पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ वाधुपिकाः | कारवः अयस्कारादयः । स्ववर्ग इति वक्तव्ये वीप्सावचनं न केवलं कर्षकादय एवं स्ववर्ग प्रमाणं, किन्तु ब्राह्मणादयोऽपीति । तत्रापि स्मृत्यन्तर सामर्थ्यात् व्यवश एवं प्रष्टव्याः | 'स्ववर्ग व्यवरा धर्मान् प्रनयुः' इति प्रजापतिवचनात् । 'आम्नायैर- विरुद्धाः प्रमाणम्' इत्युक्तत्वात् । यदि ते तद्विरुद्धं ब्रूयुः तदा सर्वैर्ब्राह्मणसकाशं गन्तव्यं तेषामेव तदविरोधेन वक्तुं सामर्थ्यमिति । 'तस्य व्यवहार' इत्युक्तत्वात् । तत्राऽप्यपरितोषे राजसकाश गन्तव्यं इति द्रष्टव्यम् । व्यवहारकाण्डम् तत्र तेनाऽप्याम्नायाविरोधेन वक्तव्यत्वात् एकस्यैव तदविरोधज्ञापनभामर्थ्याभावात् तज्ज्ञैः ब्राह्मणैः सह ब्रूयादिति अर्थसिद्धम् । तथा च मनुः - 'व्यवहारं दिदृक्षुस्तु ब्राह्मणैः सह् पार्थिवः' इत्यादि । मभा. (२) एते स्वे म्वे वर्गे स्ववर्गसंवेदे प्रमाणम् । *गौमि. तच्छिष्टानुसारेण गया तद्ववहारो निर्णय: तेभ्यो यथाऽधिकारमर्थान्यवहत्य धर्मव्यवस्था । (१) इदानी यदि कर्षकादयो राजानमेव गच्छेयुः तदा कथं राजा परिछिनत्ति इत्याह - तेभ्य इत्यादि । तेभ्यः कर्षकादिभ्यः, यथाऽधिकारं यो यत्राधिकृतः प्रतिवर्ग स्थित इत्यर्थः, अर्थानाचारान् प्रत्यवद्दय स्वयमेव सम्यक् पृथक पृथग्विचायेंत्यर्थ: । कुत एतत् ? अवहत्येति वक्तव्ये प्रत्यवहृत्येय मात् । ततो धर्म व्यवस्था कर्तव्येति शेषः । तत्त्वपरिच्छेदः कर्तव्य इत्य भिप्रायः । ब्रूयादिति वक्तव्ये व्यवस्थाग्रहणं राज्ञा परि- चिन्नस्य पुनर्निवृत्तिर्मा भूदिति । एवं चापरितोषेऽन्यत्र सिद्धस्यापि पुनः पुनः करणमस्तीति ज्ञापयति । धर्म- वृद्धचैव व्यवस्थापयेत् नार्थाशयेति धर्मग्रहणम् । मभा. (२) ततश्च कर्षकादिपु धर्मविप्रतिपत्तौ सत्यां - तेभ्यो यथेति । तेभ्यस्तत्तद्वगंभ्यो, यथाधिकारं ये यत्र वगे व्यवस्थापकत्वेनाधिकृताः, तेभ्योऽर्थानाचारप्रकारान् प्रत्यवद्दय श्रुत्वा अवधार्य, धर्मव्यवस्था कार्या | इत्थमम्माकं निकाम आचार इति तैरुक्ते तथैव व्यवस्थाप्यमिति | गौमि. ·

  • तात्पर्य भभावत् ।

(१) गाँध. १११२४; व्यक.८; मभा; गौमि. ११।२२; व्याने; व्यसौ ६; प्रका. ९.; समु. १३. विवाद्यार्थनिश्चये तर्क उपाय: न्यायाधिगमे तर्कोऽभ्युपाय: | तेनाभ्यूह्य यथा- स्थानं गमयेत् । (१) न्याययुक्तस्याधिगमे अवधारणे तर्क: अनु- मानमभ्युपाय: । प्रथमोपाय इत्यर्थः । तथाह नारद:- 'यथा नयत्यसूक्यातैः' इत्यादि । तेनानुमानेनाऽभ्यूह्य, यथा मनु:- 'आकारैरिङ्गितैः' इत्यादि । यथास्थानं यथातत्वं गमयेत् प्रापयेत् । मभा. (२) यथास्थानं, यत्र पक्षेऽर्थस्तत्र । (३) न्यायाधिगमे धर्माधिगमे । गौमि, स्मृच. २४ (४) मिता, टीका न्यायज्ञाने तर्क: उपायः । तेन तर्कण न्यायमव्यूह्य यस्मिन्विषये न्यायो योजनीय- स्वत्स्थानं गमयेत् । अथवा यथास्थानं न्यूनातिरेकरहितं यथातथा गमयेदिति । Xमुचो. २।२० निर्णयसहकारिणो वेदशा ग्राह्या: विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् । (१) विचारकाणामन्योन्यविप्रतिपत्तौ । निष्ठां समाप्ति निर्णयम् । अप. २११ (२) विप्रतिपत्तिः एकस्यैव तर्कणावधारणासामर्थ्य, अतिसौक्ष्म्यात्कार्यस्प उभयथा लिङ्गदर्शनाच्च, तस्याम् । त्रैविद्यवृद्धाः सकलवेदत्रयपारगाः, तेभ्यः प्रत्यवहृत्य अव- गम्य अस्येदं लिङ्गं अस्य परिच्छेदकं, पूर्वमस्येदं लिङ्गमिदानी लिङ्गान्तरमिदं किं परिच्छिनत्तीत्येवमादि विचार्य तत्त्वं ज्ञात्वेत्यर्थः । आम्नायाद्यविरोधपरिज्ञापनार्थं ये महाया उक्तास्त एवानूद्यन्ते त्रैविद्यलक्षणप्रापणार्थम् । यथाह् मनुः–‘मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम्' इति । तत्रैव वक्तव्यमिति चेन्नैप दोपः, आम्नायाविरुद्ध विचारणायामेव न केवलं तैर्विचारः क्रियते किन्तु लिङ्ग

  • तात्पर्य मभावत् ।

X बाल सुबोवत् । (१) गौध.१११२५-२६; मिता. २१२० भ्यू (भ्युपेत्य); अप.२।१ पायः (पेयः) भ्यू (त्यू); व्यक. ५; मभा; गौमि. ११ । २३-२४; स्मृच.२४; स्मृाचे. ६; व्यसौ. ४; व्यप्र. ८८, १००: विता. १०७; प्रका. १४; समु. १०. (२) गाँध. ११ १२७; अप. २११; व्यक. ५; मभा.; गौमि. ११ १२५; स्मृचि. ६; व्यसौ. ४.