पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) कुलीनाः संकरादिदोषशून्यमातापितृपरम्पराकाः। व्यत. १९९ (५) राज्ञा कर्तव्याः । सभ्यत्वेन वरीतव्या इत्यर्थः । अतस्तेषामुपादेयत्वात् 'स्वाध्यायोऽध्येतव्यः' 'यूपं छिनत्ति’ ‘पुरोहितस्तं प्रकुर्वीत' इत्यादिवत् सत्यपि कर्मत्वेऽनुद्देश्यत्वात् तद्गतैकत्ववत् बहुत्वं विवक्षितम् । तच यद्यपि कपिञ्जलनयेन ( पूमी. १११११८ ) त्रित्व मात्रेणापि चरितार्थ तथापि स्मॄत्यन्तरोतबहुविकल्प परम् । सभा

  • व्यप्र.२६

राशा स्वस्थाने ब्राह्मण: प्राइविवाको नियोज्य: अंपश्यता कार्यवशात् व्यवहारान् नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् । (१) दृष्टमूलत्वाच्च राज्ञः स्वयं व्यवहारदर्शनस्मृते रदृष्टार्थत्वेऽपि च प्रयोजनानुसारात् कार्याणां गुरुलधुत्वे समीक्ष्य - अपश्यतेति । सोऽपि राजस्थानीयत्वात् क्रोधादिरहित एवं स्यात् । विश्व. (२) व्यवहारान्नृपः पश्येदित्युक्तं तत्रानुकल्पमाह अपश्यतेति । कार्यान्तरव्याकुलतया व्यवहारानपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह, सर्वधर्मवित् सर्वान्धर्मशास्त्रो क्तान्सामयिकांश्च धर्मान्वेत्ति विचारयतीति सर्वधर्मवित् ब्राह्मणो न क्षत्रियादिर्नियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनोत्तगुणविशिष्टं कुर्यात् । मिता. (३) स्वयं च प्राविवाकसंज्ञकब्राहाणो राजन्येऽपि व्यवहारान्पश्यति नियोक्तव्य एव । यदाह नारदः -- 'धर्मशास्त्रं पुरस्कृत्य प्राविवाकमते स्थितः । समाहि तमतिः पश्येद्व्यवहाराननुक्रमात् ' ॥ राजा चेद्व्यवहारान पश्यति प्राड्विवाकोऽनुमन्ता, अन्यदा तु व्यवहारद्रष्टा । x अप. (४) व्यवहारदर्शनात् गुरुतरकार्यान्तरव्यग्रत्वेन व्यव हारानपश्यता नृपेण सभ्यैः त्रिभिरेव सह नियोक्तव्यः

  • पदार्थो मितावत् । व्यउ, व्यप्रवन् ।

Xभावार्थो मितावत् । बीमि., व्यउ. अपवत् । (१) यास्मृ. २३ ; विश्व. २०३; मिता. ; अप.; स्मृच. १६; पमा. २७; स्मृसा. ८३; स्मृचि. ३; नृप्र. ४-५; त्रीमि.; व्यप्र. २४ कार्य (वर्थ); व्यड. १५; व्यम. ३; विता. ११; राकौ. ३८४; समु. ५. पमा. २७ - प्राविवाको नाऽमात्यादिभिः सहेत्यर्थः । स्मृच.१६ (५) राज्ञः प्रतिनिधिमाह - अपश्यतेति । (६) मिता. टीका - योगीश्वरोक्तमनुकल्पमेव मुख्य मन्यते नारद इत्याह | नारदेन त्वयमेवेति । राज्ञां बहु कार्यव्याकुलत्वेनावकाशाभावात् स्वप्रतिरूपकपूर्वोत्त पुरुपान्तरद्वारेणैव व्यवहारदर्शनस्योचितत्वादसावेव पक्षो मुख्यो ज्यायानित्यर्थः ।

  • सुचो.

(७) देशजात्यादिसकल धर्मज्ञः सर्वधर्मवित् । दीक. शास्त्रविरुद्धनिर्णेतृसभ्यदण्डः रांगाल्लोभायाद्वापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक्पृथग् दण्ड्या विवादाद्विगुणं दमम् ॥ (१) स्मृत्युक्तार्थान्यथाकारिणो रागादिभिस्तद्विगुणं धनमेकैकशो दण्ड्याः । आदिग्रहणात् स्मृत्यर्थे चान्यथा- निनीपव इत्यभिप्रायः । सर्वसभ्यदण्डाद् द्विगुणं च राजा तत्स्थानीयो वा दण्ड्यः, तदधीनत्वान्निर्णयस्य । अत एव च पुथक् पृथगिति वीप्सा | सभ्याः पृथक् पृथक् विवाद- द्विगुणं, तद्विगुणं च राजा । तथा च वक्ष्यति । विश्व. (२) प्राविवाकादयः सभ्या यदि रागादिना स्मृत्य- पेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यमित्यत आह - रागादिति । अपि च पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात् स्नेहातिशयात्, लोभात् लिप्सातिशयात्, भयात् संत्रासात्, स्मृत्यपेतं स्मृति- विरुद्धम्, आदिशब्दादाचारापेतं कुर्वन्तः, पृथक्पृथगेकै- कशो, विवादात् विवादपराजयनिमित्ताद् दमाद् द्विगुणं दमं दण्डयाः, न पुनर्विवादास्पदीभूताद् द्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः | रागलोभभयाना- मुपादानं रागादिष्वेव द्विगुणो दमो नाज्ञानमोहादिष्विति नियमार्थम् | न च 'राजा सर्वस्येप्रे ब्राह्मणवर्जम्' इति

  • बाल सुबोवत् ।

(१) यास्मृ. २१४; अपु. २५३।३३-३४ स्मू (श्रु) णं दमम् (णो दमः); विश्व. २।४ लोभा ( द्वेपा) वादाद (वाद) दम (धन); मिता. ; अप.: २।३०४ उत्त. ; स्मृच. २२; पमा. ३४; सुबो. : २१३०५; व्यनि. तादि (ताधि); दवि. ३७ नारदः; नृप्र. ५१ सवि.६९ तादि (तार्थ) वादादू (वाद); वीमि.; विता. २७; प्रका. १३; समु. ०