पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कार्य इत्युभयोरुपादानम् । असमाधेयविरोधे तु शास्त्र मे- बादरणीयं, तस्य बलवत्त्वादिति वक्ष्यति । श्रव्यमा.२७८ (२) मिता. टीका - स राजा । मौलै: पितृपितामहा गतैः । अर्थशास्त्रमौशनसादि । सुबो. २२ वणिजां व्यवहारसभायां नियोजनम् कुंलशीलवयोवृत्तवित्तवद्भिरमत्सरैः । वणिग्भिः स्यात्कतिपयैः कुलभूतैरधिष्ठितम् || (१) तथा राष्ट्ररञ्जनार्थ राज्ञा कतिपयैर्वणिग्भिरपि सह संसदि स्थातव्यमित्याह - कुलशीलेति । कुलभूतैः नृन्दभूतैरित्यर्थः । + स्मृच.१७ Xव्यचि.४ (२) करणमित्यन्वयः । करणं सभा | (३) कुलभूतैः वृद्धैरित्यर्थः । व्यप्र. ३१ श्रोतारो वणिजस्तत्र कर्तव्या न्यायदर्शिनः || तेषां कार्यमप्याह स एव श्रोतार इति । स्मृच.१७ गणकलेखकराजपुरुपनियोजनम् सँभ्यानां ये विधेयाः स्युह्युक्तास्ते राजपूरूपाः । गणको लेखकश्चैव सर्वांस्तान विनिवेशयेत् राज्ञा स्वस्थाने ब्राह्मण: प्राइविवाको नियोज्य: यंदा न कुर्यान्नृपतिः स्वयं कार्यविनिर्णयम् । तदा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् || अव्यचि. व्यमावत् | +पमा स्मृचवत् । Xव्यत. व्यचिवत् । (१) मिता. २१२; व्यक. १२ ; स्मृच. १७ वृत्त (वृद्ध) वद्भि (विद्भि); पमा. ३१; व्यचि.४; व्यनि.) स्मृचि.४; व्यत.१९९मत्सरैः (धिष्ठितम्) भूतै (); व्यसौ.९; त्रीमि. २१२; व्यप्र. ३१; व्यउ.१७: विता. १०; राकौ.३८३; प्रका. ९; समु. ६. (२) शुनी. ४/५२७ न्यायदर्शिन: (सुविचक्षणा:); स्मृच. १७; पमा ३१; सवि. ६६ श्रोता (चतु); व्यप्र. ३१ न्याय (कार्य); व्यम. ३; विता. १० न्यायदर्शिनः (नयदर्शिना); प्रका. ८; समु. ६. ( ३ ) व्यक. १२; स्मृचि. ४ ह्युं ( र्यु); दवि. १५ स्मृचिवत्. (४) शुनी. ४/५१३ शास्त्र (वेद); व्यमा. २७९ (यदि कार्यवशाद्वाजा न पश्येत्कार्यनिर्णयम् ) तत्र नियुञ्जीत (नियुञ्ज्यात ‘वेद्वांसं) शास्त्र (वेद); व्यक.१० ( यदा कार्यवशाद्राजा न पश्ये कार्यनिर्णयम्); स्मृच. १६; रार. १८ व्यकवत् ; व्यचि. ३ बाधं व्यकवत्, उत्तरार्धं व्यमावत् ; दवि . १४ व्यकबत्; व्यत. १९८ व्यचिवत्; व्यसौ.७ यदा (सोऽस्य) शेषं व्यकवत्, संद्र- ध्य. का. ८ सभा ५७ दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् | परत्र भीरुं धर्मिष्ठमुयुक्तं क्रोधवर्जितम् ।। (१) यदा कार्यान्तरवशादिति शेषः । स्मृच.१६ (२) कार्यवशात् राजकार्यान्तरवशात् । कार्यनिर्णयं भापोत्तरादिकम् । विद्वांसं वेदाविरुद्धतर्कक्षुण्णमतिम् । वेदपारगं परिशीलितधर्मशास्त्रम् | दान्तं तपःक्लेशसहम् । कुलीनं संकरादिदोपशून्यमातापिनुपरम्पराकम् | मध्यस्थं सर्वत्र समदृष्टिम् | अनुद्वेगकरं मत्सरपारुष्याद्यकर्तारम् । स्थिरं लोभाद्यनाकृष्टम् | परत्र भीरुं सदा परलोकसश- ङ्कम् । धर्मिष्ठं स्वर्णाश्रमविहितक्रियानिउम् | उद्युक्तं निरलसम् । क्रोधवर्जित तत्वविचारविरुद्धकोहीनम् । व्यचि. ३ एक शास्त्रमधीयानो न विद्यात्कार्यनिश्चयम् । तस्माद्ब्रह्लागमः कार्यो विवादेपूत्तमो नृपैः ॥ (१) बह्नागमो बहुशास्त्रज्ञः । व्यक. ११ (२) बागमग्रहणं गुणान्तरस्यापि प्रदर्शनार्थम् । स्मृच.१६ ब्राह्मणाभावे क्षत्रियंत्रेश्यों नियोज्यों, न शुद्रः ब्राह्मणो यत्र न स्यात्तु क्षत्रियं तत्र योजयेन । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् || (१) एवंभूतब्राह्मणाऽसंभवे क्षत्रियं वैश्यं वा नियु ञ्जीत न शूद्रम् | यथाहकात्यायन: - ब्राह्मणो यत्रेति । मिता. २१३ ण मनु:; व्यप्र. २५; व्यउ.१५, सेतु.९४ व्यचिवत; प्रका. 4; समु. १; विव्य. २ व्यकवत. (१) शुनी. ४५१४; मिता. २१३; व्यमा. २७९; व्यक. १०; स्मृच १६ दान्तं (दक्षं); व्यचि. ३; स्मृचि. ३; व्यसौ. ७ मनुः; वीमि. २१३; व्यप्र. २५; व्यउ. १५; प्रका. ८ स्मृच- वत्; समु. ५ स्मृचवत्. (२) शुनी. ४१५३४ निश्च (निर्ण); अप. २१२ यानी (ते यो); व्यक. ११; स्मृच. १६ नृपै: (नृपः); रार.२३ एकं ( एवं ) निश्च (निर्ण) बह्ला (दुगां)प (नो); स्मृचि.४; व्यसौ.८ निश्च (निर्ण); व्यप्र. २५ व्यसौवत्; विता. ७ व्यसौवत्, मदनरस्ने कात्यायनः; प्रका.८; समु. ५ व्यसवत्. (३) मिता. २१३; स्मृच. १७; पमा. २९; स्मृचि.३; नृप्र. २, ४ तु (चत्); मच. ८।२०; प्रका.८; समु. ५.