७० व्यवहारकाण्डम् चरित्रं संग्रहे पुंसां राज्ञामाज्ञा तु शासनम् || राज्ञः स्वधर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः । अरक्षितुर्वा क्षेप्तुर्वा मिथ्यादण्डमतोऽन्यथा || दण्डो हि केवलो लोकं परं चेमं च रक्षति । राज्ञा पुत्रे च शत्रौ च यथादोषं समं धृतः ।। अनुशासद्धि धर्मेण व्यवहारेण संस्थया । न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ।। संस्थया धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् । यस्मिन्नर्थे विरुध्येत धर्मेणार्थं विनिर्णयेत् || शास्त्रं विप्रतिपद्येत धर्मन्यायेन केनचित् । न्यायस्तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥ सम्यग्व्यवहारदर्शनस्य सर्वलोक योगक्षेमसाधकतां श्लोकैराह - चतुर्वर्णेत्यादि । अयं राजधर्मः सम्यग्व्यवहार दर्शनरूपः, चतुर्वर्णाश्रमस्य चत्वारो वर्णा ब्राह्मणादयः आश्रमाश्च ब्रह्मचर्यादयो यस्मिंस्तथाभूतस्य, लोकस्य, आचाररक्षणात् स्वस्व समुदाचारपरिरक्षणाद्धेतोः, नश्यतां सर्वधर्माणां स्वतः क्षीयमाणानां सर्वेषां धर्माणां, प्रव र्तकः प्रोजीवकः । व्यवहारस्तावच्चतुष्पाद: । तत्पादानां स्वरूपं बला बलं चाह - धर्मश्चेति । धर्मा व्यवहारः चरित्रं राज शामन मिति चतुर्भिः पादैर्युक्तो, विवादार्थः विवादविष योऽर्थः । पश्चिमः एषु पादेषु पश्चिमः चरमः पादः, पूर्वबाधकः पूर्वान् पादान् बाधते सर्वपादापेक्षया प्रवल इत्यर्थः । धर्मादीनां स्वरूपमाह–अत्रेति । अत्र धर्मादिषु मध्ये, सत्ये स्थितः प्रतिष्ठितः धर्मः अर्थयाथात्म्यं धर्म पदार्थ इत्यर्थ: । व्यवहारस्तु साक्षिपु स्थितः साक्षि वाक्यविभावनीयो व्यवहारपदार्थ इत्यर्थः । चरित्रं लोकाचार:, संग्रहे ग्रामसमुहे दशग्राम्यादौ, पुंसां प्रति श्रितम् । राज्ञां आज्ञा तु इदमित्यमेवेति न्यायोपपत्ति युक्तो यथार्हदण्डप्रणयनादिर्नियोगस्तु शासनं राजशा मनपदार्थः । 1 अर्थान्नरकः भवति । एवमदृष्टसाधकता सम्यग्व्यवहार- दर्शनस्य दर्शिता । दण्डं प्रशंसति-दण्डो हीति । दण्डो हि, केवल एकोऽ- नितरसहायः, लोकं परं च इमं च रक्षति उभयलोकसुख- भोगसौभाग्यं प्रयोक्तः प्रयच्छति । कथंभूतोऽसौ, राज्ञा प्रयोक्त्रा, पुत्रे च शत्रौ च यथादोषं अपराधानुरूप्ये, समं धृतः अविशेषेण प्रयुक्तः । सम्यग्व्यवहारदर्शनस्य परमं दृष्टफलमाह - अनुशास- द्धीति । अनुशासत् लोकं न्याय्ये पथि स्थापयन्, कथं, धर्मण धर्मानुसारेण, व्यवहारेण साक्षिवाक्यानुसारेण, संस्थया लोकाचारेण, न्यायेन च चतुर्थेन न्यायोपपन्न- राजकीय निर्णयलक्षणेन चतुर्थपादरूपेण, चतुरन्तां चतुः- सागरपर्यन्तां, महीं जयेत् । यथोक्तप्रकारानुशासनमहिम्ना सार्वभौमत्वं राजा प्राप्नुयादित्यर्थः । धर्मादिपु ‘पश्रिमः पूर्वबाधकः' इति यत् पूर्वमुक्तं, तस्यापवादमाह-संस्थयेति । संस्थया महाजनाचारेण, धर्मशास्त्रेण मानवादिना च सह, शास्त्रं वा व्यावहारिकं शास्त्रं राजशासनं वा व्यावहारिकं साक्षिवचनं वा, यस्मि न्नथें विरुध्येत, यच्छब्देन तच्छन्दाक्षेपात् तमर्थ, धर्मेण विनिर्णयेत् धर्मशास्त्रानुसारेण विनिश्चिनुयात् । न तु तथा विधे विषये राजवचनसाक्षिवचनयोः प्रामाण्य मित्यर्थः । क्वचित् धर्मशास्त्रमपि न्यायेन वाध्यत इत्याह - शास्त्र मिति । शास्त्रं मानवादिधर्मशास्त्रं, केनचित धर्मन्यायेन सर्वप्रकारोपपन्नेन धर्मयुक्तेन लोकाचारेण, विप्रतिपद्येत अत्यन्तवाधितार्थविषयतया विरुध्येत, यत्रेति शेषः । तंत्र, न्यायः, प्रमाणं अर्थनिर्णयहेतुः स्यात् । कुतः, तत्र पाठो हि नश्यति यस्मात् तादृशे विषये धर्मशास्त्रवचनं अदर्शनं प्राप्नोति, न प्रवर्तत इत्यर्थ: । 'कुद्दालपाणिर्थि ज्ञेयः सेतुभेत्ता समीपगः' इति सत्यपि स्मृतिवचने सेतो. भिन्नस्य समीपे कुद्दालहस्तं कमपि शिशुं तिष्ठन्तं दृष्ट्वा न कोऽयध्यवस्थति-अ नेनशिशुना सेतुर्भिन्न इति । श्रीम्. मनुः सभाप्रवेश: राज्ञ इति । राज्ञः, स्वधर्मः शस्त्राजीवो भूतरक्षणं च, स्वर्गाय भवति । कथंभूतस्य, प्रजा धर्मेण रक्षितुः | अरक्षितुर्वा अरक्षकस्य वा, क्षेप्तुर्वा मिथ्यादण्डं अय उत्थाय पश्चिमे यामे कृतशौचः समाहितः । (१) मस्मृ. ७११४५; सुनी. ४/५४६ पू.; स्मृच. १९ थार्हदण्डं प्रणेतुर्वा, राज्ञः, अतोऽन्यथा उक्तादन्यः प्रकार: ( हुत्वाऽग्नीन् ब्राह्मणानर्च्य प्रविधि शुभां सभाम् ); व्यनि,
पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४८
दिखावट