पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ व्यवहारकाण्डम् विश्वस्तवञ्चाश्चैव निर्वास्या: सर्व एव ते || अज्ञानक्रोधवशादन्यथा वादिनस्तु विशेषोक्त्य भावात् सामान्येन सभ्यसंबन्धितया बृहस्पत्युक्तं तत्र व्यवतिष्ठते अन्यायेति । उत्कोचजीविन इत्येतत्सभ्येतर विषयम् । 'कूटसाक्षिणां सर्वस्वापहार उत्कोचजीविनां सभ्यानांच' इति विष्णुना सभ्यविषये सर्वस्वापहारस्योक्त त्वात् । यत्तु कैश्चिदन्यथावादे 'मोहात् सहस्रं दण्ड्या स्तु' इत्यादि मनुवचनोक्तद्विशतादिदण्डवैचित्र्य मुक्तं तद्याज्ञवल्क्यवचनतो 'रागादावेव द्विगुणो दम इति नियमादशानादौ दण्डान्तरं मृग्यमित्येवंपरं न पुन र्मनुवचनबलेन द्विशतादिदण्डप्रतिपादनार्थम् । 'एतानाहुः कौटसाध्ये प्रोक्तान् दण्डान् मनी पिण: । इति उपसंहारतो मनुवचनस्य साक्ष्यपराध विषयत्वात् । तस्मादज्ञानादौ बार्हस्पत्यवचनविहितो दमः सभ्यविषयोऽनुसंधेयः । स्मृच.२२-२३ व्यवहारनिर्णयेऽनधिकारिण: देशाचारानभिज्ञा ये नास्तिका: शास्त्रवर्जिताः । उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये || कुलश्रेणिगणादीनां साहस भिन्नपदेषु निर्णयाधिकारः राज्ञो ये विदिताः सम्यक् कुलश्रेणिगणादयः । साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥ अरण्यचरसैनिकवणिजां न्यायस्थानम् 3 ये त्वरण्यचरास्तेपां अरण्ये करणं भवेत् । सेनायां सैनिकानां तु सार्थेषु वणिजां तथा ॥ करणं सभा । व्यक. १२ (१) अप. २१२; व्यक. १२; स्मृच. १५; रार.२४ क्रुद्धलुब्धा (लुब्धक्रुद्धा); पमा.२७ क्रुद्धलुब्धार्ता ( लुब्धक्रुद्धाश्च ) ; व्यनि. (उन्मत्ता: क्रुद्धभावाश्च न नियोज्या विनिर्णये ) व्यासः; नृप्र.४ व्यसौ.; त्रिता. ९; प्रका. ७; समु. ६. पमावत; (२) शुनी. ४/५३० शो (ज्ञा) न्याय (स्तेय); व्यक. १२ शो (शा); स्मृच. २० व्यकवत् ; पमा ३२ व्यकवत् ; दीक्र. ३४ ; दवि.१५ व्यकवत्; नृप्र.५ विदि (विहि); सवि.६८शो(शा) विदि ( भिहि ); व्यसौ.९; व्यप्र.३०; १९; विता.१६; प्रका. ११; समु. ८. (३) व्यमा. २८ १ ण्ये (ण्य) पु (तु) ; व्यक. १२; व्यचि.४ तु (च); दवि. १५; व्यसौ. ९; व्यम. ३ त्वर (चार); विता. १७ व्यमवत् ; प्रका.९ व्यमावत् ; समु. ६ व्यमावत्. कुलश्रेणिगण नियुक्ताध्यक्षराशामुत्तरोत्तरं प्रामाण्ये बलवत्वम् कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारिणः । येपामग्रे निश्चितस्य प्रतिष्ठा तूत्तरोत्तरा ॥ विंचार्य श्रेणिभिः कार्य कुलैर्यन्न विचारितम् । गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ।। कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षोऽधिकः कृतः । सर्वेषामधिको राजा धार्य यत्नेन निश्चितम् || उत्तमाधममध्यानां विवादानां विचारणात् । उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ॥ (१) कुलं वादिनोवैश्याः । आदिपदात् श्रेणिः गणश्च । तत्र श्रेणिः वणिगादिसमूहः । गणो विप्रसमूहः । सभ्यः नियुक्तः साधुः । अध्यक्षः प्राविवाकः । एतेषां राजान्तानां निर्णयकरणे उत्तरोत्तरस्य बलवत्त्वं ज्ञानो कर्णादित्यर्थः । व्यचि.४ (२) कुलादिपदार्था व्याख्याताः । गणशब्दः पूगपर्याय: । आदिपदेन सभ्यादिग्रहणम् | नियुक्तकाः सभ्याः । साहसाख्यं व्यवहारपदम् । युक्तिश्चात्रेयम्- कुलादीनां ज्ञात्यादिरूपाणां दाक्षिण्यादिना अन्यथा दर्श नमपि संभाव्यते इति कुदृष्टत्योद्भावकवचनेन राजादी- नामसंभवः । श्रेणीनामुदासीनतया ततो बलवत्ता । पूगानां त्वेकस्थानवासमात्रसम्बन्धेऽपि भिन्नजातितया भिन्नवृत्ति- तया च ततोऽपि मिथोऽनपेक्षत्वादौदास्याद्बलवत्त्वम् । नृपाधिकृतानां तु ततोऽपि निःसंबन्धतया राज्ञा परीक्ष्या- ( १ ) व्यक. १२ श्रेणि (श्रेणी) रिण : (रका :) येपा (एपा); दवि. १५ श्रेणि (श्रेणी) पू. : व्यप्र. ३०; व्यउ. १९; विता.१६. ( २ ) शुनी. ४ | ५३१; व्यक. १२ चारित (निश्चित); दवि.१५ चार्य (चार्य); व्यसौ १९ गणाशातं (गणाझानं)उत्त; व्यप्र. ३० विशातं (विख्यातं); व्यउ.१९. (३) शुनी. ४/५३२ धार्यं... १... तम् (धर्माधर्मनियोजकः); व्यक.१३ऽधिकः कृतः (स्मृतोऽधिक:) धार्यं (ध); व्यचि. ४ व्यक्वन्; दवि. १६ व्यकवत्, व्यसौ. १. ९ व्यकव वीमि. २ | ३० ऽधिकः कृतः ( स्मृतोऽधिक:) धार्य यत्नेन ( धर्मों यत्तेन) कात्यायनः; व्यप्र. ३० धार्य (धर्म); व्यउ. १९ कृतः (स्मृतः) धार्य (धर्म) तम् (तः). (४) शुनी. ४ | ५३३; व्यक. १३ बुद्धी (रङ्गा); व्यचि. व्यसौ. ९ पू.; वीमि. २८३० कात्यायन: ; व्यप्र. ३०; व्यउ. २०