पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा (१) अस्यायमर्थः । यदि कथमपि सर्वेऽपि सभा सदो बुद्धिक्षोभाच्छास्त्रार्थं विस्मृत्य, अथवा लोभादिना कारणेन शास्त्रोक्तं ग्यायमार्गमुत्सृज्य व्यवहारस्य अन्याय- युक्त निर्णय दातुं प्रवृत्ता भवन्ति । तत्र च प्रसङ्गा- गतः कश्चित्स्मृतितन्त्रव्यवहारमार्गज्ञो ब्राह्मणः प्रत्यक्ष- स्तिष्ठति, तेन शास्त्रोक्तवचनपाठपूर्वकं प्रतिषेधनीयाः सभासदः । एवं प्रबोधयतो वदतस्तस्य छलं नास्ति । अनि युक्तोऽपि शास्त्रज्ञो वक्तुमर्हति, यतः शास्त्रं नाम देव- भाषा । अतः दैवीं वाचमिति । अभा. २८ (२) अनेन त्वनधिकृतस्यापि यदृच्छया सन्निहितस्य मिथ्यापश्यत्सु सभ्येषु विदुपस्तूष्णींभावं नेच्छन्ति, तथा च 'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति' अथ राजपुरुषपर्यनुयोग आशक्यते किमित्यनधिकृतो ब्रवीति ततश्च तत्प्रदेशादपसर्तव्यम् । मेधा. ८।१३ (३) दैवीं शास्त्रीयाम् । (४) दैवीं देवतानुमताम् । अयुक्तोक्तौ द्वेपदोपभाक् भवति सभ्यः युंक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद्वेषकिल्विषे । ब्रुवाणस्त्वन्यथा सद्यस्तदेवोभयमाप्नुयात् ॥ शास्त्राचाराऽविरुद्धं यत् तद्युक्तरूपमुच्यते एवंविधं वाक्यं ब्रुवन्सभ्यो नाप्नुयाद् द्वेषकिल्विषे ऐहिकामुष्मिक बाधे इत्यर्थः । युक्तवादी सभ्य इहलोकवाधाकरं लोक पं, परलोकवाधाकरं च किल्विषं नाप्नुयात् । अन्यथा तु ब्रुवाणः सद्यस्तक्षणात्तदेवोभयमाप्नुयात् । अभा. २८ सभ्यैः सहैव व्यवहारी निर्णयो राझा तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलच पार्थिवः । सह सद्भिरतो राजा व्यवहारान् विशोधयेत् || व्यत्रि. ५ सेतु. ९५ १५ अभावत्; व्यनि. अपवत् ; स्मृचि.४ मेधावतु; दत्रि. ३४० अभावत्, पू.; नृप्र.४ अपवत् ; व्यत. १९९ अभावत; व्यसौ. ११ अपवत्, पू.; व्यम.२ मेधावत्, पृ.; विता.६ मेधावत्, पू.; राकौ. . ३८३ मेधावत, पृ., सेतु. ९५ अभावत्; त्रिव्य. २ अपवत्. (१) नासं. १९६७ सच (सभ्य); नास्मृ. ३।३ब्रुवन् ( वदन् ) ; अभा. २८; व्यक. १५ नासवतं; दवि. १८ पे (पौ) बुवा (अन). vulg. एतत् श्लोकानन्तरं 'वृषो हि भगवान् धमां' (मस्मृ ८८१६-१७) इत्यादि लोकद्वयं पठितम् । (२) नासं. १ |७० मूल (मूला) वः (बाः); नास्मृ. ३१६; अभा. ४५ (१) तत्प्रतिष्ठ इति । एवंलक्षणोक्तसभ्य धर्मो भवति । पार्थिवश्च धर्ममूलः । अतः कारणात्सह सद्भिः सभासद्भिर्व्यवहारविशोधनं कुर्यात् । यथा राज्ञः प्रत्यक्षस्य प्रमाणधर्ममार्गस्थिता व्यवहारा विशुध्यन्ति, तथा न परोक्षस्य । अतोऽत्यादरेणेदमुक्तं, सह सद्भि रिति । अभा. २९ व्यक. ४ (२) सत्प्रतिष्ठः साधुव्यवस्थितः । (३) विशिष्टनियोजने कारणमाह - तत्प्रतिष्ठः । तेषु सभ्येषु प्रतिष्ठित इति तत्प्रतिः | स्मृतः शास्त्रेषु धर्म- स्वशात् प्रवर्तते । धर्ममूलाच धर्मो मूलं निमित्तं येषां ते धर्ममूलाः । ते पूर्वकृता इह कृताः इहानुरागनिमित्ताः प्रेत्य च सद्गतेः । अतो धर्ममूला राजानः । तस्मात् सह सद्भिः व्यवहारान् विशोधयेत् तैर्विचार्य निर्दोषान् पश्येदित्यर्थः । नाभा १९७० व्यवहारशुद्धौ सभ्यशुद्धिः शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः । शुद्धिश्च तेषां धर्माद्धि धर्ममेव वदेत्ततः ॥ (१) यदा राजा व्यवहारान् विशोधयेत्तदा शुद्धेषु व्यवहारेषु सभासदः शुद्धि प्राप्नुवन्ति । दुराराधोऽपि लोकः एवं ब्रवीति- यत्र राजा प्रत्यक्षेणाऽयं व्यवहारो दृष्टः, तत्रावश्यं सभासदां कश्चिद्दोपो नास्तीति इत्येवं शुद्धि यान्ति सभासद इति । (२) तेषां व्यवहाराणाम् । अभा. २९ स्मृच. २२ (३) सभ्यानामुपदेशाच्छुद्धेषु व्यवहारेषु न्यायेषु नितेषु शुद्धि प्राप्नुवन्ति सभासदः । शुद्धिश्रामायया यस्मात् तेषां व्यवहाराणां धर्मात्, तस्माद् धर्ममेव वदेत् सभ्य इति । व्यवहारो धर्माच्छुपति तच्छुद्धौ ते शुष्यन्ति । तस्मादात्मार्थ तैर्धमंऽवश्यं वक्तव्य इति संक्षेपः । नाभा १९७१ २९; व्यक. ४ तत् (सन) लश्च पार्थिवः (लो नराधिप:); नृप्र. २ (सत्य तिष्ठन् स्थितो धर्मो धर्ममूलो नराधिपः); बाल.२१३ व्यकवन्. (१) नासं. १९७१ तेषां धर्मादि (धर्मात्तेषां हि) त्ततः (दतः); नास्मृ. ३१७ अभा. २९; व्या. २८९; व्यक. १४; स्मृच. २२ तेषां धर्मादि (धर्मान्तपां हिं); रार.२४; नृप्र.४; व्यसौ १०: प्रका. १२ स्मृचव समु. स्पृचवत्.