पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् एक एव सुहद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ भयाद्धर्मातिक्रमो न कर्तव्य इत्येतत् ‘धर्म एव हतों हन्ति' इत्यनेनोपदिष्टम् । स्नेह्तो न कर्तव्य इत्यनेनो- पदिश्यते । यत एकः सुहृद्धर्मस्तत्र स्नेहो भावनीयः । अन्यो हि' मनुष्यः मुहृत् [ धर्मः निधनेऽप्यनुयान् ? ] कार्यमपेक्ष्य जहाति जीवनं, योऽपि स्यादत्यन्तमित्रं तस्यापि सौहार्द आ निधनात् । धर्मस्तु मृतमपि पुरुपमन्वेति अतो न मुहृदपेक्षया मिथ्यादर्शनमुपेक्षा वो कर्तव्या । 'भार्या पुत्रो मित्रमर्थाश्च रिक्थम् | नश्यन्त्येते देह् नाशे नरस्य ॥ धर्मस्त्वेको नैनमुज्झत्यजस्रम् | तस्माज्जह्या- त्पुत्रदारान् न धर्मम् ॥' यदन्यद् धर्माद्भार्यादि, तत्सर्व शरीरेण समं सह नाशं गच्छति । धर्मादन्यो मृतं न परित्रातुं कश्चित्समर्थ इत्यतः सुहृद्वान्धवानुरोधादपि धमों न हातव्यः । अमेधा. । अधर्म्यनिर्णये दोपभागिन: पादोऽधर्मस्य कर्तारं पादः साक्षिणमृच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ (१) न चैपा मनीपा कर्तव्या 'अर्थिना प्रत्यर्थिना वाऽन्यतरस्य भूम्याद्यपहियते स एव भूम्यपहारदोष भाग्भविष्यति । वयं तु तदकारिणः किमिति दोषवन्तः स्पाम' यतस्तस्य अयं चतुर्था विभज्यते । अर्थवादश्या यम् । न ह्यन्यकृतस्यैनसोऽन्यत्र गमनमस्ति । तेषामपि मिथ्यादर्शन निषेधातिक्रमादुत्पद्यते पापं मिथ्यालम्वनम् । राज्ञः स्वयमपश्यतोऽपि अधिकृतराजस्थानीयादिदोपा

  • अन्येषां व्याख्याकाराणां न विशेषः ।

(१) मस्मृ. ८/१७; व्यक. १५ द्धि (त्तु); व्यनि.; व्यसौ. ११; प्रका. १२; समु.८. (२) मस्मृ. ८।१८; अप. २।३०४; व्यक. १५ मनुनारद- हारीत बौधायनाः; पमा. १९ साक्षिणमृच्छति (गच्छति साक्षिणम्): व्याचे. ६; व्यनि.; दवि. १७ मनुनारदहारीत बौधायना: ; व्यत. २०० मनुनारदहारीतवौधायना:; व्यसौ. १०; व्यप्र. ११; व्यउ.६,१६५; विता.२७; सेतु. ९६ मनुनारदहारीत- बौधायना:; प्रका. १२; समु. ८ धर्मस्य (गच्छति). १ इपि. २ (०). दोपवलम् । यदि राजाधिकृतो मिथ्याचरितेन ज्ञापितः, पराजितं दुष्टं न गृहीते न च पुनः सम्यक् निर्णयं करोति, ततः सोऽपि पापभाग्भवति । अधिकृतोपलक्ष- णार्थी वा राजग्रहणम् । यदा राजा स्वयं मिथ्या पश्यति तदा दुष्यति । यदा राजस्थानीयस्तदा तस्य दोप इत्यर्थः । मेधा. (२) तव्यवहारतोऽधर्मसंबन्धी । चतुर्थो भागोऽर्थिनं प्रत्यर्थिनं वादिसंप्रवृत्तं गच्छति, अन्यश्चतुर्थभागोऽसत्यवा- दिनं साक्षिणं च, अन्यः परः सर्वान् सभास्थितान् प्रेक्ष मागान्, पैरश्रान्यः राजानं प्रयातीति सर्वेषामधर्मसंबन्धो भवतीत्येतत्प्रतिपादनपरमेतत् । गोरा. , (३) कर्तृपापस्य पाद इत्यर्थः । अनेनैव सभ्यानां प्रत्यवायं वदता सभोपविष्टानां ब्राह्मणानां सभासदां च भेद उक्तः । व्यउ.६ धर्म्यनिर्णये शुभफलम् राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दा यत्र निन्द्यते || (१) एप एवार्थी विपर्ययेणोच्यते । यत्र दोषवान् दोपं गोपायितुं न लभते प्रकटीक्रियते तदीयो दोपः, तत्र सर्वे साधु संपद्यत इति । 'यत्र धर्म' (८११४) इत्यत आरभ्य मिथ्यादर्शनोपेक्षणप्रतिषेधार्थ निन्दा प्रशंसाभ्यां शुभाशुभफलद‍ नाथ अर्थवादाः । मेधा. (२) यत्र पुनः सभायां असहादित्वादर्थी प्रत्यर्थी वा सभ्यग्दर्शनेन कुत्स्यते तत्र राजाऽपापो भवति, सभासदश्र पापेन न संबध्यन्ते, अर्थ्यादिकर्तारमेव गच्छति । +गोरा. मवि. (३) मुच्यन्ते चेति चकारात्साक्षिणोऽपि । (४) राजपदं विवेचकपरम् । व्यत. २०० (५) यत्र शिक्षणीयस्य शिक्षा क्रियत इत्यर्थः । व्यउ.७ + ममु. गोरावत् ।

  • ममु., सेतु. गोरागतम् ।

(१) मस्मृ. ८।१९; अप. २।४ यत्र (यदि ) ; व्यक.१४ च ( तु); स्मृच. २२; रार.२५ वत्य (वेद); पमा. ३३; व्यनि.; दवि. १८; नृप्र. ५; व्यत. २०० मनुनारदबौधायनहारीताःः व्यसौ. १०; व्यप्र. ११; व्यउ. ७ निन्यते ( तिष्ठति); सेतु. ९६ मनुनारदहारी तबौधायना:; प्रका. १२; समु. ८. १ परित्यज्य.