पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ (२) यद्राष्ट्रं शूद्रबहुलं पर (?) लोकायतिकाक्रान्त- मविद्यमान द्विजं तत्सर्वे दुर्भिक्षव्याधिपीडितं भूला विन श्यति । 'अनौप्रास्ता' इत्येतदभावात् शान्त्यर्थयागाद्य

  • गोरा.

व्यवहारकाण्डम् भावाच्च । (३) न केवलं व्यवहारदर्शन एव शूद्राधिकारा- द्राष्ट्रावसादः । किन्तु अन्यत्रापि तदधिकारप्राधान्यादिति प्रसङ्गादाह–यद्राष्ट्रमिति | शूद्रभूयिष्ठं शूद्राधिकारप्रधानं, अत एव नास्तिकाक्रान्तमत एवाऽद्विजम् | प्राइविवाकसभ्यैर्धर्म्य एवं निर्णयः कार्य: धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । शल्यं चाऽस्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ (१) धर्मः शास्त्रव्यवस्था | अधर्मणा:व्यवस्थया पीडित: सभामुपतिष्ठते यत्रावस्थानं कुरुते, सभ्याच ब्राह्मणास्तस्य धर्मस्य शल्यमिव शल्यं अधर्माख्यं नोद्ध रन्ति, तत्र तेनाधर्मशल्येन सभ्या विद्धा भवन्ति । गोरा. (२) कथकान् कांश्चित् सभ्याननादृत्य धर्मनिर्णये सभ्यानामपि दोपस्तेनैव दर्शितः – धर्मो विद्वस्त्विति । शल्याऽनिकर्तनं संमत्यभावेऽपि निश्चयः । स्मृच.२१ (३) भाः प्रकाशः, तथा सह वर्तत इति विद्वत्संहति रेवात्र सभाशब्देनाभिमता । यत्र देशे सभां विद्व त्संहतिरूपां, धर्मः सत्याभिधानजन्योऽनृताभिधान- जन्येनाधर्मेण पीडित आगच्छति । आर्थिप्रत्यर्थिनोर्मध्ये एकस्य सत्याभिधानादपरस्य मृपावादात् ते च सभास- दोऽस्य धर्मस्य पीडाकरत्वात् शल्यमिवाऽधर्म नोद्धरन्ति तदा ते एव तेनाधर्मशल्येन विद्धा भवन्ति । +ममु. सभायां तूष्णींभावे विपरीतोक्तौ वा दोषः नन्द. संभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन् वाऽपि नरो भवति किल्बिपी ॥

  1. ममु. गोरावत् । +मवि. पदार्थो ममुवत् । मच. ममुगतम् ।

(१) मस्मृ. ८ | १२; व्यक. १५; स्मृच. २१ ते (ति) विद्धा (हता); व्यनि. ते (ति) न (नि); व्यसौ. १०; व्यप्र. ११: २४ धर्मो विद्धस्तव (विद्धो धर्मो ह्य) न (नि); व्यड. ६ पूर्वार्ध ब्यप्रवत् ; प्रका. १२ स्मृचवत् समु.८ स्मृचवत् (२) मस्मृ. ८/१३ क., ग, घ. पुस्तकेपु 'सभां वान प्रवे- व्यं' इति पाठ: ; सुनी. ४५२९; मिता. २१२, २८३ उत्त; अप. २११४) व्यक. १४ मा ( भां) व्या ( व्यं ) समञ्जसम् (समं (१) अनेनार्धन द्वयं विप्रतिषिध्यते । प्रतिपन्नाधिका- रेण मिथ्यादर्शनं न कर्तव्यमन्येन च क्रियमाणं नोपेक्ष णीयम् । तत्रोभयथा दोपः | अब्रुवन् अन्येन विपरीते: नुष्ठीयमाने तूष्णीमासीनो हस्तक्षेपेण वा शास्त्राज्ञाविरुद्ध ब्रुवन् किबीपी पापभाग्भवति । तेन नैषा प्रत्याशा कर्तव्या । द्वितीयः, प्राडूविवाको मिथ्या पश्यति, स एव योजयति (?) अहं तूष्णीभूत उदासीनः किमित्ये- नसा योध्ये इति । सभाप्रवेशनिषेधेन चात्र व्यवहार दर्शनाधिकारप्रतिपत्तिः प्रतिषिच्यते । 'सभा वान प्रवे व्या' इति । व्यवहारदर्शनाधिकारी न प्रतिपादनीय इत्यर्थः । प्रतिपन्नश्चेत् समञ्जसं वक्तव्यम् । अनेन तु अनधिकृतस्यापि यदृच्छया सन्निहितस्य मिथ्या पश्यत्सु सभ्येषु विदुपस्तूष्णींभाचं नेच्छन्ति । तथा च नारद:- 'नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वत्तुमर्हति । अथ राज पुरुषपर्यनुयोग आशङ्क्यते किमित्यनधिकृतो ब्रवीति, ततश्र तत्प्रदेशादपसर्तव्यम् । तदिदभुक्तम्–'दुर्बलहिंसायां चाविमोचने शक्त श्रेत्' इति (गौध. २१११९) । मेधा. (२) यत्पुनस्तेनोक्तम् -- 'सत्यं ब्रूयात्प्रियं ब्रूयान्न यात्सत्यमप्रियं' इति (मस्मृ. ४११३८) तन्निर्णतृव्यति रिक्तविपयम् । तत्राऽपक्षपातेन अप्रियोक्तिरपि कार्ये वेत्युक्तत्वात् । स्मृच. २२ (३) सभामवगम्य व्यवहारार्थं तत्प्रवेशो न कर्तव्यः । पृष्टश्चेत्तदा सत्यमेव वक्तव्यम् । मेधातिथिना तु 'सभा वा न प्रवेष्टव्या' इति ऋज्वेव पठितम् । मभु. (४) नियुक्तेषु 'सभा वा न प्रवेष्टव्या' इत्यसङ्गतेः नियोगस्वीकारे सभाप्रवेशस्यावश्यकत्वादनियुक्त विषय मेवैतन्मनुवचनम् । Xव्यप्र. २८ अधर्म्यनिर्णये दोषः यंत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।

  • मच. ममुवत् |

X व्यउ. व्यप्रवत् । वचः); मभा. १३।७; स्मृच. १५,२२; सुबो. २११; स्मृसा. ८४ भा (भां) व्या (व्यं); व्यनि.; स्मृचि. ४ सभा वा (सभायां) कात्यायनः; दवि. १७ स्मृसावत् ; राकौ. ३८३; व्यसौ. १५ चन्द्र.१०५ ( सभायां न प्रवेष्टव्यं वक्तव्यं वा यथोचितम्); व्यप्र. २८; व्यउ. १७ वसिष्ठः : ५१ अनुवन्धि (साक्षिणाम) उत्त.; विता. ७; प्रका. ७; समु.८. स्मृसावत् ; ( १ ) मस्मृ. ८ | १४; अप. २।४ कात्यायनः; व्यक. १५;