पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः आक्रुष्टो यत् मर्षयति न क्रुध्यति तेन क्षमणेन स्वर्गे महीयते । कण्ड्वादिरयम् । महत्त्व प्राप्नोति स्वर्गेऽ कोपेन । न तर्हि क्षमा कर्तव्या अकामिना अयथा कामिना । अत आह- यस्त्विति । प्रभुरहमित्यभिमानेन न सहते तेन नरकं प्राप्नोति । आग्रहणं बालवृद्धयो रपि प्रदर्शनार्थ पूर्वशेषत्वादस्य | मेधा. (२) संतप्तैः आकृष्टो यत्तेषां क्षमते, तेन स्वर्गलोके महीयते महिमानं भजते । यत्पुनः प्रभुत्वदन्न सहते तेन नरकं व्रजति ।

  1. गोरा.

मवि. (३) आर्तैः कार्यालाभाद्दुःखितैः । अधर्म्यनिर्णयेऽशुभफलम् यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः || (१) अर्धर्मेण यः कार्याणि कुरुते स मोहादेवेह व्यामूढो धर्म जह्यात् । तस्येदं अधर्मजं फलम् । विरक्त- प्रकृतितया वशे कुर्वन्ति शत्रवः । विरक्ता हि प्रकृतयः क्रुद्धलुब्धभीतावमानिताः परैरुपजप्येरंस्ततश्च बहुकृत्य वशे कुर्वन्ति दण्डयन्ति बघ्नन्ति नन्ति राष्ट्रमपहरन्ति चेत्येष वशीकारः । मेधा. (२) य: पुनर्नृपो लोभादिव्यामूढतया अधर्मेण व्यवहारदर्शनादीनि कार्याणि कुरुते तमधर्मपरकृतित्वात गोरा. भवि. क्षिप्रमेव शत्रवश्वासादयन्ति । (३) मोहात् धर्मो नास्तीति भ्रमात् । धर्म्यनिर्णये शुभफलम् कोमक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ (१) सिन्धवो नद्यो यथा समुद्रमाश्रयन्ति आश्रिता श्वानुरागिण्यस्तन्मन्यो वसन्ति न ततो निवर्तन्ते, एवं कामक्रोधजयाद्राजानं प्रजाः समयोगक्षेमास्तन्मय्यः

  • ममु., मच.गोरावत्.

(१) मस्मृ.८।१७४; शुनी. ४/५१०-५११; व्यक. ७- ८; स्मृच. १२३; स्मृचि. ७; नृप्र. २; व्यसौ. ५; व्यप्र. १२; प्रका. ७७; समु.६७. (२) मस्मृ.८।१७५; शुनी. ४।७७६-७७७; व्यक. ५; स्मृच. १२३; सवि. ५०३ र्थान् (६); व्यप्र. ९३; प्रका. ७७; समु.६७. १ धर्मे, F संपद्यन्ते । मेधा. (२) यश्च द्वेषपरित्यागेन यो राजा धर्मण कार्याणि निवारयति तं नद्य इव समुद्रं, प्रजाः संभजन्ते तन्मन सश्च भवन्ति । गोरा. मवि. (३) अर्थमर्थसाधनं व्यवहारादि । वाल्मीकि रामायणम् राशा कार्यदर्शनं नोपेक्षणीयम् पौरंकार्य तु यो राजा न करोति समास्थितः । व्यक्तं स नरके घोरे पच्यते नात्र संशयः ॥ समास्थितः सुस्थितः । अनेन दुःस्थितस्यादर्शने न दोष इति सूचितम् | व्यप्र. ९२ याज्ञवल्क्यः राशो व्यवहारदर्शन विधिः । धर्मशास्त्रावलम्बनम् । क्रोधलोभवर्जनम् । व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ ( १ ) श्रियः समुदयं प्राप्तुमिच्छता विजिगीषुणा समृद्धये राज्ञा प्रयत्नाद् अमित्रराज्यानि आच्छिद्य स्वराज्यं विविर्धनीयमित्युक्तम् । तत्रापि, कष्टतमाः खल्व- रयः कापटिककुयन्त्रव्यवहारिणो दस्यवः । तेभ्योऽपि राष्ट्रं रक्षणीयमित्येतदप्युक्तम् । अथेदानीं तदुद्धरणप्रकार- विवेकार्थं व्यवहारनिरूपणं प्रस्तौति व्यवहारानिति । ननु चैतत् प्रागेवोक्तम् -- 'इति संचिन्त्य नृपतिः' इत्यत्र । सत्यम् । गुणार्थस्त्वयमारम्भः, न कोशसंचिचीषयार्थप्रधा- नो भवेत् । धर्मशास्त्रानुसारेणैव व्यवहारान् नृपः पश्ये- दित्यर्थः । किञ्च विद्वद्भिः सह । प्रवक्तृत्वेऽपि ब्राह्मणानां नृपसहायोपयोगितैव | द्रष्टा तु निग्रहानुग्रह - (१) शुनी. ४/५०९-५१० र्य तु (योणि) समा (सुखे); व्यक. ७ तु (हि); स्मृचि. ७ व्यक्तं स ( स राजा); चन्द्र. १०४ र्यं तु (र्याणि) शेपं स्मृचिवत्; व्यसौ ५ समा (सभा) शेषं स्मृचिवत्; व्यप्र. ९२ व्यकवत्. (२) यास्मृ. २११; शुनी. ४।५०६ उत्त; विश्व.२।१; मिता. ; अप.; व्यक. ४; स्मृच. १४१.: २४; पमा. ६; व्यनि.; स्मृचि.२; नृप्र.२ सारे (रोधे): ५ पू.; सवि. १३,५४,६५; व्यसौ. १ रान् (रं); वीमि.; व्यप्र. १० : १४ उत्त.; व्यउ. ६; व्यम. २; विता. ३; राकौ. ३८२; प्रका. ६; समु. ९. 1