पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ 'रौति धर्मः सभामध्ये भिद्यमानोऽनृतेषुभिः । अधर्ममग्रतः कृत्वा वध्योऽप्येष दुरात्मभिः || यंत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ व्यवहारकाण्डम् । (१) अत्र धर्मन्यायाचारस्य मूलं सभासद एव, प्रधानेऽप्रधाने च गुणदोषाः सज्यन्ते । तेन तान्प्रति पुन रिदमुक्तम् । यत्र धर्मोऽधर्मेण सत्यमनृतेन च प्रेक्षमा णानां सर्वेषामेव हन्यते, तदा हतास्तत्र सभासद एवं ये व्यवहारनियुक्तवादिनः । ये पुनरनियुक्तवादिनो निषिद्ध वक्तव्यास्तेषां धर्मे सत्यघातकमपि दूरवर्तीति । अभा. २९ (२) हताः उभयोलकियोस्तत्र सभासदः । वधश्च तेषामधर्मसंबन्धो धर्मनाशश्च । नाभा १९७२ विद्रो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते । न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ तत्र यथा लोकः शस्त्राऽभित्रातपीडितो वैद्यपार्श्वमा गच्छति । तत्र च ते सभासदस्तस्य तदवस्थधर्मस्य, अधर्मस्योद्धरण व्यापारनियुक्ताधिकारिणोऽपि यदा तत्प्राप शल्यं न कृन्तन्ति नापनयन्ति, तदा संक्रमणतन्त्रप्रयोग संक्रामितवृश्चिकविषेणैव उपेक्षितपापशल्येन त एव सभा- सदो विद्धा भवन्ति । अतः कारणादित्युक्तम् । अभा. ३० सभायां न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ॥ (१) अत्र सभ्यैः सभायामेककालमेव न प्रवेष्टव्यम् न पुनरधर्मन्याययुक्तमित्यर्थः । तथा तस्यां प्रविष्टः सभ्योऽब्रुवन् निर्णयप्राप्तावसरश्च विब्रुवन् धर्मन्यायवि परीतम् किल्चिपी भवति महापातकीत्यर्थः । अभा. ३० (२) वाशब्दो वक्ष्यमाणेन सह विकल्पार्थः । श्रद्धेय वाक्येनाधिकारो वा न प्रतिपत्तव्यः । यदि प्रविशन्नि- योगं वा प्रतिपद्येत, वक्तव्यं वा समञ्जसम् अधिकृतेन सह संमन्त्र्य । तस्मान्निर्गन्तव्यं भूतं वा द्रष्टव्यमिति । नाभा. १।७३ (१) vulg. नास्मृ. ३।७ एतस्यानन्तरं अयं श्लोको दृश्यते । (२) नासं. ११७२; नास्मृ. ३१८; अभा. २९. (३) नास्मृ. ३१९३ अभा. २९-३० समां (सभा). vulg. एतत् श्लोकानन्तरं 'धर्म एव हतो हन्ति' (मस्मृ. ८।१५) इत्यादिश्वोको दृश्यते । (४) नासं. ११७३ यां (वा) व्यं (न्या); नाम. ३१०; अभा. ३०; दवि. १७ सभायां (सभां वा). ये तु सभ्याः सभां प्राप्य तूष्णीं ध्यायन्त आसते यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः ॥ (१) ये सभ्या अधर्मविच्छेदस्थानभूतां सभां प्राप्य, वादिप्रतिवादिनोः संदेहविच्छेदार्थिनोरपि अन्यकार्य व्यासक्ता इव किञ्चिदन्यदेव कार्यान्तरं ध्यायन्त इव तूणी तथा आसते तिष्ठन्ति, एकस्य जयं द्वितीय पराजयमवसरप्राप्तमपि न ब्रुवते, ततस्ते सर्वेऽपि अनृत वादिसमाना राज्ञा द्रष्टव्याः | अनृतवादिविनययोग्या इत्यर्थः । अभा. ३० स्मृच.२३ (२) प्राप्तं युक्तमित्यर्थः । अधर्म्यनिर्णये दोपभागिन: । धर्म्यनिर्णये फलम् पादोऽधर्मस्य कर्तारं पाद: साक्षिणमृच्छति । पाद: सभासदः सर्वान्पादो राजानमृच्छति ॥ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दा यत्र निन्द्यते ॥ (१) एतत् श्लोकद्वयमपि संततार्थनिगमप्रतिबद्धत्वादे- कत्रैवोक्तम् । यदत्र यौ वादिप्रतिवादिनौ व्यवहारमत्सरा- रूढौ धर्माधिकरणमुपस्थितौ न तौ द्वावपि सत्यौ न चापि द्वावप्यसत्यौ । तयोरवश्यमेकेन सत्येन भवित व्यम् । अपरेणाऽसत्येन । तत्र यदाऽसत्यस्यैव सभासदो जयं प्रयच्छन्ति पराजयं तु सत्यस्यैव, तदा तस्य कुदृष्ट- व्यवहारस्य यत्पापमेनःशब्देनोक्तम् । ततश्चतुर्भाग- । (१) नास्मृ. ३१११; अभा. ३०; अप. २४ न भुक्ते (च नब्र्युः) व्यासः; व्यक. १५ ब्रुवते (चेद् ब्रयुः);स्मृच.२३ प्राप्य (गत्वा) ब्रुवते (चेनु:); रार.२५ ब्रुवते ( च ब्रूयुः); व्यनि. ये तु (यत्र) शेपं अपवत्; स्मृचि. ४ व्यकवत्, कात्यायन:; नृप्र. ४ ; व्यसौ. १० व्यकवत् ; प्रका. १३ स्मृचवत्; समु. ९ ब्रुवते (चद्नु:). अभा. ३०; (२) नासं. १९७४; नास्मृ. ३।१२; अप. २११ धर्मस्य (गच्छति); व्यक. १५ मनुनारदहारीत- बौधायनाश्च; दवि. १७ मनुनारदहारीतवाधायना:; नृप्र.४; मनुनारद बौधायनहारीता:; सेतु. ९६ मनुनारदहः- व्यत. २०० रीतवौधायनाः (३) नासं. १९७५; नास्मृ. ३ | १३; अभा. ३०; नृप्र. व्यत. २०० मनुनारदबौधायनहारीताः; सेतु. ९६ मनुनारदहारीत बौधायनाः,