सामग्री पर जाएँ

पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ (३) इदं वचनं स्मृतिचन्द्रिकायाममात्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णय इत्येवंपरमुक्तं | दोपा तिशयकीर्तनात् । कल्पतर्वादिषु तु प्रकरणाद्व्यवहार दर्शन एव शूद्रवर्जकत्वेन लिखितम् । अयं च प्रति पेधोऽदृष्टार्थ एव । राष्ट्रक्षोभादेरदृष्टद्वारकफलस्यैव संकी र्तनात् । चण्डेश्वरेण तु शूद्रस्य धर्मज्ञानेऽपि वेदाः विरोधप्रतिसंधान विरहात्तत्प्रतिसंधानस्य च सम्यनिर्ण योपायत्वात् त्याग इति युक्तिरयुक्ता | सा वणिगा दिष्वप्यतिप्रसक्तं व्यन्वाचयमात्रम् |

  • व्यप्र.२५

शूद्रस्य श्रौतस्मार्तधर्मोक्तिनिषेधः व्यवहारकाण्डम् यंः शूद्रो वैदिकं धर्म स्मार्तं वा भापते यदि । तस्य दण्डं द्वे सहस्रे सृकिणी चैव भेदयेत् || दुःशीलोऽपि द्विजः पूज्यो न शूद्रो विजितेन्द्रियः | दुष्टां गां कः परित्यज्यार्चयेत् शीलवतीं खरीम् ॥ प्रशस्तसभ्यः अर्थिप्रत्यर्थिनौ सभ्यान लेखकं प्रेक्षकांच यः । धर्मवाक्यै रञ्जयति स सभास्तारतामियान् ॥ (१) सभ्येष्वप्यर्थ्यादिरअकः सभास्तारोऽखिललोक श्लाघ्यो भवतीत्याह अर्थाति । स्मृच. २० परस्परं विसंवाद सन्देहात्कुर्वतो नरान् । यस्तेषां संशयच्छेत्ता स सभ्यः प्राणदः स्मृतः ॥ नरान् विवदतः, निवार्य इति शेषः स्मृच. २१ गणकलेखकसाध्यपाला: त्रिस्कन्धज्योतिपाभिज्ञं स्फुटप्रत्ययकारकम् । श्रुताध्ययनसंपन्नं गणकं योजयेन्नृपः ॥ स्फुटलेखं नियुञ्जीत शाब्दलक्षणिकं शुचि । स्पष्टाक्षरं जितक्रोधमलुब्धं सत्यवादिनम् ||

  • व्यउ व्यप्रवत् ।

(१) व्यत. १९८. (२) शुनी. ४/५३६-५३७; स्मृच. २० धर्म (धर्म्य) सभास्तार (सभ्य:श्राव्य); व्यप्र. ३२ कं (क); व्यउ. १९ व्यप्रवत् ; प्रका. ११; समु. ८. (३) स्मृच. २१; प्रका. ११; समु. ८. (४) स्मृच. १७; पमा. ३०; व्यप्र. ३२ योज (कार); व्यउ.१८ स्फुट (स्फुटं) योज (कार); प्रका.८ स्फुट (स्फुटं); समु.६. (५) स्मृच.१७; पमा. ३० बदलक्ष (ब्दं लाक्ष) चि (चिम्); व्यप्र. ३२ शाब्दल (शब्दला) चि (चिम्); व्यउ. १८ सांध्यपालस्तु कर्तव्यो राज्ञा साध्यस्य साधकः । क्रमायातो दृढः शूद्रः सभ्यानां च मते स्थितः || त्रिस्कन्धज्यौतिषाभिज्ञं होरा, गणितं, संहितेत स्कन्धत्रयसहितज्योतिःशास्त्राभिज्ञमित्यर्थः । श्रुताध्ययन संपन्नमिति विशेषणं गणकस्य द्विजातित्वख्यापनार्थम् । शुद्रादेस्तदसंभवात् । लेखकोऽपि तत्साहचर्यात् द्विज एव । अत एव साध्यपालस्य द्विजत्वपरिहारार्थ साध्य पाल इति । शुद्रग्रहणं तेनैव कृतम् | साध्यस्यार्थि प्रत्यर्थिमाश्यादीनामाह्वानादिकार्यस्येत्यर्थः । X स्मृच.१७ गुरुस्वामिकुटुम्बिपिताज्येष्ठबन्धुपितामहकुलग्रामश्रेणि गण- राजाधिकृतानां स्वस्वविपये निर्णयाधिकारः कार्येष्वधिकृता राज्ञा ग्रामश्रेणिगणाः कुलम् || गुरुः स्वामी कुटुम्बी च पिता ज्येष्ठः पितामहः । विवादानपि पश्येयुः स्वाधीने विपये नृणाम् || वणिशिल्पिप्रभृतिषु कृषिरङ्गोपजीविषु | अशक्यो निर्णयो ह्यन्यैस्तज्ज्ञैरेव तु कारयेत् ॥ (१) वणिगादिसमयेषु समधिभिरेव निर्णतव्यम् । तदाह व्यास:- वणिगिति । पमा ४१ (२) उपलक्षणं त्वेतत् । यो यत्र विज्ञस्तत्साहित्येन तन्निर्णतव्यमित्यर्थः । व्यचि. ५ (३) एतदुक्तं भवति, सर्वपु समयेषु शास्त्रोक्तवर्गेण स्वसमयेन निर्णांतो व्यवहारः सिध्यति इति । तत्रोत्तरः पूर्वस्मात् पूर्वस्माद्गुरुः । तत आनृपाद्दर्शनं पुनर्युज्यते । नृपेण दृऐ व्यवहारे उत्तरोत्तरस्याऽभावात् पुनः व्यनि. प्रमङ्गो नास्ति । (४) [एतानि वचनानि] न सर्वथा राज्ञो व्यवहार- X व्यप्र. स्मृचवत् | * वीमि व्यचिवत् । शाब्दलक्षणिकं शुचि (शब्दान् लाक्षणिकान् शुचीन्) स्पष्टा (स्फुटा); प्रका. ९; समु. ६. (१) स्मृच. १ ७; पमा ३०; व्यप्र. ३१; व्यउ १८; व्यम. ३; विता. ११; प्रका. ९; समु. ६. ( २ ) व्यनि.; प्रका. १०; समु. ११. (३) पमा ४२ दानपि (दं नैव); व्यनि.; प्रका. १०; समु. ११ नपि (नथ). (४) शुनी. ४/५२० उत्त.; पमा. ४२; व्यचि. ४-५ भृतिषु (योगे तु) न्यैस्तज्ज्ञैरेव तु (त्र तत्वज्ञैरेव) नारदः; व्यनि. वीमि. २१२ भृति (योगे) शेषं व्यचिवत्, मनुः; व्यप्र. २३ ज्रेवतु (दीयैरेव); व्यउ.१४; व्यम. ४; विता. २६ ह्यन्यैस्तज्ज्ञैरेव तु (ह्येषु तदईरेव) उत्त.; प्रका. १०; समु. ११.