पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शनविधिः वेदाः सुनीतिभिर्नयसि त्रायसे जनम् । हे बृहस्पते, सुनीतिभिः शोभनं नीतयो येषु ते मुनी- तयः सन्मार्गाः तैः, जनं नयसि अपेक्षितफलं प्राप बसि । त्रायसे जनमापद्भयो रक्षसि च । गौतमः ऋसा. व्यवहारप्रमाणं वेदादिरूप आम्नाय: तेस्य च व्यवहारो वेदो धर्मशास्त्राण्यङ्गान्युप- वेदाः पुराणम् । (१) व्यबन्दियते निर्णीयते येन वेदादिना प्रमाणेन म व्यवहारः । अप. २११ (२) तस्य प्रजापालनाधिकृतस्य राजो व्यवस्थासाधना न्येतानि वेदादीनि प्रसिद्धानि | वेदे ‘गर्नारुगिव सनये अनानाम्' इत्यादिव्यवहारदर्शनात्, धर्मशास्त्रे वर्णाश्र- मादिप्रतिपादनात्, अङ्के शब्दादिव्यवस्थाप्रतिपादनात उपवेदे अस्त्रादिव्यवहारप्रतिपादनात्, पुराणे जगत्स्थिति- विज्ञानात् । विसमास: पूर्वस्य पूर्वस्त्र बलीयस्त्वज्ञापनार्थः । ततश्र पूर्वोत्तरविरोधे पूर्वांत मेवाचरेत । व्यवहारतत्वदर्शने वेदादीन्यङ्गानि भवन्तीति व्यवहारशब्देनोच्यन्ते । एता- न्यालोच्य व्यवहारान् स्थापयेदित्यर्थः । मभा. (३) व्यवहारो लोकमर्यादास्थापनम् । *गौमि. आम्नायाविरोधिदेशादिधर्मा व्यवहारप्रमाणम् देश॑जातिकुलधर्माश्चाम्नायैरविरुद्धाः प्रमाणम् । (१) देशधर्मः कौतुकमङ्गलादिः । जातिधर्मः आभी-

  • वाक्यार्थी मभावत् ।

(१) ऋसं. २१२३१४. (२) गौध. १११२१; अप. १११ (च०) दाः (दः); व्यक. '१; मभा.; गौमि.११।१९; स्मृचि.६; व्यसौ.४. (३) गौध. ११ १२२; व्यक.८; मभा; गौमि. ११ । २०; ममु. ८।४१ विरुद्धाः (प्रतिषिद्धाः); व्यनि; मच. ८।४१ (आ- 'नायाविरुद्धा देशजातिकुलधर्माप्रतिषिद्धाः प्रमाणम् ); व्यसौ. ५; व्यप्र. २२ आपस्तम्ब:; प्रका. ९; समु. १३. रादीनां दन्तरागाभावादिः (?) । कुलधमां दक्षिणतश्रृद्धा वासिष्ठानामित्यादिः । आम्नायैवेदधर्मशास्त्रादिभिः पूर्वोत्तौः बहुवचनप्रयोगात्, अविरुद्धाः अबाधिताः प्रमाणम् । वक्ष्यमाणानां कर्षकादीनामप्याम्नायाविरुद्ध त्वज्ञापनार्थश्चकारः । देशधर्मादीनपि सम्यक् ज्ञात्वा आम्नायाविरोधेन ग्रहीयात् । विरोधे त्यक्तव्या इत्येव मर्थमुपदेशः । मभा. | (२) देशधर्मपु जातिधर्मषु च प्रतिनियतमनुष्ठीय मानेषु यद्यपि वेदादि मूलभूतं नोपलभ्यते तथाऽपि यदि वेदादिभिर्विरोधो न भवति, तथैव ते परिपालनीया न तु मुलानियोगेन विहन्तव्या इति । तत्र देशधर्मा: मेपस्थे सवितरि चौलेषु कुमायाँ नानावर्णै: रजोभिर्भूमा वादित्यं सपरिवारमालिख्य सायंप्रातः पूजयन्ति । मार्ग- शीष्यों चालङ्कृता ग्रामे पर्यस्य यल्लब्धं तद्देवाय निवेद यन्ते । कर्कटस्थे सवितरि पूर्वयोः फल्गुन्योभंगवतीमु मामाराध्य यथाविभवमरुद्भय अङ्कुरितं मुद्गलवणं च प्रयच्छन्ति । मीनस्थे सवितर्युत्तग्योः फल्गुन्योर्गृहमेधिनः श्रियं देवीं पूजयन्ति। जातिधर्माः शूद्रा विवाहे मध्ये स्थूणां निखाय सहस्रवतीरकस्यां स्थायां निभाय प्रति- वर्ति दीपानारोग्य वधूं हस्ते गृहीत्वा प्रदक्षिणयन्ति । अन्यदध्येवंजातीयकं द्रष्टव्यम् । कुलधमों केचिन्मध्य- शिखाः। केचित्युष्टशिखाः । प्रवचनादयस्तु कालभेदे नोभयतः शिखाः । संवन्धतेस्तैः स्वर्गैरिति । ये त्याम्नायविरुद्धा मातुत्यमुतापरिणयनं, अनधीत्य वेदा नन्यत्र श्रम इत्यादयो देशधर्मा ने प्रमाणम् । गौमि. कपकवणिगादिपु तवर्गायाः शिवः प्रमाणम् कर्षकवणिक्पशुपालकुमीदिकारवः स्वे स्वे वर्गे । (१) प्रमाणमिति वर्तते । राजनि प्रष्टुमशक्ये स्ववर्ग एव प्रप्रव्य इत्येवमर्थ उपदेशः । कर्षकाः कृपिजीविनः । वणिजः प्रसिद्धाः | पशुपाला गोपालाः | कुसीदिनों (१) गाँध. १११२३; व्यक. ८ सीदि (सीद); मभा.; गौनि ११ १२ १ ; व्यनि. व्यकवत् ; व्यसौ. ५-६; प्रका. ; समु. १३.