पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 व्यवहारकाण्डम् (गौध. ११११) गौतमवचनान्न ब्राह्मणा दण्डया इति मन्तव्यम् । तस्य प्रशंसार्थत्वात् । यत्तु पड्भिः परि हार्यों राज्ञाऽवश्यश्चाबन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरि वाद्यश्चापरिहार्यश्च' इति (गौध. ८/१२) तदपि 'स एप अप. (४) मिता. टीका – अज्ञानभ्रान्त्यादिव्यतिरिक्त राग- बहुश्रुतो भवति, लोकवेदवेदाङ्गवित्, वाकोवाक्येति द्वेषादिभिरुपाधिभिर्धर्मशास्त्रविरुद्धमाचरन्तः सभ्याः तत्र हासपुराणकुशलः, तदपेक्षस्तद्द्वृत्तिः, चाष्टचत्वारिंशत्सं स्कारैः संस्कृतः, त्रिषु कर्मस्वभिरतः, पट्सु वा, समया- चारिकेष्वभिविनीतः’ (गौध.८।४-११) इति प्रतिपादित बहुश्रुतविषयं न ब्राह्मणमात्रविषयम् । #मिता. व्यवहारपराजयनिमित्तदण्डद्विगुणदण्डेन प्रत्येकं दण्ड्या इत्याह अपि च रागादित्यादिना । सभ्या इति नियुक्ताभिधानम् । अत एवानियुक्तानां नियुक्ता- पेक्षया न्यूनदण्ड: परिकल्पनीयः । नियुक्ताना- मभियुक्तत्वे सति धर्मशास्त्रविरुद्धाचरणादधिकापराधः । अनियुक्तानां तु तदभावादल्पापराध इति युक्तमेवैतत् । तथा हि नियुक्तेषु स्मृत्युल्लङ्घनं नृपाज्ञाभङ्गश्च । अनियुक्तेषु स्मृत्युल्लङ्घनमेवेति । ·

  1. सुत्रो.

(५) अधिकारेण अज्ञानसमुच्चयः । तदाह कात्या- यनः –'कार्यस्य निर्णयम्' इत्यादि । + वीमि. कुलश्रेणिपुगनृपाधिकृतानां व्यवहारनिर्णये ऽधिकारतारतम्यम् नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्व पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ (१) यदि तु दुष्टेऽपि लेख्यादौ तत्कर्ता न दोषान- पाकुर्यात् तदा कथं स्यात् । उक्तं तादृशे विपये राजा- वेदनं 'स्मृत्याचारव्यपेतेन मार्गेण' इत्यत्र । अत एव च-नृपेणेति । नृपो हि बलवान् व्यवहारं कारयितुं समर्थ इति व्यवहारविधौ स एव ज्यायान् । इतरेऽपि सामर्थ्या- पेक्षया दुर्बला बलीयांसश्च भवन्ति । अतश्च कुलादि- क्रमेणैव व्यवहाराणां राजगामिता द्रव्या । ब्राह्मणादि- समूहाः पूगाः । स्पष्टमन्यत् । Xविश्व २१३१ 7 (२) नृपेण राज्ञा अधिकृताः व्यवहारदर्शने नियुक्ताः 'राज्ञा सभासद: कार्या:' इत्यादिनोक्ताः । पूगाः समूहाः ।

  • वाल. सुबोवत् ।

+ वाक्यार्थी मितावत् । उद्धृतांशोऽपि अपवत् । सभ्योऽन्यथावादी दण्ड्योऽसभ्यस्तु स स्मृतः ॥ सभ्य- दोषात्तु यन्नष्टं देयं सभ्येन तत्तदा । कार्ये तु कार्यिणा- मेवं निश्चितं न विचारयेत् ॥ (३) उक्ताः सभ्यास्ते यदि रागादिवशात्स्मृतिशास्त्र - विरुद्धं विवादेऽपि निर्णयं कुर्वन्ति तदा विवादाद् विवादविषयीभूताद्धनाद् द्विगुणं दण्डं प्रत्येकं दण्डनीयाः । अत्र आदिशब्देन सदाचारन्यायापेतस्य ग्रहणम् । रागादि ग्रहणं चेह दण्डनीयत्व निमित्तस्य स्मृत्यपेतादिकारित्वस्य न विशेषणं, वाक्यभेदप्रसङ्गात् । यथोभयत्वं हविरादेः । ततश्च प्रदर्शनार्थत्वे मोहादिहेतुकस्यापि स्मृतिविरुद्ध कारित्वस्य दण्डविशेषनिमित्तत्ता भवति । अत एवं भृश- दण्डनिमित्तेन लोभादिना तुल्यमज्ञानमाह नारदः - 'रागादज्ञानतो वाऽपि लोभाद्वा योऽन्यथा वदेत् । सभ्योऽसभ्यः स विज्ञेयस्तं पापं विनयेद्भृशम्' इति ॥ एतच्च दण्डविधानं धनविषयविवादे । वादान्तरे तु पारुण्यादिविषये दण्डान्तरं वेदितव्यम् । अत एवाऽह विष्णुः – 'कूटसाक्षिणां सर्वस्वापहारः । उत्कोचजीविनां सभ्यानां च' । (विस्मृ. ५/१७५ - १७६) अत्राप्यु- कोचग्रहणं प्रदर्शनार्थम् । अत एव वृद्धबृहस्पति:- अन्यायवाचिनः सभ्यास्तथैवोत्कोचजीविनः । विश्व स्तवञ्चकश्चैव निर्वास्याः सर्व एव ते' ॥ यत्तु - 'लोभा- त्सहस्रं दण्ड्यः स्यान्मोहात्पूर्वी तु साहसम्' | इत्यादि लोभमोहयो रतुस्यदण्डनिमित्तत्ववचनं तत्साक्षिविषयं न सभ्यविषयम् । अत एव कात्यायनः सम्यग्ज्ञानरहितस्य सभ्यस्य द्विगुणं दण्डमाह – 'कार्यस्य निर्णयं सम्य ज्ञात्वा सभ्यस्ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक्' ॥ तथा रागापरपर्यायेण स्नेहेन लोभेन व सभ्यदण्डं प्रत्यज्ञानस्य तुल्यं निमित्तत्व माह-- 'स्नेहादज्ञानतो वाऽपि मोहाद्वा लोभतोऽपि वा । अत्र । स्मृच, सवि. मितावत् । x 'नृपोऽर्थाधिकृताः' इति ग्रन्थे पाठः, ग्रन्थकारसंमतस्तु 'नृपोऽथाधिकृता' इत्येव स्यात् । (१) यास्मृ. २ | ३०; विश्व. २।३१ पेण (पोइर्था); मिता.; अप.; व्यनि. नृपेणाधिकृताः पूगाः (नृपोऽधिकृतपूगाश्च); नृप्र. ८; वीमि.; व्यप्र. २८; व्यउ. १९; विता. १७; व्यम. ३; प्रका. ९; समु. ७.