार्थान्यपि ग्रामदेशराजकार्याणि शास्त्राऽविरुद्धान्यादर- णीयानि । न विरुद्धानि । यथा क्वचिद्देशे ऋणिक आत्मानं विक्रय्य धनं दाप्यते । तच्च 'कर्मणाऽपि समम्' इत्यनेन विरुद्ध अन्यत्र श्लोकेन दर्शितम् । अन्यस्य त्याचारस्य शिष्टसंवन्धितयैव प्रामाण्यमुक्तं 'आचारश्चैव साधूनाम्' इति । न च तद्विरुद्धार्थ समाचरणेन साधुत्वमुपपद्यते । तस्माच्च नाऽदृष्टाय । तद्विषयोऽयमुपदेशः । अन्यस्त्वाह – देशान्तरे धार्मिकै: सद्भिर्द्विजैर्य- विरुद्धं श्रुत्या स्मृत्यन्तरेण वा आचर्यते, तद्देशान्तरेऽपि राजा प्रकल्पयेत् । यथोपभयज्ञादय उदीच्येषु प्रसि- द्धास्ते प्राच्यैर्दाक्षिणात्यैः प्रतीच्यैश्वानुष्ठेयाः । कुतः ? आचाराद्धि स्मृतिरनुमातव्या । स्मृतेः श्रुतिः । सा च यद्येवमनुमीयते, उदीच्यरेतत्कर्तव्यमिति, तत्र तद्धितस्य बहुष्वर्येषु स्मरणात्तत्र जातस्तत्र भवस्तत आगतस्तम- भिप्रस्थितः 'शेष' इति चैतस्य लक्षणाधिकारोभय- रूपत्वादन्येष्वप्यर्थेषु प्रतिपदमनुपातिषु तद्धितस्मरणा- नास्त्यनुदीच्यो नाम य उदीच्यशब्देन निवत्यंत । ततश्च (१) स्मृ.८४६; व्यक.८; व्यनि.; स्मृचि.६; व्यसौ. ६; समु. १३. १ दि.