पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ (१) धर्मः शास्त्रन्यायदेशनियता व्यवस्था । सा चेद धर्मेण तद्व्यतिक्रमरूपेण हन्यते विनाश्यतेऽर्थिंना प्रत्य र्थिना वाँ, तथा सत्यमनृतेन साक्षिभिर्हन्यते, प्राडूविवा- कादयश्च प्रेक्षन्ते न तत्त्वमुद्धरन्ति, ततस्ते हताः शत्र- तुल्या भवन्तीति निन्द्यते । तस्मान्नार्थिप्रत्यर्थिनी विप रीतमाचरन्तौ सभासद्भिरुपेश्यौ । साक्षिणश्च । धर्माधर्म- ग्रहणेन सत्यानृतग्रहणेन वा सिद्धौ श्लोकपूरणमुभयो- रुपादानम् । अतो विषयभेदेन व्याख्यातम् । मेधा. (२) यस्यां सभायां समवस्थितानां प्राड्विवाकादीनां प्रेक्षमाणानां वादिना प्रतिवादिना वा धमी बाध्यते यत्र च साक्षिभिः सत्यमनृतेन बाध्यते तत्र ते प्राइविवाका दय: सभासदः पापेन हता भवन्ति । तस्मान्न वादि- प्रतिवादिनां साक्षिकृतो वा व्यतिक्रम उपेक्षणीयः । गोरा. (३) यत एव सत्यमनृतेन हन्यतेऽत एवं धमा धर्मरूपेण तत्र हन्यते । मवि. (४) प्रेक्षमाणानामिति अनादरे पष्ठी | स्मृच. २१ धर्ममहिमा धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो ह्तो वधीत् ॥ (१) न भयादन्यथा दर्शनं कर्तव्यं यतो धर्मो व्यतिक्रान्तः सन् हन्ति । नोऽथ तत्सहायो राजा वा । तथा धर्म एव पालितः सर्वतो भयमपनुदति । नापकर्तु अँथ्योदयः क्रुद्धाः शक्नुवन्ति । तस्मादेवं जॉनता सुखदुःखे धर्माधीने इति धमी न हन्तव्यः । यदि वयं में हन्मः तदा सोऽस्मान् सर्प इव रोपितः प्रतिहन्ती- तो धर्म ह्तः सन् माऽस्मान् वधीदित्यात्मपरित्राणार्थ श्रमी रक्षितव्यः ।' मेधा. ममु., मच., नन्द, भाच. गोरागतम् । स्मृच.२१ यत्रा (चैवा) हन्यते (हन्येत); स्मृसा.८४; चन्द्र. १०५ तत्र (तस्य); प्रका. १२ यत्रा (चैवा): समु.८ प्रकावत्, कात्यायनः . (१) मस्मृ. ८१५; व्यक. १५; स्मृच. २१; रार. २५; व्यसौ. ११; प्रका. १२; समु.८. १ धर्म. २ ( ० ). ३ सिद्धं ४ तस्मान्न चापि प्रतिवादिना क्षिकृतो व्यतिक्रमो रक्षणीयः । ५ र्थम् ६ अर्थादयः, नथ्यायः ७ जानः, जानानः ३५ (२) तस्माद्धभ व्यतिक्रान्तो दृष्टादृष्टाभ्यां नाशयति, नार्थिप्रत्यर्थ्यादि । स एव चानतिक्रान्ततया रक्षति | तस्माद्धम नातिक्रमणीय: । 'माऽस्माकं त्वत्सहितानां धमां व्यतिक्रान्तो दृष्टादृष्टार्थनाशं कार्षीत्' इति सभ्यैः असत्प्रवृत्त: प्राड्विवाकः संबोधनीयः । +गोरा. (३) अथवा नो निषेधेऽव्ययं, नो हृतो धर्मा मा वधीत् न इन्त्येवेत्यभिप्रायः । Xममु. (४) हे महर्षयः ? मा नोऽस्मान् धर्मो वधीत् । नन्द. वृ॑षो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम् । वृपलं तं विदुर्देवास्तस्माद्धर्म न लोपयेत् ॥ (१) वृपलशब्दनिर्वचनेन मिथ्यादर्शी निन्द्यते न जातिवृपलो नृपल: । किं तर्हि यो नृपस्य कामवर्षिणो धर्मस्यालकुरुते | निवृत्तिवचनोऽलंशब्दः स नृपल इत्येतम देवाः प्रतिपन्नाः । मनुष्यास्तु यदि जाति- शब्दमेव मन्यन्ते कामं मन्यन्ताम्, प्रमाणतरास्तु देवाः । ते चानेन प्रवृत्तिनिभित्तेन वृपलशब्दप्रयोगं मन्यन्ते । देवग्रहणमर्थवादः | तस्मात् श्राद्धकाले वृपलैर्न प्राप्त व्यम् । 'हन्तव्यो नृपलश्चौरः' इत्याद्यासु क्रियासु मिथ्या दर्शी ब्राह्मण एवं वृषलशब्देन ग्रहीतव्य इति । अतो नृपलत्यं मा प्रापमिति धर्म न लोपयेत् न नाशयेदिति पलत्वाध्यारोपो निन्दा । मेधा. (२) तस्मात्मकलकामचर्पणात् वृपशब्देन धर्म उच्यते । तस्य वारणं कुरुते तं देवा तृपलं मन्यन्ते न जातिवृपलम् । तस्माद्धर्म नोच्छिन्द्यादिति धर्मव्यतिक्रम- परिहारार्थं वृपलवचनम् ।

  • गोरा.

(३) अलं व्यर्थत्वं निषेधं वा । मवि. (3) वृपः प्रवर्पति अर्थकाममोक्षानिति । अलंशब्दो वारणार्थः । ऋपलं शूद्रं गवाशिचण्डालं वा । मच. +मच. गोरावत् | X प्रथमकल्पस्तु गोरावद | ÷ vulg. 'वृपो हि भगवान्' तथा ' एक एव सुहृद् ( मरमृ. ८।१६, १७) इति श्लोकद्वयं 'तत्प्रतिष्ठः स्मृतो धर्मो नारगृ. ३१६ इति शोकानन्तरं दृश्यते ।

  • ममु. गोरावत् ।

(१) मस्मृ.८।१६ ख. पुस्तके तु ‘त्वलम्' इति पाठः; व्यक. १५; स्मृच.२१ ह्य (स्व); व्यसौ. ११ झ (त्व) धर्म (तं तु); प्रका. १२ रमृचवत्; समु.८ रमृचवत्.