पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः सन्देहेऽपि चेत्येवमर्थ इहोपदेश इति । असति लिङ्ग- सन्देहे विरोधे चासति राज एव परिच्छेदकत्वं द्रष्टव्यम् । सभायास्तदुभयार्थत्वादिति । लिङ्गसन्देहे त्रैविद्यवृद्धैरेव प्रापयेत् न स्वयम्, यथास्थानं गमयेदित्यधिकारादेव | सिद्धे निष्ठां गमयेदिति पुनरारम्भात् । मभा. (३) निष्ठां गमयेत् यत्र पक्षेऽथ निष्ठितस्तं गमयेत् ।

  1. गौमि.

तथा ह्यस्य निःश्रेयसं भवति । (१) निःश्रेयसं शास्त्रोक्तं फलम् | उक्तं च नार फलम् -- --धर्मेणेति । अप. २।१ (२) किमेचं कुर्वतो भवतीत्याह- [--तथा इति । तस्य निर्णयं कुर्वतः निःश्रेयसमुभयलोकविजयित्वं अमुत्र धर्म- प्राप्त्या, इहापि जनानुरागादिति । इतिशब्दो हेत्वर्थः, यस्मादेवमिति । +मभा. ब्रह्म क्षत्रेण पृक्तं देवपितृमनुष्यान् धारयतीति विज्ञायते । एवं राज्ञो भवति, त्रैविद्यवृद्धानां तु सहायरूपे स्थितानां किं भवतीति तदनुरूपां श्रुतिमुदाहरति ब्रहो- त्यादि । ब्रह्म त्रैविद्यलक्षणं क्षेत्रेण राजा पृक्तं सहितं, राजा सह धर्मविवेचनं कुर्वदित्यर्थः । निरुपद्रवकर्मानु ठानद्वारेण 'इत: प्रदानं देवा उपजीवन्ति' इत्येवं देव- पितॄन् धारयति आहुत्यादिद्वारेण, अन्ननिष्पत्या मनु प्यान् । अतो राजमु प्रश्नविवेचनं धर्मायेति वक्तव्यम् । +मभा, महाभारतम् शास्त्रानुसारिणी समदर्शिनी बुद्धिव्यवहारे प्रमाणम् कामक्रोधावनाहय पितेव समदर्शनः । शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः || व्यवहारेण शुद्धेन प्रजापालनतत्परः । प्राप्य धर्मं च कीर्ति च लोकावाप्नोत्युभौ शुचिः || + गौमि. गभावत् ।

  • तात्पर्य मभावत् ।

(१) गौध. १११२८; अप. २११ था य (हा); व्यक.७५ (हा) ति (तीति); मभा.व्यकवत् ; गौमि. १११२६; स्मृवित्रः व्यसौ.४ स (चा). (२) गाँध.१११२९; मभा. ; गाँमि. १११२ ७पृक्तं (संपृक्त) (४) भा. १२/०५/२. (३) भा. १२२४१४. ६९ अंथ योऽधर्मतः पाति राजाऽमात्योऽथवात्मजः । धर्मासने संनियुक्तो धर्ममूले नरर्षभ । कार्येष्वधिकृताः सम्यगकुर्वन्तो नृपानुगाः । आत्मानं पुरतः कृत्वा यान्त्यधः सह पार्थिवाः ।। साक्षिबलभनुगानं चार्थनिर्णये प्रमाणम् बलात्कृतानां बलिभिः कृपणं बहुजल्पताम् । नाथो वै भूमिपो नित्यमनाथानां नृणां भवेत् || ततः साक्षिवलं साधु द्वैधवादकृतं भवेत् । असाक्षिकमनाथं वा परीक्ष्य तद्विशेषतः ।। संर्वतः सत्कृतः सद्भिर्भूतिप्रवरकारणैः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं व्यवस्यति || यञ्चतुर्गुणसंपन्नं धर्म ब्रूयात्स धर्मवित् । अहेरिव धर्मस्य पदं दुःखं गवेषितुम् || यथा मृगस्य विद्वस्य पढ़मेकप नयेत् । लक्षेत्रुधिरलेपेन तथा धर्मपदं नयेत् ।। अर्थिनामुपसन्नानां यस्तु नोपैति दर्शनम् । सुखेषु सक्तो नृपतिः स तप्येत नृगो यथा ॥ यदि त्वादेयोऽपि वादो न दृश्यते तदा प्रत्यवायिता । चन्द्र. १०४ राधा स्वयं व्यवहारो द्रष्टव्यः अंतध्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥ तस्मान्नित्यं यतेद्राजा व्यवहारेक्षणे स्वयम || कौटिलीय अर्थशास्त्रम् धर्मव्यवहारचरित्रगत शासनानि व्यवहारप्रमाणानि । तेषां ग्रामाण्यतारतम्यव्यवस्था च | चतुर्वर्णाश्रमस्यायं लोकस्याचाररक्षणात् । नश्यतां सर्वधर्माणां राजधर्म: प्रवर्तकः ।। धर्मश्च व्यवहार चरित्रं राजशासनम् । विवादार्थचतुष्पादः पश्चिमः पूर्वबाधकः ।। अत्र सत्ये स्थितो धर्मा व्यवहारस्तु साक्षिषु । (१) भा.१२२८५११६-१९. (२) भा. १२१ १ ३२११९२१. (३) व्यक७ पग (पप); वि.१३ पु (प्र); चन्द्र. १०४; ५ववत् व्यप्र.९२. (४) व्यक. ७; स्मृचि. ७न्यपि (निच); व्यसौ.५ .५न्ति विच श्रृणाः (न्त्यतिंपशुलाः). (५) व्यक. ७; व्यसौ. ५. (६) कौ. ३११.