पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा धिकृतानां राजभयादपि पक्षपातदाक्षिण्याद्यसंभव इति पूगेभ्यो बलवत्तरत्वम् । प्राविवाकस्य पुरोहितामात्यानां च सुतरां प्रागुक्तहेतुद्वयादाधिक्यम् । नृपस्य साक्षा देव प्रजापालनाधिकाराद्विपक्षबाधकीभूतदोपाधिक्यात् 'अन्यायं कुरुते यदि पतिः कस्तं निरोद्धुं क्षम' इति न्यायेन प्रजाप्रक्षोभादिदृष्टस्पष्टदोषभयादवश्यमपक्षपातिता संभव- तीति सर्वतो बलवत्तरत्वम् । बुद्धितारतम्यमपि बृहस्प तिवचने स्पष्टमिति । व्यप्र. ३० (३) साहसाख्यव्यवहारपदातिरिक्तदर्शनाधिकृतनि- णीतव्यवहारः परावर्तत इत्यर्थः । अत्र लोभादिशकैव परावृत्तौ मूलम् । तत्र वादिनोरन्यतरस्य अन्यथादर्शनो- द्भावकस्य द्विगुणो दण्डः । अन्यथादर्शने सभ्यानां स्मृत्युक्तो दण्ड इति । व्यउ. २० तपस्विमायायोगविदां कार्यनिर्णायकाः तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् । मायायोगविदां चैव न स्वयं कोपकारणात् || येपां कोपात्तृभयं भवति तेषां विचार: तज्जातीय- द्वारैव कारयितव्यः । Xव्यचि. ५ गणकलेखको सभायां नियोज्यों शब्दाभिज्ञानतत्त्वज्ञौ गणनाकुशलौ शुची । नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥ शब्दाभिधानं कोशः । गणको ज्योतिर्वित् । लेखको व्याकरणकोपवेत्ता । द्वावपि योगरूढी । उभ x वीमि व्यचिवत् । (१) शुनी. ४/५२१-५२२; व्यमा. २८१ बृहस्पतिकात्या यनी; व्यक. १३तु (च) बृहस्पतिकात्यायनौ; उयचि.५;व्याने. (मायायोगविदां चैवमात्मीयैव कारणम् ); दवि . १६ बृहस्पति- कात्यायनौ; व्यसौ ९; वीमि. २१३ नारदः; व्यप्र. २३; व्य. १४; विता. २६ कारणात् (येन्नृपः) क्रमेण तु व्यासः; प्रका. १० न स्वयं(नामीयं) णात् (णम्); समु.११ प्रकावत्. (२) शुनी. ४५४२ ज्ञान (धान); अप. २ | २ क्रमेण मनुः; व्यक.१२ ज्ञान (धान); स्मृच. १७ व्यकवत् ; रार. २४ व्यकवत् : पमा. ३०; व्यचि.४ व्यकवत् ; व्यनि. शुची (शुभ); सवि. ६६ शुची (अपि) शेपं व्यकवत् ; व्यसौ ९ शो कर्तव्यों (विदौ कार्यो); वीमि. २।२ व्यकवत् ; व्यप्र. ३२ व्यकवत् ; व्यउ. १८: व्यम. ३ राज्ञा (राजा); विता. ९व्यफबत् ; प्रका. ९ व्यकवत् ; समु.६. ६५ यत्र तयोरेव कुशलतेत्यर्थः । रार. २४ (२) शब्दो व्याकरणम् | अभिधानं कोशः ।

  1. व्यचि.४

आव्हानार्थं पुरुषो नियोज्य: आकारणे रक्षणे च साक्ष्यार्थप्रतिवादिनाम् । सभ्याधीनः सत्यवादी कर्तव्यस्तु स्वपूरुषः || (१) आकारणम् आव्हानम् | स्वपूरुषः क्रमायातो यः स सभ्याधीनः कर्तव्यो राज्ञा । स्मृच. १७ व्यचि.४ (२) स्वपूरुपः प्रेष्यः । (३) अयं च साध्यपालनामा शूद्र एव । +व्यप्र. ३१ भृगुः पञ्चदश व्यवहारसभाः देश स्थानानि वादानां पञ्च चैवाब्रवीद्भृगुः । निर्णयं येन गच्छन्ति विवाद प्राप्य वादिनः ॥ आरण्यास्तु स्वकैः कुर्युः सार्थिकाः सार्थिकैस्तथा । सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः ॥ उभयानुमतं चैव गृण्हते स्थानमीप्सितम् । कुलिकाः सार्थमुख्याश्च पुरग्रामनिवासिनः || ग्रामपौरगणश्रेण्यश्चातुर्विद्यश्च वर्गिणः । कुलानि कुलिकाश्चैव नियुक्ता नृपतिस्तथा ॥ ( १ ) एवमेते श्रेष्ठ निर्णयस्थाने मन्त्रादिभिरुक्ते । भृगुणा तु यान्यपि निर्णयस्थानान्युक्तानि | दशेति । तानि च पञ्चदश स्थानानि तनैव दर्शितानि - आरण्या- स्वित्यादिभिः । अत्राद्यानि पञ्चस्थानानि अरण्यादिजन- विशेषाणामेव । ग्रामाकारेणावस्थितजनविवादे समीप

  • विता. व्यचिवत् । + व्यउ, ठयम, विता. व्यप्रवत् ।

(१) अप. २१२ कमेण मनुः; व्यक. १२; स्मृच. १७; पमा. ३१ स्व (स); व्यचि.४ तु स्व (शुद्ध); वीमि. २१२ व्यचिवत् ; व्यप्र. ३१ ; व्यउ. १ ८ ५ : (पै:); व्यम. ३; विता. १०; प्रका. ९; समु. ६. (२) स्मृच. १८; पमा. २४ विवादं प्राप्य ( वादं प्राप्य च); व्यप्र.८; व्य. ५; प्रका. ९; समु. २५. (३) शुनी. ४५२३५२४ तथा (सह); स्मृच. १८; पमा. २४ सिभिः (सिनः) ; व्यप्र.८; व्यउ.५; प्रका. ९; समु.६. (४) स्मृच. १८; पमा २४ ते (हन्ति); व्यप्र. ८ हते (ह्यते); व्यउ.५ मतं (मते); प्रका. ९; समु. ७. (५) स्मृच. १८; पमा. २४ य (चा ) ; व्यप्र.९; व्यड. ५ पमावत्; प्रका. ९; समु. ७.