सभा भिन्नजातीनां भिन्नवृत्तीनां एकस्थाननिवासिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनामेकजातीय कर्मो पजीविनां संघाताः । यथा हेडाबुकादीनां ताम्बूलिक कुबिन्दचर्मकारादीनां च । कुलानि ज्ञातिसंवन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुर्गा पूर्व पूर्व यद्य- पूर्व पठितं तत्तद्गुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यव हर्तॄणां व्यवहारविधौ व्यवहारदर्शनकार्ये एतदुक्तं भवति । नृपाधिकृतैर्निणते व्यवहारे पराजितस्य यद्यप्यसंतोष: कुदृष्टिबुद्धया भवति तथापि न पूगादिपु पुनर्व्यवहारो भवति । एवं पूगनिर्णतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीत दिगमनं भवति । श्रेणिनि पूगादि गमनम् । पुगनिर्णीते नृपाधिकृतगमनं भवतीति । नारदेन पुनर्नृपाधिकृतैर्निर्णतेऽपि व्यवहारे नृपगमनं भवतीत्युक्तम् – 'कुलानि श्रेणयश्चैव पुगाश्चाधिकृता नृपः । प्रतिष्ठा व्यवहाराणां गुर्वेपामुत्तरोत्तरम्' इति ॥ तत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणे व्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ दण्डयः । अथासौ जयति तदाऽधिकृताः सभ्या दण्ड्याः । मिता. (३) कुलानि कृपीवलाः ।
- अप.
(४) मिता. टीका-यथा हेडाबुकादीनामिति । देशा- देशान्तरं गत्वा प्रस्थाप्य येऽश्वविक्रेतारो हेडाबुका इति गुर्जरे प्रसिद्धोऽयं शब्दः । गणाश्चाधिकृता इति । गणाः पूगाः । सोत्तरसभ्येनेति । अधिकसभायुक्तेनेत्यर्थः । सुत्रो. (५) कुलं सजातीयसमूहः । एतच्च पुनर्व्याये बलव यूगेन हटेन श्रेण्या द्रष्टव्यमिन्येतदर्थम् । दीक (६) अथशब्देन सर्वेषां राजनि सत्वपरत्वेन राज्ञः सर्वतो गुरुत्वं दर्शितम् । चशब्देन सभ्येभ्यः प्राङ् विवाको गुरुरिति समुच्चीयते ।
- वीमि.
(७) ननु पूगादीनां व्यवहारद्रष्टृत्वमेव असंभव । कुतस्त्यं बलाबलम् । तथा हि राजनियोगेन वा व्यव हारद्रष्टृत्वं तेषां स्वातन्त्र्येण वा । नाद्यः | सहायत्वेन प्रतिनिधित्वेन च प्राड्विवाकस्य, पुरोहितामात्यसभ्यानां च सहायत्वेनैव नियोगविधानात् । न द्वितीयः । प्रजा
- शेषं मितागतम् ।
ध्य. का. ६ पालनाधिकृतानामेव व्यवहारदर्शनाधिकारबोधनादन्येषा स्वातन्त्र्यासंभवात् । अथ पूर्वोपन्यस्तैः ‘वणिक्शिल्पिप्रभृतिषु' इत्यादि- भिर्व्यासबृहस्पत्यादिवचनैः पूर्वोपपादितरीत्या सहाय त्वेन नियोगावगमात् वणिगादिव्यवहारद्रत्वं पूगादीनां राजनियोगेनैवेति मतं, तन्न | तथा सति राजप्राडू- विवाकभिन्नानां तन्नैरपेक्ष्येण द्रष्टुत्वाभावात् सर्वव्यवहार द्रष्टृत्ये 'प्राधान्येन व्यपदेशा भवन्ति' इति न्यायेन तयोरेवेति कुलादिदृष्टो व्यवहारः परावर्तत इत्यनुपपन्नम् । तद्रष्टृत्वाभावात् । 'शूद्रं यत्नेन वर्जयेत्' इति निषे धात् पूगादीनां च प्रायः शूद्रतदधमप्रतिलोमरूपत्वेन प्रतिनिधिनयापि केवलानां तवष्टृत्वाभावादिति । अत्रोच्यते । मास्तु तेषां व्यवहारदर्शने कैवल्यम् | तथापि वणिगादिव्यवहारे तेषामभियोगाद्राजादीनामपि तत्र तत्प्रत्ययेन निर्णायकत्वात् तत्कृतप्राधान्यमादाय तत्कृतत्वव्यपदेशसंभवात् कुदृष्टबुद्धया परावृत्य पुन व्र्व्यवहारप्रवर्तनाय बलाबलं तेपामनेन वचनेनोच्यते । अन्यथाऽस्य वचनस्य निर्विषयता आपद्येत । वस्तुतस्तु 'शूद्रं यत्नेन वर्जयेत्' इत्यनेन प्रतिषिद्धप्रतिनिधिभावा- नामपि पूगादीनां पूगादिव्यवहारे प्रतिप्रसवः प्रतिनिधि भावस्य व्यासादिवचनैरभियोगाविशेषात् क्रियत इति प्राइविवाकवत् कैवल्यमपि वक्तुं शक्यत इति न किञ्चि- दनुपपन्नम् । बृहस्पतिस्त्वमुमेवार्थ स्फुटयति । ऋव्यप्र. २९ - ३७ (८) एतेषां व्यवहारदर्शनानाधिकारेऽपि राजाज्ञयैव तदुपपत्तिः । अत एव नृपेणाधिकृत इत्यस्य तत्तव्यवहारा- भिज्ञतया तत्तद्व्यवहारदर्शने प्राधान्येन आजप्ता इत्यर्थः । एतेन तेषां शूद्रतया व्यवहारदर्शनानुपपत्तिशङ्का परास्ता । व्यउ. १९ + व्यम. ३ (९) पूगविपरीताच श्रेणयः । (१०) पूगा: एकग्रामनिवासिनो महाजनाः ।Xविता. २ (११) मिता. टीका मूले अथशब्दश्रार्थे । विशेषं स्वल्पमाह | नारदेनेति । पुनः तु । यद्यप्यत्र गणा इति पठितं, मूले च पूगा इति, अस्ति च तयोर्भेदः, तत्र वाक्यार्थी मितावत् । + पदार्थों मितावत् । x अवशिष्टपदार्थो मितावत् ।